००३० सरल संस्कृत अनुवाद अभ्यास पाठ ६९१ से ७३० December 26, 2019 By Arun Aryaveer ओ३म् 691. संस्कृत वाक्याभ्यासः एकः सैनिकः मम मित्रम् अस्ति। = एक सैनिक मेरा मित्र है। अनेके सैनिकाः मम मित्राणि सन्ति। = अनेक सैनिक मेरे मित्र हैं। सर्वे सैनिकाः अस्माकं मित्राणि सन्ति। = सभी सैनिक हमारे मित्र हैं। अद्य अहं सैन्याधिकारिणः गृहं गतवान्। = आज मैं सैन्य अधिकारी के घर गया। सेनाधिकारी गृहे न आसीत्। = सेनाधिकारी घर पर नहीं था। तस्य भार्या गृहे आसीत्। = उसकी पत्नी घर पे थी। तस्य पुत्री दशमकक्षायाम् अस्ति। = उसकी पुत्री दसवीं कक्षा में है। अहं तां पुत्रीं संस्कृतं पाठयितुं गतवान्। = मैं उस बेटी को पढ़ाने गया था। सा सरलपद्धत्या संस्कृतं पठित्वा आनन्दम् अनुभूतवती। =उसने सरल पद्धति से संस्कृत पढ़ कर आनंद अनुभव किया। माता अपि उपविश्य संस्कृतं पठितवती। = माँ ने भी बैठकर संस्कृत पढ़ी। सा अवदत् – अहं विद्यार्थीकाले अपि एतादृशं सरलं संस्कृतं न पठितवती। = वह बोली – मैंने विद्यार्थीकाल में भी इतनी सरल संस्कृत नहीं पढ़ी। ओ३म् 692. संस्कृत वाक्याभ्यासः प्रायः सर्वेषां गृहे कारयानम् अस्ति। = प्रायः सबके घर कार है। दुग्धम् आनेतुं कारयानेन गच्छन्ति। = दूध लाने के लिये कार से जाते हैं। शाकम् आनेतुं कारयानेन गच्छन्ति। = सब्जी लाने के लिये कार से जाते हैं। बालकेन सह उद्यानम् अपि कारयानेन गच्छन्ति। = बच्चे के साथ बगीचे भी कार से जाते हैं। सर्वे कारयानेन गमनागमनं कुर्वन्ति अतः मार्गे अन्तरायः भवति। = सभी कार से आना-जाना करते हैं अतः मार्ग में रुकावट आती है। आरक्षकः अन्तरायविमोचनं कारयति। = पुलिस ट्राफिक जाम को दूर कराती है। पादाभ्यां चलामः चेत् मार्गे अन्तरायः न भवति। = पैदल चलते हैं तो मार्ग में जाम नहीं होता। कार्यम् अपि शीघ्रं भवति। = काम भी जल्दी होता है। परमावश्यकं कार्यं करणाय कारयानेन गन्तव्यम्। = परमावश्यक कार्य करने के लिये कार से जाना चाहिये। दूरं गन्तुम् अपि कारयानं योग्यम् । = दूर जाने के लिये भी कार योग्य है। अन्यथा द्विचक्रीयानेन गन्तव्यम् । = अन्यथा दुपहिये वाहन से जाना चाहिये। ओ३म् 693. संस्कृत वाक्याभ्यासः सर्वत्र भोजनालयाः दृश्यन्ते। = सब जगह भोजनालय दिखते हैं। अनेके जनाः गृहे भोजनं न कुर्वन्ति। = अनेक लोग घर में भोजन नहीं करते हैं। सायंकाले खाद्यशकटेषु सम्मर्दः भवति। = शाम को खाने की लारियों पर भीड़ होती है। विविधानि व्यंजनानि लभ्यन्ते। = विविध व्यंजन मिलते हैं। रात्रौ भोजनालयेषु अपि जनाः भोजनं कुर्वन्ति। = रात में भोजनालयों में भी लोग भोजन करते हैं। भोज्य-व्यंजनानां आवलिपत्रं दीयते। = खाने के व्यंजनों का मेनू दिया जाता है। आहारिकां दृष्ट्वा जनाः व्यजनस्य चिन्वन्ति। = मेनू देखकर लोग व्यजन चुनते हैं। भोजनस्य प्रतीक्षा करणीया भवति। = भोजन की प्रतीक्षा करनी पड़ती है। किञ्चित् काल अनन्तरं परिवेषकः स्थालिकां स्थापयति। = थोड़ी देर बाद वेटर थाली रखता है। अनन्तरं परिवेषकः भोजनम् आनयति। = बाद में वेटर भोजन लाता है। अनन्तरं जनाः भोजनं कुर्वन्ति। = बाद में लोग भोजन करते हैं। जनाः भोजनं कृत्वा भोजनस्य शुल्कं ददति। = लोग भोजन करके भोजन का शुल्क देते हैं। ओ३म् 694. संस्कृत वाक्याभ्यासः ह्यः मम भार्या मह्यं कार्याणि दत्तवती। = कल मेरी पत्नी ने मुझे काम दिये। सा उक्तवती = उसने कहा शक्यम् अस्ति चेत् आपणात् सेवफलम् आनयतु। = सम्भव हो तो बाजार से सेव लाईयेगा। शक्यम् अस्ति चेत् सायं शीघ्रम् आगच्छतु। = हो सके तो आज शाम शीघ्र आएँगे। शक्यम् अस्ति चेत् अद्य शीघ्रं भोजनं करोतु। = सम्भव हो तो आज जल्दी भोजन करिये। शक्यम् अस्ति चेत् अवकरं बहिः क्षिपतु। = हो सके तो कूड़ा बाहर फेंक दीजिये। शक्यम् अस्ति चेत् मम शिशिरवस्त्राणि उपरि स्थापयातु = हो सके तो मेरे जाड़े के वस्त्र ऊपर रख दीजिये सा यत्किमपि कार्यं दत्तवती तत् सर्वं शक्यम् आसीत्। = उसने जो भी काम दिया वो सब सम्भव था अहं तस्याः सर्वाणि कार्याणि कृतवान्। = मैंने उसके सारे काम कर दिये। भार्यायाः कार्याणि तु करणीयानि एव। = पत्नी के काम तो करने ही चाहिये। ओ३म् 695. संस्कृत वाक्याभ्यासः तस्याः गृहे घटः अस्ति , सुशीतकं नास्ति। = उसके घर में घड़ा है , फ़्रीज नहीं है। सा घटं पाकशालायां स्थापयति। = वह घड़े को रसोई में रखती है। घटस्य जलं मधुरं भवति। = घड़े का जल मीठा हो जाता है। यदा कोsपि अतिथिः आगच्छति तदा सा घटात् जलं निष्कासयति। = जब कोई अतिथि आता है तब वह घड़े जल निकालती है। अतिथिं जलं पाययति। = अतिथि को जल पिलाती है। अतिथिः घटस्य जलं पीत्वा तुष्यति। = अतिथि घड़े का जल पीकर तुष्ट हो जाता है। अतिथिः पृच्छति – सुशीतकस्य जलम् अस्ति वा ? = अतिथि पूछता है – फ़्रीज का पानी है क्या ? सा प्रत्युत्तरं ददाति – न , अहं घटात् जलम् आनीतवती। = वह उत्तर देती है – नहीं , मैं घड़े से पानी लाई हूँ। अहं रात्रौ घटे जलं पूरयामि। = मैं रात में घड़े में जल भर देती हूँ। प्रातः जलं शीतलं भवति। = प्रातः जल शीतल हो जाता है। ओ३म् 696. संस्कृत वाक्याभ्यासः सः नूतनं दीपगोलकम् आनीतवान्। = वह नया बल्ब लाया। पुरातनं दीपगोलकं द्रवितं भवति। = पुराना बल्ब फ्यूज़ हो गया। पुरातने दीपगोलके विद्युतस्य व्ययः अधिकः भवति स्म। = पुराने बल्ब में बिजली अधिक खर्च होती थी। नूतने दीपगोलके विद्युतस्य व्ययः न्यूनं भवति। = नए बल्ब में बिजली कम खर्च होती है। पुरातने दीपगोलके प्रकाशः अधिकः न आसीत्। = पुराने बल्ब में प्रकाश अधिक नहीं था। नूतने दीपगोलके अधिकः प्रकाशः अस्ति। = नए बल्ब में अधिक प्रकाश है। सः पुनः आपणं गच्छति। = वह पुनः बाजार जाता है। चत्वारि नूतनानि दीपगोलकानि आनयति। = चार नए बल्ब लाता है। सर्वेषां प्रकोष्ठाणां दीपगोलकानि परिवर्तयति। = सभी कमरों के बल्ब बदल देता है। अधुना विद्युतस्य अधिकः व्ययः न भविष्यति। = अब बिजली का अधिक खर्च नहीं होगा। ओ३म् 697. संस्कृत वाक्याभ्यासः 1971 तमे वर्षे पाकिस्तानेन अस्माकं राष्ट्रस्य उपरि आक्रमणं कृतम् । तदानीमहं प्रथम कक्षायां पठामि स्म । युद्धस्य कारणात् मध्याह्ने एव विद्यालयः गन्तव्यः आसीत् । शीघ्रमेव विद्यालयात् मुक्तिः अपि मिलति स्म । पाकिस्तानं तु इतः (मम नगरात् ) 250 कि.मी. दूरे एव अस्ति । युद्धसमये सैनिकाः तु सीमाक्षेत्रे युद्धं कुर्वन्ति , आंतरिकीँ व्यवस्थां तु गृहरक्षकाः (होमगार्ड) , पुलिसरक्षकाः एव पश्यन्ति । तस्मिन् वर्षे अपि तथैव व्यवस्था आसीत् । ते नगरे सर्वत्र लघु लघु गर्तान् निर्मितवन्तः । अस्माकं विद्यालयम् आगत्य ते अस्मान् बोधितवन्तः – कथं चलनीयं , यदा विमानानि उड्डयन्ते तदा कर्णे अङ्गुली स्थापनीया , भूमौ साष्टाङ्ग दण्डवत् शयनीयम् , वा गर्ते तिष्ठेयम् । रात्रिकाले अपि ते सर्वत्र भ्रमन्ति स्म । “कृष्णरात्रि” (black out) इति उक्तवा ते प्रकाशं मा कुर्वन्तु तद् सूचयन्ति स्म । सर्वेषां गृहे तदानीं अग्निचुल्ली एव आसीत् अतः सर्वे शीघ्रमेव भोजनं पचन्ति स्म । युद्धसमये अस्माकं गृहाणि कम्पन्ते स्म । समापने पाकिस्तानस्य एकं विमानम् अस्माकं सैनिकैः पातितम् । मम गृहात् केवलं 4 कि.मी. दूरे एव पतितम् । वयं द्रष्टुं गतवन्तः तद् अधुनापि स्मरामि । ओ३म् 698. संस्कृत वाक्याभ्यासः सः/ सा चर्वति। = वह चबा रहा / रही है। बालकः रोटिकां चर्वति। = बालक रोटी चबा रहा है। बालिका ओदनं चर्वति। = बालिका चावल चबा रही है। पिता चर्वित्वा एव भोजनं करोति। = पिता चबा कर ही भोजन करता है। वृद्धा चर्वितुं न शक्नोति। = वृद्धा चबा नहीं सकती है। लौहस्य चणकान् मा चर्वतु। = लोहे के चने मत चबाओ। यः अचर्व्य खादति सः रुग्णः भवति। = जो चबाए बिना खाता है वह बीमार हो जाता है। कति वारं भोजनं चर्वणीयम् ? = कितनी बार भोजन चबाना चाहिये ? भोजनं न्यूनातिन्यूनं द्वात्रिंशत् वारं चर्वणीयम्। = भोजन कम से कम बत्तीस बार चबाना चाहिये। अधुना अहं कदलीफलं चर्वामि। = अभी मैं केला चबा रहा हूँ। ओ३म् 699. संस्कृत वाक्याभ्यासः अद्य महिलादिवसः अस्ति। = आज महिला दिवस है। महिलाः अपि वेदान् पठन्ति , पठितुं शकनुवन्ति। = महिलाएँ भी वेद पढ़ती हैं , पढ़ सकती हैं। महिलाः अपि यज्ञं कुर्वन्ति। = महिलाएँ भी यज्ञ करती हैं। महिलाः अपि विमानम् उड्डयितुं शक्नुवन्ति। = महिलाएँ भी विमान उड़ा सकती हैं। महिलाः सेनायाम् अपि सन्ति। = महिलाएँ सेना में भी हैं। महिलाचिकित्सिका सम्यक् चिकित्सां करोति। = महिला डॉक्टर सही से चिकित्सा करती है। महिलाः सङ्गीतक्षेत्रे अपि सन्ति। = महिलाएँ सङ्गीत क्षेत्र में भी हैं। महिलानां कण्ठः बहु सुमधुरः भवति। = महिलाओं का कंठ बहुत मधुर होता है। न्यायालये अपि वयं महिलाः पश्यामः। = न्यायालय में भी हम महिलाओं को देखते हैं। शिक्षिका सर्वेभ्यः रोचते। = शिक्षिका सबको अच्छी लगती है। महिलादिनस्य सर्वाभ्यः महिलाभ्यः शुभकामनाः। ओ३म् 700. संस्कृत वाक्याभ्यासः एका मूषिका गृहस्य अन्तः प्रविष्टा = एक चुहिया घर के अंदर घुसी है। सा इतस्ततः धावति। = वह यहाँ से वहाँ दौड़ती है। बहु वेगेन धावति। = बहुत तेज दौड़ती है। अधुनैव कपाटिकायाः पृष्ठे आसीत्। = अभी अभी कपाट के पीछे थी। शीघ्रमेव सा पर्यंकस्य अधः गता। = जल्दी से वो पलँग के नीचे चली गई। ओह … अधुना सा उत्पीठिकायाः उपरि अस्ति। = ओह … अभी वो टेबल के ऊपर है। कथं गृह्णानि ? = कैसे पकड़ूँ ? सा मूषिका मम पुस्तकानि खादिष्यति। = वो चुहिया मेरी पुस्तकें खा जाएगी। बिडाली तत्र भ्रमति। = बिल्ली वहाँ घूम रही है। कथं बिडालीम् आनयानि ? = बिल्ली को कैसे लाऊँ ? तां हस्तेन गृह्णामि। = उसको हाथ से पकड़ता हूँ। सा तु गृहपशुः भवति। = वो तो पालतू होती है। बिडाली आगता …. = बिल्ली आ गई …. ओ३म् 701. संस्कृत वाक्याभ्यासः माता पात्राणि प्रक्षालयति। = माँ बर्तन धोती है। चतुर्वर्षीया पुत्री पात्राणि वस्त्रेण प्रौञ्छति। = चार वर्ष की बेटी बर्तनों को कपड़े से पोंछती है। चमसं प्रौञ्छति = चम्मच पोंछती है। ( चमसान् प्रौञ्छति = बहुत से चम्मच पोंछती है) चषकं प्रौञ्छति = गिलास पोंछती है। ( चषकान् प्रौञ्छति = बहुत से गिलास पोंछती है) स्थालिकां प्रौञ्छति = थाली पोंछती है। ( स्थालिकाः प्रौञ्छति = बहुत सी थालियाँ पोंछती है) एका स्थालिका दीर्घा आसीत्। = एक थाली बड़ी थी। स्थालिका गुरुः अपि आसीत्। = थाली भारी भी थी। बालिकायाः हस्तात् स्थालिका पतिता। = बच्ची के हाथ से थाली गिर गई। बालिका – ओ.. स्थालिका पतिता। = ओ … थाली गिर गई। माता – त्वं त्यज .. अहं प्रौन्क्ष्यामि। = तुम छोड़ दो .. मैं पोंछ दूँगी। बालिका – नैव अम्ब ! भवती कियत् कार्यं करिष्यति !!! = नहीं माँ ! आप कितना काम करेंगी। सा बालिका प्रतिदिनं मातुः साहाय्यं करोति। = वह बच्ची प्रतिदिन माँ की सहायता करती है। भवती / भवान् अपि करोति वा ? = आप भी करते हैं क्या ? ओ३म् 702. संस्कृत वाक्याभ्यासः विशाखा स्वर्णकारस्य आपणं गच्छति। = विशाखा सुनार की दुकान जाती है। विशाखा सख्या सह गच्छति। = विशाखा सखी के साथ जाती है। सा कर्णपुष्पम् इच्छति। = वो कान के टॉप चाहती है। स्वर्णकारः अनेकविधानि कर्णपुष्पाणि दर्शयति। = सुनार अनेक प्रकार के कान के टॉप दिखाता है। सा प्रदर्शनमंजूषायां कर्णलोलकं पश्यति। = वह शोकेस में कान का झुमका देखती है। सा वदति – “कृपया कर्णलोलकं दर्शयतु।” = वह बोलती – कृपया कान के झुमके दिखाईये। स्वर्णकारः अनेकविधानि कर्णलोलकानि दर्शयति। = सुनार अनेक प्रकार के कान के झुमके दिखाता है। विशाखा स्वर्णस्य शुद्धताविषये पृच्छति। = विशाखा सोने की शुद्धता के बारे में पूछती है। स्वर्णकारः वदति “मम आपणे शुद्धमेव स्वर्णं मिलति।” = सुनार बोलता है “मेरी दूकान में शुद्ध ही सोना मिलता है” चतुर्विंशतिः पदं शुद्धं स्वर्णम् । = चौबीस कैरेट शुद्ध सोना। विशाखा स्वकर्णे कर्णलोलकं स्थापयति। = विशाखा अपने कान पर झुमका लगाती है। सा दर्पणे मुखं पश्यति। = वह दर्पण में अपना चेहरा देखती है। विशाखायाः सखी वदति ” बहु शोभते” = विशाखा की सखी बोलती है ” बहुत अच्छा लग रहा है” “क्रीणातु “ = खरीद लीजिये। विशाखा कर्णलोलकं क्रीणाति। = विशाखा कान का झुमका खरीदती है। ओ३म् 703. संस्कृत वाक्याभ्यासः प्रातःकालात् स्तोत्राणि श्रृणोमि। = सुबह से स्तोत्र सुन रहा हूँ। गङ्गाधरः मम प्रतिवेशी अस्ति। = गंगाधर मेरे पड़ोसी हैं। सः स्तोत्राणां सान्द्रमुद्रिकां चालितवान्। = उसने स्तोत्र की सी डी चलाई है। अधुना शान्तिः अस्ति। = अभी शान्ति है। गङ्गाधरः अधुना यज्ञं करोति। = गंगाधर अभी यज्ञ कर रहा है। तस्य भार्या अपि तेन सह उपविश्य आहुतिं ददाति। = उसकी पत्नी भी उसके साथ बैठकर आहुति दे रही है। ( आहुती: = बहुवचने ) अनेके जनाः तस्य गृहम् आगताः सन्ति । = अनेक लोग उसके घर आए हैं। सर्वे अपि आहुती: दास्यन्ति। = सभी आहुति देंगे। सर्वेभ्यः महाशिवरात्रिपर्वणः मङ्गलकामनाः। ओ३म् 704. संस्कृत वाक्याभ्यासः बहिः कीदृशं वातावरणम् अस्ति ? = बाहर कैसा वातावरण है ? पश्यामि। = देखता हूँ । आकाशे मेघाः सन्ति। = आकाश में बादल हैं। सूर्यः न दृश्यते। = सूर्य नहीं दिख रहा है। खगाः उड्डयन्ते। = पक्षी उड़ रहे हैं। वायुः प्रवहति। = हवा चल रही है। एकः वृद्धः अङ्गणे पौत्रेण सह उपविष्टः अस्ति। = एक वृद्ध आँगन में पोते के साथ बैठे हैं। एकः जनः समाचारपत्रं पठति। = एक व्यक्ति समाचारपत्र पढ़ रहा है। द्वे महिले वार्तालापं कुरुतः। = दो महिलाएँ बात कर रही हैं। एकः शिशुः क्रन्दति। = एक शिशु रो रहा है। माता शिशुं तोषयति। = माँ शिशु को बहलाती है। ओ३म् 705. संस्कृत वाक्याभ्यासः अस्माकं सेना बहु सबला , सुदृढ़ा अस्ति। = हमारी सेना बहुत सबल , सुदृढ़ है। भारतीस्य सेनायाम् अनेके दलाः सन्ति। = भारत की सेना में अनेक दल हैं। मराठा सैन्यदले मराठावीराः सन्ति। = मराठा रेजिमेन्ट में मराठा वीर हैं। राजपूताना सैन्यदले राजपूतवीराः सन्ति। = राजपूताना रेजिमेन्ट में राजपूत वीर हैं। कुमायूँ सैन्यदले कुमायूँप्रदेशस्य वीराः सन्ति। = कुमायूँ रेजिमेन्ट में कुमायूँ प्रदेश के वीर हैं जाट सैन्यदले जाटवीराः सन्ति। = जाट रेजिमेन्ट में जाट वीर हैं। गढ़वाल सैन्यदले गढ़वालक्षेत्रस्य वीराः सन्ति। = गढ़वाल रेजिमेन्ट में गढ़वाल प्रदेश के वीर हैं मद्रास सैन्यदले दक्षिणभारतीयाः वीराः सन्ति। = मद्रास रेजिमेन्ट में दक्षिण भारत के वीर है । बिहार सैन्यदलः अपि अस्ति। = बिहार रेजिमेन्ट भी है। यस्मिन् दले सर्वे बिहारस्य वीराः सन्ति। = जिस रेजिमेन्ट में सभी बिहार के वीर हैं। एकः नागासैन्यदलः अस्ति। = एक नागा रेजिमेन्ट है। नागाप्रदेशस्य वीराः तस्मिन् दले सन्ति। = नागालैंड के वीर उस रेजिमेन्ट में हैं। तादृशाः अनेके सैन्यदलाः सन्ति। = ऐसे अनेक सैन्यदल हैं। सर्वेषां वीराणां वयं सम्मानं कुर्मः। = सभी वीरों का हम सम्मान करते हैं। ओ३म् 706. संस्कृत वाक्याभ्यासः वीरयुयुत्सुः अभिनन्दन् । अरिहन्ता योद्धा अभिनन्दन्। निर्भीकः अचलः अभिनन्दन्। रिपुविमानपातकः अभिनन्दन्। संग्रामविजेता अभिनन्दन् । तव मनसा वचसा अभिनन्दन् । तव भूयोभूयः अभिनन्दन्। आसेतुहिमालये अभिनन्दन्। भारतमातुः पुत्रः अभिनन्दन् । भारतभूमौ अद्य तव अभिनन्दन्। ओ३म् 707. संस्कृत वाक्याभ्यासः युद्धं योद्धाभिः युध्यते। = युद्ध योद्धाओं द्वारा लड़ा जाता है वयं तु नागरिकाः स्मः। = हम तो नागरिक हैं। वयं तु न युध्यामहे। = हम तो नहीं लड़ते हैं। समराङ्गणे वयं स्थातुम् अपि न शक्नुमः। = युद्ध के मैदान में हम खड़े भी नहीं हो सकते हैं। शस्त्रं कदा , कुत्र , कथं च प्रयोजनीयं तद् वयं न जानीमः । = शस्त्र का कब , कहाँ और कैसे प्रयोग किया जाए यह हम नहीं जानते हैं। अस्माभिः केवलं नागरिकभावेन आचरणीयम् । = हमें केवल नागरिक भाव से आचरण करना चाहिये। सेनां प्रति अस्माकम् अपि कर्तव्यानि सन्ति। = सेना के प्रति हमारे भी कर्तव्य हैं। मिथ्या सूचना कदापि न प्रसारणीया। = गलत सूचना नहीं फैलानी चाहिये। सामाजिकं सौहार्दं वर्धनाय यतनीयम् । = सामाजिक सौहार्द बढ़ाने के लिये यत्न करना चाहिये। युद्धसमये वस्तूनां मूल्यं वर्धते एव। = युद्ध के समय वस्तुओं का मूल्य बढ़ता ही है। मूल्यं वर्धते चेत् चिन्ता न करणीया। = मूल्य बढ़ता है तो चिन्ता न करें। राष्ट्रसेवार्थं तत्पराः भवितव्यम् । = राष्ट्र सेवा के लिये तत्पर रहना चाहिये। प्रशासनम् अस्मत् यत्किमपि अपेक्षते तद् अस्माभिः करणीयम् । = प्रशासन हमसे जो अपेक्षा करे वो हमें करना चाहिये। ओ३म् 708. संस्कृत वाक्याभ्यासः वयम् आश्वस्ताः आस्म। = हम आश्वस्त थे। मनसि पूर्णः विश्वासः आसीत्। = मन में पूरा विश्वास था। सैन्य प्रतिक्रिया भविष्यति एव। = सैन्य प्रतिक्रिया होगी ही । ह्यः अस्माकं वायुयानानि पाकिस्थानं प्रविष्टानि। = कल हमारे विमान पाकिस्तान में प्रविष्ट हुए। द्वादश यानानि उड्डीय ख़ैबरप्रान्त पर्यन्तं गतानि। = बारह विमान उड़कर ख़ैबर प्रान्त तक गए। पर्वतीयविस्तारे बालाकोट ग्रामः अस्ति। = पर्वतीय विस्तार में बालाकोट गाँव है। तत्र प्रायः चतुश्शतम् आतंकवादिनः आसन्। = वहाँ लगभग चार सौ आतंकवादी थे। तत्र अस्माकं वायुसैनिकाः अग्न्यस्त्रं क्षिप्तवन्तः। = वहाँ हमारे सैनिकों ने बम गिराए। आतंककेन्द्राणि ध्वस्तानि कृतानि। = आतंक के केंद्र ध्वस्त किये। अस्माकं वीराः सुरक्षितैह प्रत्यागतवन्तः। = हमारे वीर सुरक्षित लौट आए। जयतु वीरभारतीयाः ओ३म् 709. संस्कृत वाक्याभ्यासः वीराणां स्मारकम् आवश्यकं भवति। = वीरों का स्मारक आवश्यक होता है। अनेकेषु देशेषु युद्धस्मारकम् अस्ति। = अनेक देशों में युद्ध स्मारक हैं। अस्माकं देशे अधुना पर्यन्तं युद्धस्मारकं न आसीत्। = हमारे देश में अब तक युद्ध स्मारक नहीं था। ह्यः प्रधानमन्त्रिणा युद्धस्मारकस्य उद्घटनं कृतम् । = कल प्रधानमन्त्री जी द्वारा युद्ध स्मारक का उद्घाटन किया गया। स्मारके चत्वारि वर्तुलानि (चक्राणि) सन्ति। = स्मारक में चार वर्तुल (चक्र) हैं। अमरचक्रे अमरजवान स्तम्भः अस्ति। = अमर चक्र में अमर जवान स्तम्भ है। यस्य अधः सर्वदा अमरज्योतिः प्रज्ज्वलिता भविष्यति। = जिसके नीचे हमेशा अमर ज्योति प्रज्ज्वलित रहेगी। वीरताचक्रे विगतानां युद्धानां विवरणम् अस्ति। = वीरता चक्र में विगत युद्धों की जानकारी है। त्यागचक्रे षड्विंशतिःसहस्र हुतात्मानां वीराणां नामानि उट्टंकितानि सन्ति। = त्याग चक्र में छब्बीस हजार शहीद वीरों के नाम अंकित हैं। सुरक्षा चक्रे वृक्षाः सन्ति। = सुरक्षा चक्र में वृक्ष हैं। अहं यदा देहलीं गमिष्यामि तदा अवश्यमेव युद्धस्मारकं द्रक्ष्यामि। = मैं जब दिल्ली जाऊँगा तब युद्ध स्मारक अवश्य देखूँगा। ओ३म् 710. संस्कृत वाक्याभ्यासः ह्यः तस्य युतके चायं पतितम् । = कल उसकी शर्ट पर चाय गिर गई। सः शीघ्रमेव जलेन युतकं स्वच्छं करोति। = वह जल्दी से शर्ट साफ करता है। तथापि एकः बिन्दुः युतके अवशिष्टः। = फिर भी एक बूँद शर्ट पर रह गई। चायबिन्दुः युतके स्थायी न भवेत् इति विचिन्तय सः ऊष्णेन जलेन घर्षयति। = चाय की बूँद शर्ट पर स्थायी न हो जाए यह सोचकर वह गरम पानी से रगड़ता है। सः पुनः पुनः घर्षयति। = वह पुनः पुनः रगड़ता है। तथापि तद् कलुषं दूरं न भवति। = फिर भी वो दाग दूर नहीं होता है। कलुषस्य तिरोधानं न भवति। = दाग नहीं मिटता है। सः बलेन घृष्ट्वा कलुषस्य तिरोधानं कर्तुं यतते। = वह बलपूर्वक घिसकर दाग मिटाने का प्रयत्न करता है। अंततोगत्वा तस्य युतकस्य कलुषं सः अपाकरोति। = आखिर वह उसकी शर्ट का दाग दूर कर देता है। अधुना सः ध्यानपूर्वकं चायं पिबति। = अब वो ध्यान से चाय पी रहा है। तस्य सम्पूर्णं युतकं स्वच्छं जातम् । = उसकी पूरी शर्ट साफ हो गई। ओ३म् 711. संस्कृत वाक्याभ्यासः कति शब्द केवल बहुवचन में ही होता है तथा कति शब्द का प्रयोग सभी लिंगों में एकसमान होता है। कति शब्द प्रश्नवाचक शब्द है । प्रथमा – कति कति जनाः सन्ति ? कति महिलाः पठन्ति ? कति मन्दिराणि सन्ति ? द्वितीया – कति भवान् कति जनान् जानाति ? कति बालिकाः भवती पाठयति ? बालकः कति मोदकानि खादति ? तृतीया – कतिभिः कतिभिः शिक्षकै: सह भवान् विद्यालयं गच्छति ? कतिभिः महिलाभिः सह सा नृत्यति? कतिभिः शस्त्रै: सैनिकः प्रहारं करोति ? चतुर्थी – कतिभ्यः कतिभ्यः भिक्षुकेभ्यः सा अन्नं ददाति ? कतिभ्यः बालिकाभ्यः सः पुस्तकं ददाति ?, पञ्चमी – कतिभ्यः कतिभ्यः जनेभ्यः सः बिभेति ? षष्ठी – कतीनाम् – कतीनां जानानां नामानि आगतानि ? – कतीनां महिलानां केशा: दीर्घा: सन्ति ? सप्तमी – कतिषु कतिषु वृक्षेषु फलानि सन्ति ? कतिषु नदीषु जलम् अस्ति ? एवं रीत्या वयं कति शब्दस्य प्रयोगं कर्तुं शक्नुमः । ओ३म् 712. संस्कृत वाक्याभ्यासः संदिग्धायाम् अवस्थायां सः प्राप्तः । = संदिग्ध अवस्था में वह मिला। रक्षकः तम् अवरोधितवान् ( अवारोधयत् ) = रक्षक ने उसे रोका। रक्षकः – तिष्ठ …. यानपेटिकाम् उद्घाटय = रुको …. बैग खोलो। – किम् अस्ति अन्तः ? = अन्दर क्या है ? * अहं न जानामि। = मैं नहीं जानता हूँ। रक्षकः – सशङ्कितायाम् अवस्थायाम् अत्र भ्रमति। = सशंकित अवस्था में यहाँ घूम रहे हो। – गृहं किमर्थं न गच्छसि त्वम् ? = तुम घर क्यों नहीं जाते हो ? – कुत्र निवससि त्वम् ? = तुम कहाँ रहते हो ? * रक्षक महोदय ! अहं छात्रः अस्मि। = रक्षक जी ! मैं तो विद्यार्थी हूँ। * एकः जनः मम हस्ते यानपेटिकां दत्वा अवदत् ” अह आगच्छामि” = एक व्यक्ति ने मेरे हाथ में बैग देकर कहा ” मैं आ रहा हूँ” * अधुना पर्यन्तं सः न आगतवान्। = वो अभी तक नहीं आया। * अहं किं करवाणि ? = मैं क्या करूँ ? रक्षकः – तव परिचयपत्रं दर्शय । = तुम्हारा परिचयपत्र दिखाओ। * आं पश्यतु , अहम् आदर्श पाठशालायाः छात्रः अस्मि। = हाँ देखिये , मैं आदर्श पाठशाला का छात्र हूँ। रक्षकः – त्वं तु सत्यमेव छात्रः असि। = तुम तो सच में छात्र हो। – श्रृणु , कोsपि अपरिचितः जनः किमपि ददाति तद् न स्वीकरणीयम् । = सुनो , कोई भी अपरिचित व्यक्ति कुछ भी देता है वो नहीं लेना चाहिये । – सः किमपि ददाति तद् न खादनीयम्। = वह कुछ भी दे वो नहीं खाना चाहिये। – अवगतम् ? = समझ में आ गया ? * आम् अवगतम् । = हाँ समझ में आ गया। ओ३म् 713. संस्कृत वाक्याभ्यासः प्रेरणा सख्या सह आपणं गच्छति। = प्रेरणा सखी के साथ बाजार जाती है। प्रेरणायाः सखी श्रृङ्गारापणे श्रृङ्गारसाधनानि पश्यति। = प्रेरणा की सखी श्रृंगार की दूकान में श्रृंगार साधन देखती है। सा सुवासकं क्रीणाति। = वह पॉवडर खरीदती है सा सखी ओष्ठरागं पश्यति = वो सखी लिपिस्टिक देखती है। आपणे अनेकाः महिलाः युवत्यः च आसन् । = दूकान में अनेक महिलाएँ और युवतियाँ थीं। सर्वाः महिलाः युवत्यः प्रेरणां जानन्ति। = सभी महिलाएँ युवतियाँ प्रेरणा को जानती हैं। प्रेरणा अपि सर्वैः सह प्रेम्णा मिलति। = प्रेरणा भी सबके साथ प्रेम से मिलती है। प्रेरणायाः सखी श्रृङ्गारप्रसाधनानि क्रीत्वा आपणात् बहिः आगच्छति। = प्रेरणा की सखी श्रृंगार प्रसाधन खरीद कर दूकान से बाहर आती है। तदा जनाः प्रेरणां वन्दन्ते। = तब लोग प्रेरणा को वन्दन करते हैं। प्रेरणायाः सखी पृच्छति….. = प्रेरणा की सहेली पूछती है …. त्वं श्रृङ्गारं न करोति तथापि भवती जनेभ्यः रोचते। = तुम श्रृंगार नहीं करती हो फिर भी लोगों को तुम अच्छी लगती हो। प्रेरणा हसित्वा अग्रे वर्धते। = प्रेरणा हँसते हुए आगे बढ़ जाती है। ओ३म् 714. संस्कृत वाक्याभ्यासः यदा कोsपि जायते….. = जब कोई पैदा होता है तदा सः भाषां न जानाति। = तब वह भाषा नहीं जानता है। मातुः अङ्के उपविश्य बालकः भाषां श्रृणोति। = माँ की गोदी में बैठकर बालक भाषा सुनता है। माता यद् वदति तद् सः श्रृणोति। = माँ जो बोलती है वही वह सुनता है। माता यथा वदति तथैव सः श्रृणोति। = माँ जैसे बोलती है वही वैसा ही सुनता है। यदा बालकः सम्भाषणम् आरभते तदा सः मातृभाषायाः अनुकरणं करोति। = जब बालक बोलना शुरू करता है तब वह मातृभाषा का अनुकरण करता है। आजीवनं सर्वेभ्यः मातृभाषा रोचते एव। = आजीवन सबको मातृभाषा पसन्द आती है। कोsपि मातृभाषां न त्यजति। = कोई भी मातृभाषा नहीं छोड़ता है। अस्माकं पूर्वजानां मातृभाषा संस्कृतम् आसीत्। = हमारे पूर्वजों की मातृभाषा संस्कृत थी। अतएव सर्वेषां प्रथमा मातृभाषा संस्कृतमेव अस्ति। = अतः सबकी पहली मातृभाषा संस्कृत ही है। अद्य मातृभाषादिनम् अस्ति। = आज मातृभाषा दिन है। आगच्छन्तु वयम् अद्य संस्कृते एव वदाम। = आईये आज हम संस्कृत में ही बात करें। संस्कृत गीतानि गायाम। = संस्कृत गीत गाएँ। ओ३म् 715. संस्कृत वाक्याभ्यासः सः अवदत् – “क्लियर करो” = वह बोला “क्लियर करो” अहं तत्र स्वच्छं कृतवान्। = मैंने वहाँ स्वच्छता कर दी। सः पुनः अवदत् “क्लियर करो” = वह फिर से बोला – “क्लियर करो” अहं अत्र तत्र सर्वत्र दृष्टवान् … कुत्रापि अस्वच्छता न आसीत्। = मैंने यहाँ वहाँ सब जगह देखा … कहीं भी अस्वच्छता नहीं थी। अहम् अवदम् – सर्वत्र स्वच्छता अस्ति। = मैं बोला – सब जगह स्वछता है। सः रोषेण पुनः अवदत्। = वह रोष के साथ फिर बोला। अरे , “क्लियर करो” इत्युक्ते “स्पष्टं कुरु” = अरे , “क्लियर करो” का मतलब स्पष्ट करो। अहमपि हास्येन उक्तवान् – “क्लियर क्लियर किमर्थं वदति ?” = मैं भी हास्य में बोला – “क्लियर क्लियर क्यों बोल रहे हैं। स्पष्टं स्पष्टं वक्तव्यम् । = स्पष्ट स्पष्ट बोलना चाहिये। अधुना किं स्पष्टव्यम् अस्ति ? = अब क्या स्पष्ट करना है ?, सः अधुना स्पष्टतां न इच्छति। = वह अब स्पष्टता नहीं चाहता है। ओ३म् 716. संस्कृत वाक्याभ्यासः *युद्ध अनन्तरं संस्कृतं भविष्यति वा ? = युद्ध के बाद संस्कृत होगी क्या ? ** आं भविष्यति। = हाँ होगी । * कथम् ? = कैसे ? ** युद्धानन्तरम् अपि जनाः तु निवसन्ति एव। = युद्ध के बाद भी लोग तो रहते ही हैं। रामरावणयोः युद्धानन्तरम् अपि संस्कृतम् आसीत्। = रामरावण युद्ध के बाद भी संस्कृत थी। कौरवपाण्डवयोः युद्धानन्तरम् अपि संस्कृतम् आसीत्। = कौरवपाण्डव के युद्ध के बाद भी संस्कृत थी। चाणक्यस्य अनन्तरम् अपि संस्कृतम् आसीत्। = चाणक्य के बाद भी संस्कृत थी। आँग्लानाम् अनन्तरम् अपि संस्कृतम् आसीत्। = अंग्रेजों के बाद भी संस्कृत थी। संस्कृतगङ्गाधारा अविरता एव प्रवहति। = संस्कृत गङ्गाधारा अविरत बहती है। निर्भयेन संस्कृताभ्यासं कुर्वन्तु। = निर्भय होकर संस्कृत अभ्यास करें। वीराणां कुशलताम् अपि कामयन्ताम्। = वीरों की कुशलता की भी कामना करें। ओ३म् 717. संस्कृत वाक्याभ्यासः कृपया निराशाः मा भवन्तु। = कृपया निराश न हों । भवताम् सर्वेषाम् कामना पूर्णा भविष्यति। = आप सबकी कामना पूर्ण होगी। भवन्तः यद् इच्छन्ति तद् भविष्यति एव। = आप जो चाहते हैं वो होगा ही। राष्ट्ररक्षणार्थम् अस्माकं वीराः सैनिकाः सन्ति। = राष्ट्र की रक्षा के लिये हमारे वीर सैनिक हैं। ते अवश्यमेव किमपि अद्भुतं करिष्यन्ति। = वे अवश्य ही कुछ अद्भुत करेंगे। वीराणां प्राणत्यागः व्यर्थः न भविष्यति। = वीरों का प्राणत्याग व्यर्थ नहीं जाएगा। विलम्बः भवति तद् सत्यम् । = देर हो रही है यह सच है। महद् कार्यं सरलं न भवति। = महान काम सरल नहीं होता है। एतादृशं कार्यं समयम् अपेक्षते। = ऐसा कार्य समय चाहता है। एतादृशं कार्यं धैर्यम् अपेक्षते। = ऐसा कार्य धैर्य चाहता है। वयं सुपरिणामम् अभिलषामः। = हम सुपरिणाम चाहते हैं। ओ३म् 718. संस्कृत वाक्याभ्यासः युद्धं कदा भविष्यति ? = युद्ध कब होगा ? किमर्थं विलम्बः क्रियते ? = क्यों देर की जा रही है ? सर्वकारः किमपि न करिष्यति वा ? = सरकार कुछ भी नहीं करेगी क्या ? सैनिकाः तु सिद्धाः सन्ति। = सैनिक तो तैयार हैं। तथापि किमर्थं युद्धं न भवति ? = फिर भी युद्ध क्यों नहीं हो रहा है ? एते प्रश्नाः जनानां मनसि उद्भवन्ति। = ये प्रश्न लोगों के मन में पैदा होते हैं। युद्धं सरलं न भवति। = युद्ध सरल नहीं होता है। तदर्थं सज्जता आवश्यकी भवति। = उसके लिये तैयारी आवश्यक होती है। शस्त्रागारे शस्त्राणि , आयुधानि भवन्ति। = शस्त्रागार में शस्त्र और बम आदि होते हैं। सैनिकाः अपि सैन्यशिबिरात् युद्धक्षेत्रे प्रेषणीयाः भवन्ति। = सैनिक भी आर्मी कैम्प से युद्ध के मैदान में भेजने होते हैं। सैन्यव्यापारः प्रायः गोपनीयः भवति। = सेना का ऑपरेशन प्रायः गोपनीय होता है। नागरिकेभ्यः युद्धस्य सूचना न दीयते। = नागरिकों को युद्ध की सूचना नहीं दी जाती है। युद्धं भविष्यति एव। = युद्ध तो होगा ही। शत्रूणां विनाशः अपि भविष्यति। = शत्रुओं का विनाश भी होगा। ओ३म् 719. संस्कृत वाक्याभ्यासः ह्यः वीराणां हुतात्मानां शवाः देहल्याम् आगताः। = कल वीर शहीदों के शव दिल्ली आए। सर्वे शवाः राष्ट्रध्वजैः परिवेष्टिताः आसन्। = सभी शव राष्ट्रध्वज से लिपटे हुए थे। सायंकाले प्रधानमन्त्री महोदयः सर्वान् वीरान् अवन्दत। = शाम को प्रधानमन्त्री महोदय ने सभी वीरों को वन्दन किया। तद् दृश्यं अहं दूरदर्शने पश्यामि स्म। = वो दृश्य मैं दूरदर्शन पर देख रहा था। अहमपि उत्थाय वीरेभ्यः श्रद्धाञ्जलिम् अर्पितवान्। = मैंने भी खड़े होकर वीरों को श्रद्धाञ्जलि दी। मम नेत्रयोः अश्रूणि आसन्। = मेरी आँखों में आँसू थे। ह्यः आदिनं मनः खिन्नम् आसीत्। = कल सारा दिन मन दुखी था। वयं सर्वे प्रतीकारम् इच्छामः। = हम सभी बदला चाहते हैं। ओ३म् 720. संस्कृत वाक्याभ्यासः रात्रौ निद्रा न आगता। = रात नींद नहीं आई। आरात्रिः हुतात्मानां वीराणां परिवारजनान् एव स्मरामि स्म। = सारी रात शहीद वीरों के परिवारजनों को ही याद कर रहा था। राष्ट्रस्य चिन्तनम् अपि मनसि आगच्छति स्म। = राष्ट्र का भी चिन्तन मन में आ रहा था। मनः अधुनापि खिन्नम् अस्ति। = मन अभी भी खिन्न है। धिक् आतंकवादिनः = आतंकवादियों को धिक्कार है। धिक् राष्ट्रद्रोहिणः। = राष्ट्रद्रोहियों को धिक्कार है। आतंकवादिभिः अस्माकं वीराः हताः। = आतंकवादियों के द्वारा हमारे वीर मारे गए। नृशंसं कुकृत्यं तैः कृतम्। = नृशंस कुकृत्य उन्होंने किया। अस्माकं वीरसैनिकाः राष्ट्ररक्षां कुर्वन्ति। = हमारे वीर सैनिक राष्ट्ररक्षा करते हैं। तेषां सर्वदा सम्मानं करणीयं भवति। = उनका हमेशा सम्मान करना चाहिये। ओ३म् 721. संस्कृत वाक्याभ्यासः सारांशः मम छात्रः अस्ति। = सारांश मेरा छात्र है। सः यदा दशम्यां कक्षायाम् आसीत् तदा अहं तं संस्कृतं पाठितवान्। = वह जब दसवीं कक्षा में था तब मैंने उसे संस्कृत पढ़ाई थी। अधुना सः जलपोतनायकः अस्ति। = अभी वह शिप का कैप्टन है। तस्य दूरवाणी आसीत्। = उसका फोन था। गुरुवर ! अहं भवन्तं बहु स्मरामि। = गुरु जी ! मैं आपको बहुत याद करता हूँ। जलपोतः यदा महासागरे भवति तदा वयं सर्वे मिलित्वा जलपोतम् अग्रे नयामः। = शिप जब महासागर में होता है तब हम सब मिलकर शिप को आगे ले जाते हैं। सर्वे एकसाकं कार्यं कुर्मः। = सब एकसाथ काम करते हैं। भवतः पाठम् अहं बहु स्मरामि। = आपका पाठ बहुत याद करता हूँ। सं गच्छध्वं सं वदध्वं …. = साथ चलें साथ बोलें …. जलपोते वयं “सं गच्छध्वं सं वदध्वं” इति सूत्रं पालयामः। = शिप में हम “साथ चलें साथ बोलें” इस सूत्र का पालन करते हैं। अहम् अधुना कनाडादेशे अस्मि। = मैं अभी कनाडा देश में हूँ। द्विमास अनन्तरं भारतं प्राप्स्यामि। = दो महीने के बाद भारत पहुँचूँगा। ओ३म् 722. संस्कृत वाक्याभ्यासः बालिका सर्वाणि क्रीड़नकानि तनोति। = बच्ची सारे खिलौने फैला देती है। क्रीड़नकानि तनित्वा सा मातरम् आह्वयति। = खिलौने फैलाकर वह माँ को बुलाती है। बालिका – अम्ब ! मया सह क्रीडतु। = माँ ! मेरे साथ खेलिये। माता – सर्वाणि क्रीड़नकानि किमर्थं तनितवती ? = सभी खिलौने क्यों फैला दिये ? – त्वं मातुः कार्यं वर्धयसि। = तुम माँ का काम बढ़ाती हो। बालिका – मया सह कोsपि न क्रीडति। = मेरे साथ कोई नहीं खेलता है। माता – आगच्छ … पाकशालाम् आगच्छ .. = आओ … रसोई में आओ … – अत्र शाकानि तनितानि सन्ति। = यहाँ सब्जियाँ फैली हुई हैं। – शाकानि करण्डे स्थाप्य। = सब्जियाँ टोकरी में रख दो। – मम कार्यं भविष्यति , तव क्रीड़ा भविष्यति। = मेरा काम हो जाएगा , तुम्हारा खेल हो जाएगा। बालिका धावित्वा पाकशालां गच्छति। = बच्ची दौड़कर रसोई में जाती है। ओ३म् 723. संस्कृत वाक्याभ्यासः सः स्वधनं कपाटिकायां स्थापयति। = वह अपना धन कपाट में रखता है। सा स्वधनं वनितास्यूते स्थापयति। = वह अपना धन पर्स में रखती है। दीपकः स्वधनं क्षुद्रकोषे स्थापयति। = दीपक अपना धन बटुए में रखता है। ज्योतिः स्वधनं पर्यङ्के स्थापयति। = ज्योति अपना धन पलंग में रखती है। निर्मलः स्वधनं पुस्तके स्थापयति। = निर्मल अपना धन पुस्तक में रखता है। निर्मला स्वधनं उपधानस्य अधः स्थापयति। = निर्मला अपना धन तकिया के नीचे रखती है। भवान् स्वधनं कुत्र स्थापयति ? = आप अपना धन कहाँ रखते हैं ? भवती स्वधनं कुत्र स्थापयति ? = आप अपना धन कहाँ रखती हैं ? श्… श् … कमपि मा वदतु । = श् …श् ..किसी से मत कहना। स्वधनं तु स्वधनं भवति। = अपना धन तो अपना धन होता है। यस्मै यत्र रोचते तत्र स्थापयति। = जिसे जहाँ पसंद आता है वहाँ रखता / रखती है। मा गृधः कस्यस्विद् धनम् । = किसी के धन की लालच न करें। ओ३म् 724. संस्कृत वाक्याभ्यासः प्रातः यदा अहं कार्यालयं प्राप्तवान् .. = प्रातः जब मैं कार्यालय पहुँचा …. तदा दृष्टवान् – कार्यालये स्वच्छता न अभवत्। = तब देखा – कार्यालय में स्वच्छता नहीं हुई थी। स्वच्छता-कर्मचारी अवकाशे अस्ति। = सफाई कर्मचारी छुट्टी पर है। अहम् एकां सेविकाम् आहूतवान्। = मैंने एक सेविका को बुलाया । सा कार्यालये स्वच्छतां कृतवती। = उसने कार्यालय में स्वच्छता की। अनन्तरं ज्ञातवान् अद्य द्वौ लिपिकौ अपि अवकाशे स्तः। = बाद में मुझे पता चला कि दो क्लर्क भी छुट्टी पर हैं। तयोः कार्यं कः करिष्यति ? = उन दोनों का काम कौन करेगा ? एका भगिनी अवदत् ” अहं करिष्यामि “ = एक बहन ने आकर कहा ” मैं करूँगी” सा भगिनी भोजनावकाश-पर्यन्तं बहुविधं कार्यं कृतवती। = उसने भोजनावकाश तक बहुत से काम कर दिये। अनेकानि कार्याणि तया कृतानि। = उसके द्वारा बहुत से काम किये गए। अद्यतनं दिनं सुखेन सम्पन्नं भविष्यति। = आज का दिन सुख से पूरा हो जाएगा। ओ३म् 725. संस्कृत वाक्याभ्यासः सा प्रातः शीघ्रमेव उत्तिष्ठति। = वह सुबह शीघ्र उठती है। सर्वान् जागरयति। = सबको जगाती है। परिवारस्य सर्वे जनाः शीघ्रमेव स्नानं कुर्वन्ति। = परिवार के सभी लोग जल्दी से स्नान करते हैं। सर्वे शीघ्रमेव सिद्धाः भवन्ति। = सब शीघ्र ही तैयार होते हैं। सर्वे पीतानि वस्त्राणि धारयन्ति। = सभी पीले वस्त्र पहनते हैं। सर्वे यज्ञस्य व्यवस्थां कुर्वन्ति। = सभी यज्ञ की तैयारी करते हैं। सर्वे मन्त्रपाठं कुर्वन्ति। = सब मंत्रपाठ करते हैं। वसन्तपञ्चमीम् अनुलक्ष्य यजुर्वेदस्य मन्त्राणां पाठं कुर्वन्ति। = वसन्तपंचमी के अनुलक्ष्य में यजुर्वेद के मन्त्रों का पाठ करते हैं। ओं वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुताः । रथन्तरेण तेजसा हविरिन्र्दे वयो दधुः ।। इत्यादीनां मन्त्राणां पाठं कुर्वन्ति। = इत्यादि मन्त्रों का पाठ करते हैं। अनन्तरं सर्वे केसरयुक्तं दुग्धं पिबन्ति। = बाद में सब केसरयुक्त दूध पीते हैं। सर्वेभ्यः वसन्तपञ्चम्याः शुभकामनाः। ओ३म् 726. संस्कृत वाक्याभ्यासः तस्य गृहे ढोलवादनं भवति। = उसके घर ढोल बज रहा है। किमर्थं ढोलवादनं भवति ? = क्यों ढोल बज रहा है ? तस्य पुत्रस्य विवाहः अस्ति। = उसके पुत्र का विवाह है। अधुना हरिद्रालेपनं भवति। = अभी हल्दीलेपन हो रहा है। महिलाः आगत्य वरस्य शरीरे हरिद्रां लिम्पन्ति। = महिलाएँ आकर वर के शरीर पर हल्दी लगा रही हैं। वरस्य चरणयोः हरिद्रां लिम्पन्ति। = वर के पैरों में हल्दी लगाती हैं। वरस्य हस्तयोः हरिद्रां लिम्पन्ति। = वर के हाथों में हल्दी लगाती हैं। वरस्य मुखे हरिद्रां लिम्पन्ति। = वर के मुँह पर हल्दी लगाती हैं। सर्वाः महिलाः लोकगीतम् अपि गायन्ति। = सभी महिलाएँ लोकगीत भी गा रही हैं। अनन्तरं मेंधिकालेपनं भविष्यति। = बाद में मेहंदी लगाई जाएगी। ओ३म् 727. संस्कृत वाक्याभ्यासः तस्य / तस्याः चिन्तनं पवित्रम् अस्ति। = उसका चिन्तन पवित्र है। तस्य / तस्याः वाणी अपि पवित्रा अस्ति। = उसकी वाणी भी पवित्र है। तस्य / तस्याः व्यवहारः पवित्रः अस्ति। = उसका व्यवहार पवित्र है। सः / सा कुतः आगच्छति ? = वह कहाँ से आता / आती है ? तस्य / तस्याः माता का अस्ति ? = उसकी माता कौन है ? तस्य / तस्याः पिता कः अस्ति ? = उसका पिता कौन है ? तस्य / तस्याः गुरुः कः अस्ति ? = उसका गुरु कौन है ? अहं तं / तां मेलितुम् इच्छामि। = मैं उससे मिलना चाहता / चाहती हूँ। ( यदा कोsपि भद्रजनः मिलति तदा एते प्रश्नाः मनसि उद्भवन्ति। = जब कोई भद्र जन मिलता है तब ये प्रश्न मन में पैदा होते हैं। ) ओ३म् 728. संस्कृत वाक्याभ्यासः मातुलः – अधुना अन्धकारः अभवत्। = अभी अँधेरा हो गया है । – त्वं गृहं न गमिष्यसि। = तुम घर नहीं जाओगे। – अत्रैव शयनं कुरु। = यहीं सो जाओ। भागिनेयः – अहं गृहं प्राप्स्यामि । भान्जा = मैं घर पहुँच जाऊँगा। – द्विचक्रिकया गच्छामि। = साइकिल से जाऊँगा। मातुलः – मार्गे कुक्कराः अपि सन्ति। = रास्ते में कुत्ते भी हैं। – मा गच्छ। = मत जाओ। भागिनेयः – अम्बा शयनं न करिष्यति। = माँ नहीं सोएगी। मातुलः – त्वं मातुः चिन्तां करोषि। = तुम माँ की चिन्ता कर रहे हो। हा …हा … हा …हा … हा… चल … मया सह चल । = चलो …. मेरे साथ चलो। अन्यथा त्वमपि अत्र निद्रां न करिष्यसि। = अन्यथा तुम भी यहाँ नींद नहीं करोगे। ओ३म् 729. संस्कृत वाक्याभ्यासः संस्कृत-कार्यकर्तारः प्रायः किं चिन्त्यन्ति ? = संस्कृत-कार्यकर्ता प्रायः क्या सोचते हैं ? – अद्य किं लिखानि ? = आज क्या लिखूँ ? – केन सह वार्तालापं करवाणि ? = किसके साथ बात करूँ ? – किं वदानि ? = क्या बोलूँ ? – कथं वदानि ? = कैसे बोलूँ ? – अद्य किं पुस्तकं पठानि ? = आज कौनसी पुस्तक पढूँ ? – अस्तु , सम्भाषण-सन्देशं पठामि। = ठीक है , सम्भाषण-सन्देश पढ़ता हूँ। – किं गीतं श्रृणवानि ? = कौनसा गीत सुनूँ ? – “सुरससुबोधा” गीतं श्रृणोमि। = “सुरससुबोधा” गीत सुनता हूँ। – अहमपि गीतं गायानि ? = मैं भी गीत गाऊँ ? – संस्कृतगीतं तु गेयम् । = संस्कृतगीत तो गाना चाहिये। कथं सरलं पाठयानि ? = कैसे सरल पढ़ाऊँ ? ओ३म् 730. संस्कृत वाक्याभ्यासः रामजीवनः पौत्रं क्षेत्रं नयति। = रामजीवन पोते को खेत ले जाता है। पौत्रः प्रथमवारं क्षेत्रं पश्यति। = पोता पहली बार खेत देखता है। पौत्रः – पितामह ! पश्यतु इक्षुदण्डः … = दादाजी ! देखिये गन्ना … – अहं खादानि ? = मैं खाऊँ ? पितामहः – आं खाद । = हाँ खाओ । पौत्रः अग्रे वर्धते । = पोता आगे बढ़ता है। सः क्षेत्रे धावति। = वह खेत में दौड़ता है। पौत्रः – ओ….. कर्कटी !!! = ओ … ककड़ी !!! – अहं खादानि ? = मैं खाऊँ ? पितामहः – आं खाद । = हाँ खाओ । – क्षेत्रे यत्किमपि अस्ति तद् सर्वं खादितुं शक्नोषि। = खेत में जो कुछ भी है वो सब खा सकते हो। – पश्य , तत्र चणकाः अपि सन्ति। = देखो , वहाँ चने भी हैं। पौत्रः – सर्वम् अन्नं क्षेत्रात् आगच्छति। = सारा अन्न खेत से आता है। पितामहः – आं बालक ! सर्वं जगत् क्षेत्रात् एव अन्नं प्राप्नोति। = हाँ बालक , सारा जगत खेत से ही अन्न पाता है। Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.