००३१ सरल संस्कृत अनुवाद अभ्यास पाठ ७३१ से ७६० December 26, 2019 By Arun Aryaveer ओ३म् 731. संस्कृत वाक्याभ्यासः सरितायाः देवरः रुग्णः अस्ति। = सरिता का देवर बीमार है। सा गृहे प्राथमिकोपचारं करोति। = वह घर में प्राथमिक उपचार करती है। सा देवराय त्रिशून-गुलिकां ददाति। = वह देवर को त्रिशून गोली देती है। ऊष्णं जलं पाययति। = गरम पानी पिलाती है। दिनद्वयम् अभवत् देवरः स्वस्थः न जातः। = दो दिन हो गए देवर स्वस्थ नहीं हुआ है। सरिता शीघ्रमेव यानं बहिः निष्कासयति। = सरिता शीघ्र ही गाड़ी बाहर निकालती है। सा देवरं याने उपावेशयति। = वह देवर को गाड़ी में बिठाती है। सा वैद्यसमीपं नयति। = वह वैद्य के पास ले जाती है। वैद्यः देवरस्य नाड़ीपरीक्षणं करोति। = वैद्य देवर की नाड़ी का परीक्षण करता है। वैद्यः देवराय विरेचनं ददाति। = वैद्य देवर को विरेचन देता है। होराद्वये एव देवरस्य उदरं स्वच्छं भवति। = दो घंटे में ही देवर का पेट साफ हो जाता है। देवरः स्वस्थः भवति। = देवर स्वस्थ हो जाता है। देवरः भ्रातृजायायाः चरणस्पर्शं करोति। = देवर भाभी के चरण छूता है। ओ३म् 732. संस्कृत वाक्याभ्यासः अहं मम भार्यया सह वार्तालापं कुर्वन् आसम् । = मैं मेरी पत्नी के साथ बात कर रहा था। एकः सज्जनः आवयोः सम्वादं श्रृण्वन् आसीत्। = एक सज्जन हम दोनों का सम्वाद सुन रहे थे। सः पृष्टवान् – भार्यया सह संस्कृते वार्तालापं करोति ? = उसने पूछा – पत्नी के साथ संस्कृत में बात करते हो ? अहम् – आम् । = हाँ । सः पुनः पृष्टवान् – भार्यया सह विवादः भवति तदानीम् अपि ?? = उसने फिर से पूछा – पत्नी के साथ विवाद होता है तब भी ? अहम् – आम् , आवयोः मध्ये गभीरः विवादः न भवति। = हाँ , हम दोनों के बीच गहरा विवाद नहीं होता है। सः उक्तवान् – ” तथापि कीदृशः सम्वादः भवति ? = उसने कहा – फिर भी कैसा सम्वाद होता है ? अहम् – त्वं मम वार्तां न मन्यसे । = तुम मेरी बात नहीं मानती हो। त्वं मम वार्तां न श्रृणोषि । = तुम मेरी बात नहीं सुनती हो। कति वारम् उक्तवान् , अहं भोजने लवणं न्यूनम् इच्छामि। = कितनी बार कहा – मैं भोजन में नमक कम चाहता हूँ। – कदापि समये सिद्धा न भवसि त्वम्। = तुम कभी समय पर तैयार नहीं होती हो। मम वस्तूनि कुत्र स्थापितवती ? = मेरी वस्तुएँ कहाँ रख दीं ? सः सज्जनः मम सम्वादं श्रुत्वा हसितवान्। = वह सज्जन मेरा सम्वाद सुनकर हँस दिये। सः अवदत् – स्नेहपूर्णः विवादः । = वह बोला – स्नेहपूर्ण विवाद । ओ३म् 733. संस्कृत वाक्याभ्यासः लाली … ई … ई ..लाली …. ई… दीपकः चिकित्सालयात् गृहम् आगच्छति तदा लालीम् एव आह्वयति। = दीपक चिकित्सालय से घर आता है तब लाली को ही बुलाता है। लाली – ओ ..ओ.. तातः आगतवान्। = ओ …ओ … पिताजी आ गए। – भवान् अद्य बहु विलम्बेन आगतवान्। = आप आज देर से आए। दीपकः – आम् अद्य रुग्णाः अधिकाः आसन्। = हाँ आज रोगी अधिक थे। – सर्वे परीक्षणीयाः भवन्ति खलु । = सबकी जाँच करनी होती है न । लाली – तात ! अद्य मम शिक्षिका मम टिप्पणीपुस्तके “सर्वोत्तमम्” लिखितवती। = पिताजी ! आज मेरी शिक्षिका ने मेरी कॉपी में ” वेरी गुड” लिखा। दीपकः – ओ … मम सर्वोत्तमा पुत्री। = ओ … मेरी सर्वोत्तम बेटी। – माता कुत्र अस्ति ? = माँ कहाँ हैं ? लाली – अम्ब ! तातः आह्वयति। = माँ ! पिताजी बुला रहे हैं। शिल्पा – आगच्छामि …. = आई …. – भवान् हस्तौ प्रक्षालयतु। = आप हाथ धो लीजिये। – भोजनम् आनयामि। = भोजन लाती हूँ। – सर्वे एकसाकं भोजनं करिष्यामः। = सब एकसाथ भोजन करेंगे। दीपकः – सर्वे ??? लाली भोजनं न कृतवती वा ?? = सब ??? लाली ने भोजन नहीं किया क्या ? शिल्पा – भवन्तं विना लाली भोजनं न करोति। = आपके बिना लाली खाना नहीं खाती है। लाली – तात ! भवता सह भोजनं बहु रोचते। = पिताजी ! आपके साथ भोजन अच्छा लगता है। ओ३म् 734. संस्कृत वाक्याभ्यासः माता – मा रुदिहि वत्स ! = मत रो बेटा ! – दुग्धम् आनयामि। = दूध लाती हूँ। – पश्य , दुग्धं दुहित्वा आनीतवती। = देखो , दूध दुह कर ले आई। – गोमातुः दुग्धम् …. = गाय माता का दूध … – गोमाता मम वत्साय दुग्धं ददाति। = गायमाता मेरे पुत्र को दूध देती है। – गोमाता गोवत्साय अपि दुग्धं ददाति। = गाय माता बछड़े को भी दूध देती है। – पिब पिब मम वत्स ! मधुरं मधुरं दुग्धं पिब। = पियो पियो मेरे पुत्र ! मीठा मीठा दूध पियो। – ज्येष्ठः भूत्वा गोमातुः सेवां कुरु। = बड़े होकर गौमाता की सेवा करो। – मातुः दुग्धं पीतवान् । = माँ का दूध पी लिया। – अधुना गोमातुः दुग्धं पिबसि त्वम् । = अब गाय माता का दूध पी रहे हो। ओ३म् 735. संस्कृत वाक्याभ्यासः राजेशः संस्कृतकार्यकर्ता अस्ति। = राजेश संस्कृतकार्यकर्ता है। सः वित्तकोषे वृत्तिं प्राप्तवान्। = उसको बैंक में नौकरी मिली। तस्य मित्रं तस्मै अभिनन्दति। = उसका मित्र उसको बधाई देता है। सः मित्रं पृच्छति – “कुत्र नियुक्तिं प्राप्तवान् ?” = वह मित्र पूछता है – ” कहाँ नियुक्ति पाई ? राजेशः – ब्यावरे … = ब्यावर में …. मित्रम् – ब्यावर कुत्र अस्ति ? = ब्यावर कहाँ है ? राजेशः – राजस्थानराज्ये …. अजमेरस्य समीपे एव अस्ति ब्यावर = राजस्थान राज्य में …. अजमेर के पास है ब्यावर मित्रम् – गमिष्यसि त्वम् ? = तुम जाओगे ? राजेशः – आं गमिष्यामि। = हाँ जाऊँगा। – माता पिता अपि चलिष्यतः मया सह। = माता पिता भी मेरे साथ चलेंगे। – तौ अपि तत्र निवत्स्यतः । = वे दोनों भी वहीं रहेंगे। मित्रम् – तत्र संस्कृतं त्यक्ष्यसि वा ? = वहाँ संस्कृत छोड़ दोगे ? राजेशः – नैव … कदापि नैव … = नहीं … कभी नहीं …. – वृत्तिं त्यक्तुं शक्नोमि .. संस्कृतं त्यक्तुं न शक्नोमि। = नौकरी छोड़ सकता हूँ … संस्कृत नहीं छोड़ सकता । ओ३म् 736. संस्कृत वाक्याभ्यासः पतिः गृहम् आगच्छति। = पति घर आता है। स्ववस्त्राणि अवतार्य प्रक्षालनार्थं स्थापयति। = अपने कपड़े उतारकर धोने के लिये रख देता है। सः उरूकस्य कोशं न पश्यति। = वह पैंट की जेब नहीं देखता है। तस्य भार्या प्रक्षालनयन्त्रे वस्त्राणि स्थापयति। = उसकी पत्नी वाशिंग मशीन में कपड़े डाल देती है। सा प्रक्षालनयन्त्रं चालयति। = वह वाशिंग मशीन चलाती है। यदा सा शुष्कीकर्तुं वस्त्राणि लम्बयति तदा द्विसहस्रस्य रूप्यकम् अधः पतति। = जब वह सुखाने के लिये कपड़े लटकाती है तब दो हजार की नोट नीचे गिरती है। कोशात् यदा द्विसहस्रस्य रूप्यकम् अधः पतति तदा सा चकिता भवति। = जेब से जब दो हजार की नोट नीचे गिरती है तब वह चकित हो जाती है। सा पतिम् आह्वयति। = वह पति को बुलाती है। “किमर्थं प्रमादं करोति?” = लापरवाही क्यों करते हैं ? “भवतः उरूकस्य कोशे पुनः पश्यतु।” = आपकी पेंट की जेब में फिर से देखिये। “कदाचित् इतोsपि धनं स्यात्” = शायद और भी धन होगा। पतिः कोशं पुनः पश्यति। = पति फिर से जेब देखता है। ओ३म् 737. संस्कृत वाक्याभ्यासः समाचारपत्रम् आगतम् । = समाचारपत्र आ गया। सः समाचारपत्रं हस्ते गृहीत्वा पठति। = वह समाचारपत्र हाथ में लेकर पढ़ता है। सः प्रथमं पृष्ठं त्यजति। = वह पहला पेज छोड़ देता है। द्वितीयं पृष्ठं पश्यति। = दूसरा पृष्ठ देखता है। तृतीयं पृष्ठं केवलं पश्यति। = तीसरा पृष्ठ को केवल देखता है। चतुर्थं पृष्ठं केवलम् अवलोकयति। = चौथा पृष्ठ केवल देखता है। पञ्चमं पृष्ठं दृष्ट्वा शीघ्रमेव परिवर्तयति। = पाँचवाँ पृष्ठ शीघ्र ही बदल देता है। षष्ठे पृष्ठे सम्पादकीयं पठति। = छठे पृष्ठ पर संपादकीय पढ़ता है। सप्तमे पृष्ठे संस्कृतिविषये लेखं पठति। = सातवें पृष्ठ पर संस्कृति के विषय पर लेख पढ़ता है। अष्टमे पृष्ठे सः सामाजिकसंस्थानां चित्राणि पश्यति। = आठवें पृष्ठ पर सामाजिकसंस्थाओं के चित्र देखता है। नवमे पृष्ठे क्रीड़ाजगतः चित्राणि पश्यति। = नवें पृष्ठ पर क्रीड़ा जगत के चित्र देखता है। दशमे ( अन्तिमे) पृष्ठे सः दुर्घटनायाः चित्राणि पश्यति। = दसवें ( अन्तिम) पृष्ठ पर वह दुर्घटना के चित्र देखता है। शीघ्रमेव समाचारपत्रम् उत्पीठिकायां स्थापयति। = जल्दी से वह समाचारपत्र टेबल पर रख देता है। ओ३म् 738. संस्कृत वाक्याभ्यासः तस्य गृहस्य तलं बहु चिक्कणम् अस्ति। = उसके घर का फर्श बहुत चिकना है। सर्वे ध्यानपूर्वकं चलन्ति। = सब ध्यान से चलते हैं। तले यदा जलं पतति तदा जलं न दृश्यते। = फर्श पर जब पानी गिरता है तब पानी नहीं दिखता है। तलस्य वर्णः अपि श्वेतः अस्ति। = फर्श का रंग भी सफेद है। ह्यः सः प्रकोष्ठात् पाकशालां गच्छति स्म। = कल वह कमरे से रसोईघर जा रहा था। प्रकोष्ठस्य तले जलं पतितम् आसीत्। = कमरे के फर्श पर पानी गिरा था। सः अनवधानेन चलितवान्। = वह ध्यान बिना के चला। सः प्रकोष्ठे पतितवान्। = वह कमरे में गिर गया। तस्य पादः वक्रः जातः। = उसका पैर मुड़ गया। तस्य पादे वितनम् अभवत्। = उसके पैर में मोच लग गई। तस्य भार्या शीघ्रम् आगत्य शामकं लिम्पति। = उसकी पत्नी शीघ्र आकर बाम लगाती है। पट्टं बध्नाति। = पट्टा बाँधती है। अधुना सः विश्रामं करोति। = अभी वह विश्राम कर रहा है। ओ३म् 739. संस्कृत वाक्याभ्यासः परह्यः जखौ गतवान् आसम्। = परसों जखौ गया था। जखौ समुद्रतीरे अस्ति। = जखौ समुद्र के किनारे है। अनतिदूरे एव कराँची अस्ति। = कुछ ही दूरी पर कराँची है। जखौ मध्ये मत्स्यग्रहणकार्यम् अधिकं भवति। = जखौ में मछली पकड़ने का काम अधिक होता है। अनेके धीवराः तत्र आसन्। = अनेक मछुआरे वहाँ थे। केचन धीवराः नौकायाम् आसन्। = कुछ मछुआरे नाव में थे। केचन धीवराः जालं नीत्वा गच्छन्ति स्म। = कुछ मछुआरे जाल लेकर जा रहे थे। समुद्रतटे बहु सिक्ता अस्ति। = समुद्र के किनारे बहुत रेती है। तत्र लघुमीनाः आसन् , बहु विशालाः मीनाः अपि आसन्। = वहाँ छोटी मछलियाँ थी, बहुत बड़ी मछलियाँ भी थीं। अहं तत्र तारामत्स्यं दृष्टवान्। = मैंने वहाँ तारा मछली देखी। एकः सर्पसदृशः मत्स्यः अपि आसीत्। = एक साँप जैसी भी मछली थी। समुद्रजले अपि अहं गतवान्। = समुद्र के जल में भी मैं गया। ओ३म् 740. संस्कृत वाक्याभ्यासः प्रातः स्नानं कृत्वा सः बहिः गतवान्। = प्रातः नहाकर वह बाहर गया। गृहात् बहिः यत्र यत्र अवकरम् आसीत् तद् सर्वं अवकरपात्रे स्थापितवान्। = घर के बाहर जहाँ जहाँ कूड़ा था वो सब कूड़ेदान में डाल दिया। तं दृष्ट्वा अन्ये अपि जनाः स्वच्छतां कृतवन्तः। = उसको देखकर अन्य लोगों ने भी स्वच्छता की। सम्पूर्णा वीथिः स्वच्छा जाता। = सारी गली साफ हो गई। अनन्तरं सः बालकान् आहूतवान्। = बाद में उसने बच्चों को बुलाया। वीथ्याः सर्वे जनाः अपि आगतवन्तः। = गली के सभी लोग आए। सर्वे ध्वजारोहणं कृतवन्तः। = सबने ध्वजारोहण किया। अनन्तरं सर्वेषां गृहे ये सेवकाः , सेविकाश्च कार्यं कुर्वन्ति तेभ्यः कम्बलवितरणं कृतम्। = बाद में सबके घरों में जो सेवक , सेविकाएँ काम करती हैं उनको कम्बल बाँटे। सेवकानां बालकेभ्यः विद्यालयस्यस्यूतं दत्तवन्तः। = सेवकों के बच्चों को स्कूल बैग दी। सर्वे मिलित्वा “वन्देमातरम्” गीतं गीतवन्तः। = सबने मिलकर वन्देमातरम गीत गाया। गणतंत्रदिनस्य सर्वेभ्यः मङ्गलकामनाः। ओ३म् 741. संस्कृत वाक्याभ्यासः सः भोपालं गन्तुम् इच्छति। = वह भोपाल जाना चाहता है। सः यात्रापरामर्शदातारं दूरवाणीं करोति। = वह ट्रैवेल एडवाइज़र को फोन करता है। परामर्शकेन्द्रे एका युवतिः दूरवाणीम् उन्नयति। = एडवाइज़र केन्द्र में एक युवती फोन उठाती है। सा प्रश्नान् पृच्छति। = वह प्रश्न पूछती है। “भवतः नाम किम् ?” = आपका नाम क्या ? “कुतः वदति भवान् ?” = आप कहाँ से बोल रहे हो ? “भवान् कुत्र गन्तुम् इच्छति?” = आप कहाँ जाना चाहते हैं ? “रेलयानेन गन्तुम् इच्छति वा विमानेन ?” = रेल से जाना चाहते हैं या विमान से ? “कति जनाः भोपालं गमिष्यन्ति ?” = कितने लोग भोपाल जाएँगे ? “भोपाले पथिकालये स्थातुम् इच्छति वा ?” = भोपाल में होटल में ठहरना चाहते हैं क्या ? “कति दिनानि भवान् तत्र स्थास्यति ?” = आप कितने दिन वहाँ ठहरेंगे ? “भवतः चलभाषक्रमांकं वदतु।” = आपका मोबाइल नंबर बोलिये। “अस्तु , महोदय ! भवतः विमानचिटिका सिद्धा जाता।” = ठीक है महोदय ! आपकी विमान टिकट तैयार है। ‘भवतः निवासव्यवस्था अपि अभवत्।” = आपकी निवास की व्यवस्था भी हो गई। “भवान् चलतन्त्रेण धनं दातुं शक्नोति।” = आप ऑनलाइन भुगतान कर सकते हैं। ओ३म् 742. संस्कृत वाक्याभ्यासः शिवकुमार-स्वामिनः विषये पठामि स्म। = शिवकुमार स्वामि के बारे में पढ़ रहा था। स्वामि-शिवकुमारः लिंगायतसमुदायस्य नायकः आसीत्। = स्वामी शिवकुमार लिंगायत समुदाय के नायक थे। कर्णाटक-राज्यस्य तुमकुरजनपदे शिवगङ्गामठः अस्ति। = कर्नाटक राज्य के तुमकुर जिले में शिवगंगा मठ है। स्वामिशिवकुमारः शिवगङ्गामठस्य मठाधीशः आसीत्। = स्वामी शिवकुमार शिवगङ्गा मठ के मठाधीश थे। अशीतिः वर्षेभ्यः सः शिवगङ्गामठस्य मठाधीशः आसीत्। = अस्सी वर्ष से वे शिवगङ्गा मठ के मठाधीश थे। सः शताधिकानां विद्यालयानां संचालनं करोति स्म। = वे सौ से भी विद्यालयों का संचालन करते थे। अनेकानि स्वास्थ्यकेन्द्राणि अपि मठेन संचाल्यन्ते। = अनेक स्वास्थ्यकेंद्र भी मठ के द्वारा संचालित होते हैं। सः जातिविभेदं न मन्यते स्म। = वो जाति भेद नहीं मानते थे। सः सात्विकं भोजनं खादति स्म ( भुङ्क्ते स्म) = वे सात्विक भोजन खाते थे। एकादशाधिकशतं वर्षीयः शिवकुमारस्वामि: गतसप्ताहे दिवंगतः जातः । = एक सौ ग्यारह वर्ष के शिवकुमार स्वामी पिछले सप्ताह दिवंगत हुए। पुण्यपुरुषाय वयं श्रद्धाञ्जलिं दद्मः। = पुण्यपुरुष को हम श्रद्धाञ्जलि देते हैं। ओ३म् 743. संस्कृत वाक्याभ्यासः रामेश्वरः भ्रमणार्थं निर्गतः। = रामेश्वर घूमने के लिये निकला। सः गृहात् निर्गत्य पूर्वदिशं प्रति प्रस्थितः। = वह घर से निकल कर पूर्व दिशा की ओर चल दिया। मार्गे एकः कुक्कुरः मृतः आसीत्। = रास्ते में एक कुत्ता मरा था। रामेश्वरः तत्र स्थित्वा मुखे करवस्त्रं बध्नाति। = रामेश्वर वहाँ खड़ा होकर मुँह पर रुमाल बाँधता है। अनन्तरं सः रज्ज्वा कुक्कुरस्य एकं पादं बध्नाति। = बाद में वह रस्सी से कुत्ते का एक पैर बाँधता है। सः रज्ज्वा मृतं कुक्कुरं कर्षति। = वह रस्सी से मरे हुए कुत्ते को खींचता है। तं मृतं कुक्कुरं सः बहु दूरं नयति। = उस मरे हुए कुत्ते को वह बहुत दूर ले जाता है। अनन्तरं सः गृहम् आगच्छति। = बाद में वह घर आता है। गृहम् आगत्य सः स्नानं करोति। = घर आकर वह स्नान करता है। अधुना तस्मिन् मार्गे दुर्गन्धः नास्ति। = अभी उस रास्ते में दुर्गन्ध नहीं है। ओ३म् 744. संस्कृत वाक्याभ्यासः ह्यः “उरी” चलचित्रं द्रष्टुं गतवान् अहम् । = कल मैं “उरी” फ़िल्म देखने गया था। बहवः जनाः चलचित्रं द्रष्टुम् आगतवन्तः। = बहुत से लोग फ़िल्म देखने आए थे। प्रारम्भे राष्ट्रगानार्थं सर्वे उत्थितवन्तः। = प्रारम्भ में राष्ट्रगान के लिये सभी खड़े हो गए। अनन्तरं चलचित्रम् आरब्धम् । = बाद में फ़िल्म शुरू हुई। पूर्वोत्तरभारते अस्माकं सैनिकाः आतंकवादिभिः हताः। = पूर्वोत्तर भारत में हमारे सैनिक आतंकवादियों द्वारा मारे गए। तेषां प्रतीकारार्थम् अस्माकं सैनिकाः कटिबद्धाः आसन्। = उनका बदला लेने के लिये हमारे सैनिक कटिबद्ध थे। ते सर्वे ब्रह्मदेशं प्रविश्य सर्वान् आतंकवादीन् मारितवन्तः। = उन सबने म्यांमार में प्रवेश कर के सभी आतंकवादियों को मार दिया। आतंकवादिनां शिबिराणि अपि ध्वस्तानि कृतानि। = आतंकवादियों के शिबिर भी ध्वस्त किये। सर्वे दर्शकाः प्रसन्नाः अभवन्। = सभी दर्शक प्रसन्न हुए। अनन्तरम् उरी विस्तारे पाकिस्थानस्य आतंकवादिनः अस्माकं वीरान् मारितवन्तः। = बाद में उरी विस्तार में पाकिस्तान के आतंकवादियों ने हमारे वीरों को मार दिया। उरीधटनायाः अपि प्रतिकारम् अस्माकं वीराः कुशलतया कृतवन्तः । = उरी घटना का भी प्रतिकार हमारे वीरों ने कुशलतापूर्वक किया। रात्रौ घनान्धकारे वीरसैनिकाः सीमापारं गतवन्तः। = रात में घने अन्धकार में हमारे वीर सैनिक सीमापार गए। शिबिरेषु ये आतंकवादिनः सुप्ताः आसन् तान् ते मारितवन्तः । = शिविरों में जो आतंकवादी सो रहे थे उनको उन्होंने मार दिया। चलचित्रं दृष्ट्वा अहम् अतीव आनंदितः अस्मि। = फ़िल्म देखकर मैं बहुत खुश हूँ। ओ३म् 745. संस्कृत वाक्याभ्यासः अद्य एकस्य बालकस्य नामाभिधानं करणीयम् आसीत्। = आज एक बालक का नामकरण कराना था। नवजातस्य बालकस्य शरीरे पितामही तैलमर्दनं कृतवती। = नवजात बालक के शरीर में दादी ने तेलमालिश की नवजातं बालकं पितामही स्नानं कारितवती। = नवजात बालक को दादी ने नहलाया। अनन्तरं सा बालकं वस्त्रेण बद्धवती । = बाद में उसने बच्चे को वस्त्र से बाँध दिया। नेत्रयोः कज्जलं स्थापितवती। आँखों में काजल लगाया। अनन्तरं सर्वे यज्ञार्थम् उपाविशन्। = बाद में सभी यज्ञ के लिये बैठे। बालकस्य नामाभिधानम् “आर्ष:” कृतम्। = बालक का नाम “आर्ष” रखा गया। अनन्तरं पितामही धेनवे तृणं दत्तवती। = बाद में दादी जी ने गाय को घास दी। अतिथयः भोजनं कृतवन्तः। = अतिथियों ने भोजन किया। सर्षपस्य शाकम् आसीत्। = सरसों का साग था। मकोयस्य रोटिका आसीत्। = मक्के की रोटी थी। तेन सह गुडम् अपि आसीत्। = उसके साथ गुड़ भी था। ततः खादित्वा अधुनैव गृहम् आगतवान्। = वहाँ से खाकर अभी ही घर आया हूँ। ओ३म् 746. संस्कृत वाक्याभ्यासः शानचन्दः शाकविक्रेता अस्ति। = शानचन्द सब्जी बेचने वाला है। सः शकटे शाकानि स्थापयति। = वह ठेले पर सब्जियाँ रखता है। प्रातः नववादने शकटं स्वीकृत्य गृहात् निर्गच्छति। = प्रातः नौ बजे ठेला लेकर घर से निकलता है। एकवीथितः द्वितीयां वीथिं गच्छति। = एक गली से दूसरी गली जाता है। सः उच्चै: ध्वनति। (ध्वन् धातु: ) = वह जोर से आवाज लगाता है। प्रायः महिलाः एव गृहात् (गृहेभ्यः) बहिः आगच्छन्ति। = प्रायः महिलाएँ ही घर से ( घरों से ) बाहर आती हैं। महिलाः प्रश्नान् पृच्छन्ति। = महिलाएँ प्रश्न पूछती हैं। शानचन्दः प्रेम्णा उत्तरं ददाति। = शानचन्द प्रेम से उत्तर देता है। सः सर्वेषां शाकानां मूल्यम् अपि वदति। = वह सभी सब्जियों का भाव भी बोलता है। का अपि महिला यावद् वदति तावद् शाकं सः तोलयति। = कोई भी महिला जितना बोलती है उतनी सब्जी वह तौलता है। अनन्तरं महिलाभ्यः सः धनं स्वीकरोति । = बाद में वह महिलाओं से धन स्वीकार करता है। सः धनं गणयति , कोशे स्थापयति। = वह धन गिनता है , जेब में रखता है। महिलाः शाकं नीत्वा गृहस्य अन्तः गच्छन्ति। = महिलाएँ सब्जी लेकर घर के अन्दर जाती हैं । ओ३म् 747. संस्कृत वाक्याभ्यासः किशोरस्य गृहं रेलपट्टिकायाः पार्श्वे एव अस्ति। = किशोर का घर रेल लाइन के पास ही है। आदिनं रेलयानानि ततः गच्छन्ति , आगच्छन्ति च। = सारा दिन वहाँ से रेलगाडियाँ जाती हैं और आती हैं। यात्रियानानि ततः गच्छन्ति । = यात्री रेल जाती है। भारयानानि अपि गच्छन्ति। = माल रेल भी जाती है। कर्षकः कर्कशनादं करोति। = इंजिन कठोर ध्वनि करता है। शीश्कारं करोति। = व्हिसिल बजाता है। किशोरः प्रातः ध्यानं कर्तुम् अन्यत्र गच्छति। = किशोर सुबह ध्यान करने के लिये अन्यत्र जाता है। किशोरस्य भार्या पुत्रं सिद्धं करोति। = किशोर की पत्नी पुत्र को तैयार करती है। सा पुत्रं विद्यालयं प्रेषयति। = वह पुत्र को विद्यालय भेजती है। किशोरः गृहम् आगत्य सिद्धः भवति अनन्तरं सः कार्यालयं गच्छति। = किशोर घर आकर तैयार होता है बाद में ऑफिस जाता है। किशोरस्य भार्या चिकित्सालये परिचारिका अस्ति। = किशोर की पत्नी अस्पताल में नर्स है। सा दशवादने चिकित्सालयं गच्छति। = वह दस बजे अस्पताल जाती है। किशोरस्य पुत्रः विद्यालयतः गृहं न आगच्छति। = किशोर का बेटा विद्यालय से घर नहीं आता है। सः मातुः समीपं गच्छति। = वह माँ के पास जाता है। चिकित्सालये एव स्वाध्यायं करोति। = चिकित्सालय में ही स्वाध्याय करता है। ते सर्वे आदिनं ध्वनेः दूरमेव भवन्ति। = वे सभी सारा दिन ध्वनि से दूर रहते हैं। सायंकाले सर्वे परिवारजनाः गृहम् आगच्छन्ति। = शाम को सभी परिवार जन घर आते हैं। ओ३म् 748. संस्कृत वाक्याभ्यासः सम्वादः न भवति चेत् भाषाभ्यासः न भवति। = सम्वाद नहीं होता है तो भाषा का अभ्यास नहीं होता है। यदा वयं केनापि सह सम्वादं कुर्मः तदा अस्माकं सम्वादं जनाः अपि श्रृण्वन्ति। = जब हम किसी के साथ भी सम्वाद करते हैं तब हमारा सम्वाद लोग भी सुनते हैं। संस्कृते सम्वादं श्रुत्वा जनाः आकृष्टाः भवन्ति। = संस्कृत में सम्वाद सुनकर लोग आकर्षित होते हैं। सरलं संस्कृतं श्रुत्वा मुदिताः भवन्ति। = सरल संस्कृत सुनकर खुश होते हैं। जनाः वदन्ति – “ओह , संस्कृतं तु सरलम् अस्ति।” = लोग बोलते हैं – “ओह, संस्कृत तो सरल है। अहमपि पठितुम् इच्छामि। = मैं भी पढ़ना चाहता / चाहती हूँ। अतः यदा आपणं गच्छामः तदा परस्परं संस्कृते वार्तालापः करणीयः। = अतः जब हम बाज़ार जाते हैं तब एकदूसरे से संस्कृत में बात करनी चाहिये। कथं करणीयम् ? = कैसे करें ? “नमस्ते / नमो नमः ।” कथम् अस्ति ? अहं फेनकं क्रेतुम् इच्छामि। = मैं साबुन खरीदना चाहता/ चाहती हूँ। न एतद् न तद् दर्शयतु । = नहीं ये नहीं वो दिखाईये। एतद् ददातु। = ये दीजिये। एतस्य मूल्यं किम् ? = इसकी कीमत क्या है? धनं स्वीकरोतु। = पैसा लीजिये। पुनः मिलामः = फिर मिलेंगे। *आवर्षं संस्कृतं वदन्तु* ओ३म् 749. संस्कृत वाक्याभ्यासः *करोतु …. कुर्वन्तु* हे मित्र ! यज्ञं करोतु। = हे मित्र ! यज्ञ करिये। भवान् भोजनं करोतु। = आप भोजन करिये। हे मातः ! भवती विश्रामं करोतु। = हे माँ ! आप विश्राम करिये। आगच्छतु , गङ्गास्नानं करोतु। = आईये , गङ्गास्नान करिये। भवन्तः सर्वे प्रतीक्षां कुर्वन्तु … अहम् आगच्छामि। = आप सभी प्रतीक्षा करिये … मैं आता हूँ। भवत्यः सर्वाः अभ्यासं कुर्वन्तु। = आप सभी अभ्यास करिये। भो: सज्जनाः ! स्वच्छतां कुर्वन्तु। = हे सज्जनों ! स्वच्छता करिये। आगच्छन्तु , गङ्गास्नानं कुर्वन्तु। = सभी आईये , गङ्गास्नान करिये। नृत्यं करोतु । नृत्यं कुर्वन्तु । शयनं करोतु। शयनं कुर्वन्तु। कोलाहलं मा करोतु। कोलाहलं मा कुर्वन्तु । *अभ्यासं करोतु , कुर्वन्तु इति मम निवेदनम्* ओ३म् 750. संस्कृत वाक्याभ्यासः *नयति* सः / सा नयति = वह ले जाता है / ले जाती है। सः/सा किं नयति ? = वह क्या ले जाता है / जाती है ? सः / सा दुग्धं नयति । = वह दूध ले जाता है / ले जाती है। सः/सा दुग्धं कुत्र नयति ? = वह दूध कहाँ ले जाता है / ले जाती है ? सः / सा दुग्धं गृहे नयति। = वह दूध घर में ले जाता है / ले जाती है। सः/सा कुतः दुग्धम् आनयति ? = वह कहाँ से दूध लाता /लाती है ? सः/ सा दुग्धालयतः दुग्धम् आनयति। = वह दुग्धालय से दूध लाता है / लाती है। सः / सा कस्मिन् दुग्धं नयति ? = वह किसमें दूध ले जाता है / ले जाती है ? सः / सा करमण्डले दुग्धं नयति। = वह कमण्डल में दूध ले जाता / ले जाती है । *नयामि* अहं नयामि । = मैं ले जाता / ले जाती हूँ। अहं किं नयामि ? = मैं क्या ले जाता/ ले जाती हूँ ? मैं तृणं नयामि। = मैं घास ले जा रहा हूँ / ले जा रही हूँ । अहं तृणं कुत्र नयामि ? = मैं घास कहाँ ले जा रहा / ले जा रही हूँ? अहं तृणं गोशालायां नयामि। = मैं घास गौशाला में ले जा रहा /ले जा रही हूँ। अहं कुतः तृणम् आनयामि ? = मैं कहाँ से घास ला रहा / ला रही हूँ ? अहं तृणं क्षेत्रात् आनयामि = मैं खेत से घास ला रहा /ला रही हूँ। अहं कस्मिन् तृणं नयामि ? = मैं किसमें घास ले जाता/ ले जाती हूँ ? अहं द्विचक्रिकायां तृणं नयामि। = मैं साइकिल पर घास ले जा रहा हूँ/ ले जा रही हूँ। ओ३म् 751. संस्कृत वाक्याभ्यासः *खादति ….. खादन्ति* सः तिलस्य मोदकं खादति। = वह तिल का लड्डू खाता है। विजयः गृञ्जनं खादति। = विजय गाजर खाता है। अमिता भूचणकपट्टिकां खादति। = अमिता मूँगफली की कतली ( चिकी) खा रही है। बालकाः इक्षुदण्डं छिनित्वा खादन्ति। = बच्चे गन्ना छील कर खाते हैं। ( इक्षुदण्डं चूषन्ति = गन्ना चूसते हैं), बालिकाः बदरीफलं खादन्ति। = बालिकाएँ बेर खाती हैं । अश्वाः चणकं खादन्ति। = घोड़े चना खाते हैं। *खादामि ….. खादामः* अहं मोमकं खादामि। = मैं पेड़ा खाता हूँ। अहं दुग्धे रोटिकां मेलयित्वा खादामि। = मैं दूध में रोटी मिला कर खाता हूँ। अहं वृक्षस्य अधः उपविश्य खादामि। = मैं पेड़ के नीचे बैठकर खा रहा हूँ। वयं ऊष्णं भोजनं खादामः। = हम गरम भोजन खाते हैं। वयं सर्वे मिलित्वा भोजनं खादामः। = हम सब मिलकर खाना खाते हैं। पूर्वं वयं धेनवे भोजनं दद्मः अनन्तरं खादामः। = पहले हम गाय को खाना देते हैं बाद में खाते हैं। *भवान् / भवती किं खादति ? लिखतु* *कः / का किं खादति ? लिखतु* ओ३म् *हसति …… हसन्ति* बालकः हसति। बालकः किमर्थं हसति ? बालकः क्रीडनकं दृष्ट्वा हसति। शिल्पा दुग्धं पीत्वा हसति। दुग्धे शर्करा न आसीत्। मृदुला सर्वदा हसति। योगेशः हास्यकणिकां श्रुत्वा हसति। यदा शिक्षिका गच्छति तदा छात्राः हसन्ति। जनाः हास्यकणिकायाः अर्थं ज्ञात्वा हसन्ति। गजः शुण्डाम् उपरि करोति तदा बालकाः हसन्ति। *हसामि ….. हसामः* अहं राहुलं मिलित्वा हसामि। अहं तस्य अभिनयं स्मृत्वा हसामि। अहं कदा न हसामि ? कोsपि पतति तदा वयं न हसामः। बालकानां बाललीलां दृष्ट्वा वयं हसामः । कोsपि अशुद्धं वदति तदा वयं न हसामि । ओह , अशुद्धम् कोsपि अशुद्धं वदति तदा वयं न हसामः। *हसन्तु , अवश्यमेव हसन्तु* *हसित्वा हसित्वा संस्कृताभ्यासं कुर्वन्तु* ओ३म् 752. संस्कृत वाक्याभ्यासः *गणयति …. गणयन्ति* एकम् , द्वे , त्रीणि , चत्वारि , पञ्च , षट् , सप्त , अष्ट , नव , दश ….. बालकः क्रीडनकानि गणयति। = बालक खिलौने गिनता है। महिला शाटिकाः गणयति। = महिला साड़ियाँ गिनती है। शिक्षिकः छात्रान् गणयति। = शिक्षक छात्रों को गिन रहा है। छात्राः दिनानि गणयन्ति। = छात्र दिन गिन रहे हैं। (परीक्षायाः कृते कति दिनानि अवशिष्टानि ? = परीक्षा के लिये कितने दिन शेष रह गए हैं ? ) प्रतिदिनं जनाः धनम् अवश्यमेव गणयन्ति। = प्रतिदिन लोग धन अवश्य ही गिनते हैं। *गणयामि ….. गणयामः* अहं मम गृहस्य पुस्तकानि गणयामि। = मैं मेरे घर की पुस्तकों को गिन रहा हूँ। गोशालायां कति धेनवः सन्ति ? अहं गणयामि। = गौशाला में कितनी गाय हैं ? मैं गिनता हूँ। कति जनाः संस्कृताभ्यासं कुर्वन्ति ? तेषां संख्यां गणयामि। = कितने लोग संस्कृत अभ्यास करते हैं ? उनकी संख्या गिन रहा हूँ। वयं रेलयानात् अवतरामः तदा यानपेटिकाः गणयामः। = हम सब जब रेल से उतरते हैं तब सूटकेस गिनते हैं। वयं अस्माकं केशान् गणयामः वा ? = हम अपने बाल गिनते हैं क्या ? उद्याने वयं वृक्षान् गणयामः। = बगीचे में हम वृक्ष गिनते हैं। *कुर्वन्तु भो: अभ्यासं , प्रतिदिनम् अभ्यासम्* ओ३म् 753. संस्कृत वाक्याभ्यासः *वदति ….. वदन्ति* माता पुत्रं वदति – “विद्यालयं गच्छ” = माँ पुत्र को बोलती है – “विद्यालय जाओ” प्रबंधकः कर्मकरं वदति -“कार्यं कुरु” = प्रबंधक कर्मचारी को बोलता है – ” काम करो” वैद्यः रुग्णं वदति – “औषधं स्वीकरोतु” = वैद्य रोगी से कहता है – “औषधि लीजिये” जनाः विधायकस्य गृहं गत्वा स्वां समस्यां वदन्ति। = लोग विधायक के घर जाकर अपनी समस्या बोलते हैं। छात्राः परस्परं वदन्ति। = छात्र आपस में बोलते हैं। सज्जनाः कष्टं सहन्ते , किमपि न वदन्ति। = सज्जन लोग सहन करते हैं , कुछ नहीं बोलते हैं। *वदामि ….. वदामः* अहं आदिनं संस्कृते वदामि। = मैं दिन भर संस्कृत में बोलता/ बोलती हूँ। अहं गृहे किमपि न वदामि = मैं घर पे कुछ नहीं बोलता / बोलती हूँ। अहं पूर्वं श्रृणोमि अनन्तरं वदामि। = मैं पहले सुनता हूँ बाद में बोलता हूँ। वयं किमर्थं वदामः ? = हम क्यों बोलते हैं ? वयं किमर्थं न वदामः ? = हम क्यों नहीं बोलते हैं ? वयं भोजनसमये न वदामः । = हम भोजन के समय नहीं बोलते हैं। वयम् असत्यं न वदामः। = हम असत्य नहीं बोलते हैं। *अधुना भवन्तः /भवत्यः अपि वदन्तु* *संस्कृतं सरलम् अस्ति* ओ३म् 754. संस्कृत वाक्याभ्यासः *उपविशति ….उपविशन्ति* यजमानः कटे उपविशति। = यजमान दरी पर बैठता है। पण्डितः कुशासने उपविशति। = पण्डित कुश के आसन पर बैठता है। छात्रः वृक्षस्य छायायाम् उपविशति। = छात्र पेड़ की छाया में बैठता है। जनाः कथां श्रोतुम् उपविशन्ति । = लोग कथा सुनने बैठते हैं । संसदि लोकप्रतिनिधयः उपविशन्ति। = संसद में लोकप्रतिनिधि बैठते हैं। अश्वाः कदापि न उपविशन्ति। = घोड़े कभी भी नहीं बैठते हैं। *उपविशामि …… उपविशामः* अधुना अहं लोकयाने उपविशामि। = अब मैं बस में बैठ रहा हूँ। यदा श्रान्तः भवामि तदा अहम् उपविशामि। = जब मैं थक जाता हूँ तब बैठ जाता हूँ। / जब मैं थक जाती हूँ तब बैठ जाती हूँ। ध्यानसमये अहं नेत्रे निमील्य उपविशामि। = ध्यान के समय मैं आँखें बन्द कर के बैठता / बैठती हूँ। आगच्छन्तु , वयम् अत्र उपविशामः । = आईये , हम यहाँ बैठते हैं। वयं यज्ञं कर्तुम् उपविशामः। = हम यज्ञ करने के लिये बैठते हैं। विमानस्य प्रतीक्षायां वयम् उपविशामः। = विमान की प्रतीक्षा में हम सभी बैठते हैं। ओ३म् 755. संस्कृत वाक्याभ्यासः *ददाति , ददति* तेजस्विनी वृक्षाय जलं ददाति। = तेजस्विनी वृक्ष को जल देती है। ( वृक्षेभ्यः = वृक्षों को ) सा कस्मै जलं ददाति ? = वह किसको जल देती है ? पितामहः पौत्राय ज्ञानं ददाति। = दादाजी पोते को ज्ञान देते हैं। चिकित्सकः रुग्णाय औषधं ददाति। = चिकित्सक रोगी को औषधि देता है। जनाः श्रेष्ठाय नेत्रे मतं ददति। = लोग अच्छे नेता को मत देते हैं। सर्वे जनाः गुरवे आदरं ददति। = सभी लोग गुरु को आदर देते हैं । वृक्षाः जनेभ्यः फलानि ददति। = वृक्ष लोगों को फल देते हैं। *ददामि , दद्मः* अद्य अहं धनं ददामि , भवती मा ददातु। = आज मैं धन देता हूँ , आप मत दीजिये। अहं धेनवे तृणं ददामि। = मैं गाय को घास देता हूँ। अहं खगेभ्यः कणं ददामि। = मैं पक्षियों को दाना देता हूँ। वयं यज्ञे आहुतिं दद्मः । = हम यज्ञ में आहुति देते हैं। वयं समाजाय किं दद्मः ? = हम समाज को क्या देते हैं ? वयं पठने अधिकं ध्यानं न दद्मः । = हम पढ़ाई पर अधिक ध्यान नहीं देते हैं । *लिखन्तु भो: ! भवन्तः / भवत्यः अपि* ओ३म् 756. संस्कृत वाक्याभ्यासः *गायति , गायन्ति* श्रेया बहु मधुरं गायति। = श्रेया बहुत मीठा गाती है। माता प्रातःकाले स्तोत्रं गायति। = माँ सुबह स्तोत्र गाती है। सः किशोरकुमार-सदृशं गायति। = वह किशोरकुमार जैसा गाता है। ते / ताः राष्ट्रगीतं गायन्ति। = वे राष्ट्रगीत गाते हैं / गाती हैं। सुमित्रा भगिनी विष्णुसहस्रनामं गायति। = सुमित्रा बहन विष्णुसहस्रनाम गाती है। भगिन्यः विष्णुसहस्रनामं गायन्ति । = बहनें विष्णुसहस्रनाम गाती हैं। *गायामि , गायामः* अहं देशभक्तिगीतं गायामि। = मैं देशभक्ति गीत गा रहा हूँ। अहं प्रतिदिनं स्नानगृहे गायामि। = मैं प्रतिदिन स्नानगृह में गाता हूँ। वयं “वन्दे मातरम्” गीतं गायामः। = हम वन्दे मातरम् गीत गाते हैं । वयं सर्वे मिलित्वा संस्कृतगीतं गायामः। = हम सब मिलकर संस्कृत गीत गाते हैं। आगच्छन्तु , वयं बालगीतं गायामः। = आईये , हम बालगीत गाते हैं। *भवन्तः / भवत्यः अपि लिखन्तु* ओ३म् 757. संस्कृत वाक्याभ्यासः *जानाति , जानन्ति* सः सम्यक् संस्कृतं जानाति। भवान् अद्य न जानाति श्वः ज्ञास्यति। = आप आज नहीं जानते हैं कल जान लेंगे। सा महिला वित्तकोषस्य मार्गं न जानाति। सः निर्दोषः अस्ति इति जनाः न जानन्ति। = वह निर्दोष है यह लोग नहीं जानते हैं। कोकाकोला पीत्वा हानिः भवति इति जनाः जानन्ति। = कोकाकोला पीने से हानि होती है यह लोग जानते हैं बहवः जनाः संस्कृतं जानन्ति। *जानामि , जानीमः* अहं किमपि न जानामि। = मैं कुछ नहीं जानता / जानती हूँ। अहं सर्वं जानामि। = मैं सब कुछ जानता / जानती हूँ। अहं यज्ञं कर्तुं जानामि। = मैं यज्ञ करना जानता हूँ। वयं जानीमः “भारतम् अस्माकं देशः” = हम जानते हैं “भारत हमारा देश है” वयं सर्वे भोजनं कर्तुं जानीमः। = हम सभी भोजन करना जानते हैं। वयं आत्मगुणान् जानीमः। = हम सभी अपने गुण जानते हैं। *भवन्तः / भवत्यः अपि लिखन्तु* ओ३म् 758. संस्कृत वाक्याभ्यासः *इच्छति , इच्छन्ति* छात्रः पुस्तकम् इच्छति। = छात्र पुस्तक चाहता है। मम पुत्री खादीकरांशुकम् इच्छति। = मेरी बेटी खादी का कुर्ता चाहती है। सैनिकः राष्ट्ररक्षां कर्तुम् इच्छति। = सैनिक राष्ट्र रक्षा करना चाहता है। कति जनाः प्रधानमन्त्री भवितुम् इच्छन्ति ? = कितने लोग प्रधानमंत्री बनना चाहते हैं ? ते सर्वे संस्कृतगीतं श्रोतुम् इच्छन्ति। = वे सभी संस्कृतगीत सुनना चाहते हैं। सुयोग्याः छात्राः व्यर्थमेव समयं यापयितुम् न इच्छन्ति। = सुयोग्य छात्र व्यर्थ में समय बिताना नहीं चाहते है। *इच्छामि , इच्छामः* अहं मानसरोवरं गन्तुम् इच्छामि। = मैं मानसरोवर जाना चाहता / चाहती हूँ। अहं शुण्ठीपाकं खादितुम् इच्छामि। = मैं सोंठपाक खाना चाहता/ चाहती हूँ। अहं असत्यभाषणं न इच्छामि। = मैं असत्यभाषण नहीं चाहता / चाहती हूँ। वयं राष्ट्रोन्नतिम् इच्छामः। = हम सब राष्ट्रोन्नति चाहते हैं। वयं संस्कृतं पठितुम् इच्छामः। = हम सब संस्कृत पढ़ना चाहते हैं। वयं कुम्भमेलां गन्तुम् इच्छामः। = हम कुम्भमेला जाना चाहते हैं। *भवन्तः / भवत्यः अपि लिखन्तु* ओ३म् 759. संस्कृत वाक्याभ्यासः *भवति , भवन्ति* *भवामि , भवामः* क्रीड़नकं दृष्ट्वा बालकः प्रसन्नः भवति। = खिलौना देखकर बच्चा खुश होता है। तत्र कोलाहलः भवति। = वहाँ शोर हो रहा है। मम वामहस्ते पीड़ा भवति। = मेरे बाएँ हाथ में पीड़ा हो रही है। चिकित्सालये रुग्णाः स्वस्थाः भवन्ति। = चिकित्सालय में रोगी स्वस्थ होते हैं। योगासनं कृत्वा सर्वे स्वस्थाः भवन्ति। = योगासन करके सभी स्वस्थ होते हैं। सर्वेषां मुखे द्वात्रिंशत् दन्ताः भवन्ति। = सबके मुँह में बत्तीस दाँत होते हैं। महिलाः श्रृङ्गारं कृत्वा प्रसन्नाः भवन्ति। = महिलाएँ श्रृंगार करके खुश होती हैं। *भवामि , भवामः* दुग्धं पीत्वा अहं तृप्तः भवामि। = दूध पीकर मैं तृप्त हो जाता हूँ। वेदान् पठित्वा अहं ज्ञानी भवामि। = वेद पढ़ कर मैं ज्ञानी बनता हूँ। रात्रिकाले अहं गृहे एव भवामि। = रात में मैं घर पे ही होता हूँ। कबड्डी क्रीड़ायां कति क्रीड़काः भवन्ति ? = कबड्डी खेल में कितने खिलाड़ी होते हैं ? यज्ञसमये सर्वे शान्ताः भवन्ति। = यज्ञ के समय सभी शान्त होते हैं । राजमार्गाः बहु दीर्घाः भवन्ति। = राजमार्ग बहुत लम्बे होते हैं। *भवन्तः / भवत्यः अपि लिखन्तु* = आप सब भी लिखिये। ओ३म् 760. संस्कृत वाक्याभ्यासः *पश्यामि , पश्यामः* *पश्यति , पश्यन्ति* अहं सूर्योदयं पश्यामि। अहं भवतः गृहं पश्यामि। वयं जलपोतं पश्यामः । वयं कबड्डीक्रीडां पश्यामः। बालकः मोदकं पश्यति। शिक्षिका छात्रस्य लेखनं पश्यति। चिकित्सकः रुग्णं पश्यति। महिलाः शाटिकाः पश्यन्ति। साधवः ग्रन्थान् पश्यन्ति। जनाः विमानं पश्यन्ति। *भवन्तः / भवत्यः अपि लिखन्तु* Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.