००२९ सरल संस्कृत अनुवाद अभ्यास पाठ ६५१ से ६९० December 26, 2019 By Arun Aryaveer ओ३म् 651. संस्कृत वाक्याभ्यासः आचार्या नन्दिता वाराणस्या एकं गुरुकुलं संचालयति। = आचार्या नंदिता वाराणसी में एक गुरुकुल चलाती हैं। तस्याः (तासां) गुरुकुले कन्याः पठन्ति। = उनके गुरुकुल में कन्याएँ पढ़ती हैं । प्रातः प्रतिदिनं गङ्गातटे गुरुकुलस्य कन्याः यज्ञं कुर्वन्ति। = प्रतिदिन प्रातः गंगातट पर कन्याएँ यज्ञ करती हैं। पर्यटकाः अपि ताभिः सह यज्ञं कुर्वन्ति। = पर्यटक भी उनके साथ यज्ञ करते हैं। अद्य नरेन्द्रः मोदी वाराणस्यां नामांकनपत्रं पूरितवान्। = आज नरेंद्र मोदी जी ने वाराणसी से नामांकन भरा। नामांकनपत्रे प्रस्तावकानां हस्ताक्षराणि भवन्ति। = नामांकन पत्र में प्रस्तावकों के हस्ताक्षर होते हैं। ते प्रस्तावकाः अपि तत्र उपस्थिताः भवन्ति। = वे प्रस्तावक भी वहाँ उपस्थित रहते हैं। प्रस्तावकेषु आचार्या नन्दिताभगिनी अपि आसीत्। = प्रस्तावकों में आचार्या नन्दिता बहन भी थीं। नन्दिताभगिनी वेदविदुषी अस्ति। = नन्दिता बहन वेद विदुषी हैं। संस्कृतज्ञानां सम्मानम् अभवत्। = संस्कृतज्ञों का सम्मान हुआ। संस्कृतस्य सम्मानम् अभवत्। = संस्कृत का सम्मान हुआ। जयतु संस्कृतम् , जयतु वैदिकभारतम्। ओ३म् 652. संस्कृत वाक्याभ्यासः रात्रौ सार्धत्रिवादने द्वौ चोरौ गृहं प्रविष्टौ = रात साढ़े तीन बजे दो चोर घर में घुसे। आम् आम् …. मम गृहं प्रविष्टौ। = हाँ जी हाँ … मेरे घर में घुसे वातायने लौहस्य शलाकां भित्वा तौ प्रविष्टौ। = खिड़की की लोहे की शलाका तोड़कर दोनों अंदर आए। कपाटिकाम् उद्घाटितवन्तौ। = अलमारी खोली। द्वितीयां कपाटिकाम् उद्घाटितवन्तौ। = दूसरी अलमारी खोली। रवं श्रुत्वा अहम् उत्थितवान्। = आवाज़ सुन कर मैं उठा। पृष्टवान् – “कः अस्ति?” = पूछा – कौन है ? तदनीमेव द्वौ चोरौ पलायितौ । = उसी समय दोनों चोर भाग गए। गृहे सर्वं सुरक्षितम् अस्ति। = घर में सब सुरक्षित है। परमेश्वरस्य अनुकम्पया किमपि न चोरितम्। = परमेश्वर की अनुकम्पा से कुछ भी चोरी नहीं हुआ है। ओ३म् 653. संस्कृत वाक्याभ्यासः सः ओंनादं करोति। = वह ओंनाद करता है। एकनिमेष पर्यन्तम् ओंनादं करोति। = एक मिनट तक ओंनाद करता है। तस्य पुत्रः द्विनिमेष पर्यन्तम् ओंनादं करोति। = उसका बेटा दो मिनट तक ओंनाद करता है। सः दशवारम् आवर्तयति। = वह दस बार दोहराता है । तस्य पुत्रः अपि दशवारम् आवर्तयति। = उसका बेटा भी दस बार दोहराता है। दशवारम् ओंनादं कृत्वा द्वौ ध्यानं कुरुतः। = दसबार ओंनाद करके दोनों ध्यान करते हैं। ध्यानसमये तौ कम् अपि न पश्यतः । = ध्यान के समय दोनों किसी को नहीं देखते हैं । ध्यानसमये तौ किम् अपि न पश्यतः । = ध्यान के समय दोनों कुछ नहीं देखते हैं । केवलम् ईश्वरस्य एव ध्यानं कुरुतः। = दोनों केवल ईश्वर का ध्यान करते हैं ध्यानेन सुखं वर्धते। = ध्यान से सुख बढ़ता है। ओ३म् 654. संस्कृत वाक्याभ्यासः सः सन्धिशोथेन पीड़ितः अस्ति। = वह गठिया से पीड़ित है। शरीरे सन्धिस्थलेषु बहु पीड़ा भवति। = शरीर के संधि भागों में बहुत दर्द होता है। तस्य अस्थीनि दृढ़ानि अभवन्। = उसकी अस्थियाँ कड़क हो गई हैं। अधुना सः प्रतिदिनं व्यायामं करोति। = अब वह प्रतिदिन व्यायाम करता है। ऊष्णे जले पादौ हस्तौ च स्थापयति। = गरम पानी में हाथ और पैर रखता है। अम्लीयं भोजनं न खादति। = खट्टा भोजन नहीं खाता है। महानारायणतैलं शरीरे मर्दयति। = शरीर पर महानारायण तेल मलता है। रविवासरे अवकाशकाले च सः सूर्यस्नानं करोति। = रविवार को और छुट्टी के दिन वह सूर्यस्नान भी करता है। सः शिग्रुः रसं पिबति। = वह सहजन का रस पीता है। सः वदति “अहं स्वयमेव स्वस्थः भविष्यामि।” = वह कहता है – मैं स्वयं ही स्वस्थ हो जाऊँगा। “अहं शीघ्रमेव स्वस्थः भविष्यामि। “ = मैं जल्दी स्वस्थ हो जाऊँगा ओ३म् 655. संस्कृत वाक्याभ्यासः ( प्रातः सार्धषड्वादने … = सुबह साढ़े छः बजे …) माता – लाला …. लाला .. उत्तिष्ठ पुत्रः – ऊँ… अम्ब! इतोsपि शयनं कर्तुम् इच्छामि। = ऊँ … माँ ! मैं और भी सोना चाहता हूँ। माता – अद्य मतदानार्थं गन्तव्यम् अस्ति। = आज मतदान के लिये जाना है। पुत्रः – भवती गच्छतु …. अहम् दशवादने गमिष्यामि। = आप जाईये …. मैं दस बजे जाऊँगा। माता – नैव पुत्र , मतदानार्थं परिवारजनैः एकसाकं गन्तव्यम्। = नहीं बेटा , मतदान के लिये परिवारजनों को एक साथ जाना चाहिये। पुत्रः – चलामि अम्ब । = चलता हूँ माँ। माता – पूर्वं स्नानं कुरु। = पहले स्नान कर लो। – श्रेष्ठानि वस्त्राणि धारय। = अच्छे वस्त्र पहन लो। – पश्य तव पिता , तव अनुजा च सिद्धौ अभवताम्। = देखो तुम्हारे पिताजी और तुम्हारी छोटी बहन तैयार हो गए हैं। पुत्रः – ओह … नन्नी सिद्धा जाता !! = ओह … नन्नी तैयार हो गई !! – अहमपि आगच्छामि … मा गच्छन्तु। = मैं भी आ रहा हूँ …. मत जाईयेगा। माता – नन्नी प्रथमवारं मतदानं करिष्यति। = नन्नी पहली बार मतदान करेगी “कुर्याम राष्ट्राराधन, कुर्याम राष्ट्राराधन कर्मणा , मनसा , वचसा” ओ३म् 656. संस्कृत वाक्याभ्यासः श्रीलंका देशस्य नाम सर्वे श्रुतवन्तः। = श्रीलंका देश का नाम सभी ने सुना है। अस्माकं प्रतिवेशी देशः अस्ति श्रीलंका। =हमारा पड़ोसी देश है श्रीलंका। श्रीराम-रावणयोः युद्धं श्रीलंकायाः सागरतटे एव अभवत्। = श्रीराम और रावण का युद्ध श्रीलंका के सागरतट पर ही हुआ था। माता सीता अशोकवाटिकायाम् एव वासं कृतवती। = माता सीता ने अशोकवाटिका में ही वास किया। अशोकवाटिका श्रीलंकायामेव अस्ति। = अशोकवाटिका श्रीलंका में ही है। ह्यः श्रीलंकायाम् आतंकवादी दुर्घटना संजाता। = कल श्रीलंका में आतंकवादी दुर्घटना हुई। अष्ट स्थलेषु भयंकराः विस्फोटाः अभवन्। = आठ स्थानों पर भयंकर विस्फोट हुए। ख्रिस्तीपूजागृहेषु अपि विस्फोटाः अभवन्। = क्रिश्चियन पूजा घरों में भी विस्फोट हुए। द्विशतं जनाः दिवंगताः जाताः। = दो सौ लोग मारे गए। पञ्चशतं जनाः क्षतविक्षताः अभवन्। = पांच सौ लोग घायल हुए। वयं सर्वे एतस्य दुष्कृत्यस्य निन्दां कुर्मः। = हम सभी इस दुष्कृत्य की निंदा करते हैं। दिवंगतानाम् आत्मनः शान्त्यर्थं वयं प्रार्थयामहे। = दिवंगतों की आत्मा की शांति के लिए प्रार्थना करते हैं। क्षताः जनाः शीघ्रमेव स्वस्थाः भवन्तु। = घायल लोग शीघ्र ही स्वस्थ हों। ओ३म् 657. संस्कृत वाक्याभ्यासः इटली देशे सर्जियो फेड्रिगो निवसति। = इटली में सर्जियो फेड्रिगो रहते हैं। सः तत्र लोकाधिकारी अस्ति। = वह वहाँ लोकाधिकारी हैं। सः अनेकवारं भारतम् अपि आगतवान् अस्ति। = वह अनेक बार भारत भी आए हैं। अरविन्दाश्रमे सः निवासं कृतवान्। = अरविंद आश्रम में उन्होंने निवास किया। सः तत्र संस्कृताध्ययनं कृतवान्। = उसने वहाँ संस्कृत अध्ययन भी किया। सः सम्यक् संस्कृतं जानाति। = वह अच्छे से संस्कृत जानते हैं। सः इटली देशे अपि संस्कृताध्ययनं करोति। = वह इटली में भी संस्कृत अध्ययन करते हैं। तस्य गृहे अनेकानि संस्कृतपुस्तकानि सन्ति। = उसके घर में अनेक संस्कृत पुस्तकें हैं। ओ३म् 658. संस्कृत वाक्याभ्यासः दिनद्वयं किमपि न लिखितवान्। = दो दिन कुछ भी नहीं लिखा। श्वः आरभ्य पुनः संस्कृतलेखनं करिष्यामि। = कल से पुनः संस्कृत लेखन करूँगा। मम संकल्पः ” अहं मतदानम् अवश्यमेव करिष्यामि।” मेरा संकल्प – मैं मतदान अवश्य करूँगा” ओ३म् 659. संस्कृत वाक्याभ्यासः प्रयागराजे अनेके संस्कृतज्ञाः निवसन्ति। = प्रयागराज में अनेक संस्कृतज्ञ रहते हैं। अनेके संस्कृतकार्यकर्तारः अपि सन्ति। = अनेक संस्कृत कार्यकर्ता भी हैं। प्रयागराजे त्रिलोकीनाथः निवसति। = प्रयागराज में त्रिलोकीनाथ रहते हैं। सः मम मित्रम् अस्ति। = वह मेरे मित्र हैं। ह्यः त्रिलोकीनाथस्य दूरवाणी आगता। = कल त्रिलोकीनाथ का फोन आया। बहु सम्यक् संस्कृतवार्तालापः अभवत्। = बहुत ही अच्छा संस्कृत वार्तालाप हुआ। अहं लोकयाने आसम्। = मैं बस में था। आवयोः वार्तालापं सर्वे श्रृण्वन्ति स्म। = हम दोनों का संवाद सभी सुन रहे थे। केचन यात्रिणः संस्कृतसंवादस्य प्रशंसाम् अकुर्वन्। = कुछ यात्रियों ने संस्कृत संवाद की प्रशंसा की। “संस्कृतं बहु सरलम् अस्ति” इति जनाः उक्तवन्तः । = “संस्कृत बहुत सरल है” ऐसा लोग बोले। ओ३म् 660. संस्कृत वाक्याभ्यासः वृक्षस्य अधः वृद्धा तिष्ठति। = पेड़ के नीचे वृद्धा खड़ी है। सा स्यूतम् भूमौ स्थापयति। = वह थैला जमीन पर रखती है। करवस्त्रेण मुखं प्रौञ्छति। = रुमाल से मुँह पोंछती है। सा प्रस्वेदं प्रौञ्छति। = वह पसीना पोंछती है। एका षड्वर्षीया बालिका तां वृद्धां पश्यति। = एक छः वर्ष की बच्ची उस वृद्धा को देखती है। सा बालिका विद्यालयतः गृहं गच्छति। = वह बच्ची विद्यालय से घर जा रही है। बालिकायाः पार्श्वे जलम् अस्ति। = बच्ची के पास पानी है। बालिका वृद्धायै जलं ददाति। = बच्ची वृद्धा को पानी देती है। बालिका अवदत् – “मातः ! मम पिता मां नेतुम् आगमिष्यति।” = बच्ची बोली – माँजी ! मेरे पिताजी मुझे लेने आएँगे। बालिका – “भवती मया सह चलतु।” = आप मेरे साथ चलियेगा सा वृद्धा बालिकायै आशीर्वादान् ददाति। = वह वृद्धा बच्ची को आशीर्वाद देती है। ओ३म् 661. संस्कृत वाक्याभ्यासः द्वारपालः – कुत्र गन्तुम् इच्छति ? = कहाँ जाना चाहते हैं ? अतिथिः – एतस्मिन् आवासपरिसरे मम मातुलः निवसति। = इस कॉलोनी में मेरे मामाजी रहते हैं। द्वारपालः – भवतः मातुलस्य नाम किम् ? = आपके मामाजी का नाम क्या है ? अतिथिः – मम मातुलस्य नाम हरिसिंहः । = मेरे मामाजी का नाम हरिसिंह है। द्वारपालः – गृहस्य क्रमांकः कः ? = घर का नम्बर क्या है ? अतिथिः – सप्तत्रिंशत्। (सप्तत्रिंशत्तमम्) = सैंतीस (सैंतीसवाँ ) द्वारपालः – भवतः परिचयः !!! = आपका परिचय !!! अतिथिः – स्वीकरोतु मम आधारपत्रम् …. = लीजिये मेरा आधार कार्ड …. – मम नाम रणसिंहः । = मेरा नाम रणसिंह है। – अहं सैनिकः अस्मि। = मैं सैनिक हूँ। द्वारपालः – ओह .. भवान् सैनिकः … = ओह .. आप सैनिक हैं …. द्वारपालः रणसिंहं मातुलस्य गृहं पर्यन्तं नयति। = द्वारपाल रणसिंह को मामाजी के घर तक ले जाता है। ओ३म् 662. संस्कृत वाक्याभ्यासः सभागारे सर्वे कार्यकर्तारः सम्मिलिताः अभवन्। = सभागार में सभी कार्यकर्ता मिले । उत्पीठिकायां दीपं स्थापितवन्तः। = टेबल पर दीप रखा। श्रोतारः स्थाने उपविष्टवन्तः । = श्रोता जगह पर बैठ गए। अनन्तरम् अतिथयः आगतवन्तः। = बाद में अतिथि आए। सर्वे अतिथयः दीपं प्रज्ज्वालितवन्तः। = सभी अतिथियों ने दीप प्रकट किया। अनन्तरम् ……. पीयूषः श्रीरामचन्द्रस्य विषये व्यख्यानं दत्तवान्। = पीयूष ने श्रीरामचंद्र के विषय पर व्यख्यान दिया। सः श्रीरामस्तोत्रम् अपि पठितवान्। = उसने श्रीरामस्तोत्र भी पढ़ा। अनन्तरं प्रेमलता कौरः वैशाखी विषये व्याख्यानं दत्तवती। = बाद में प्रेमलता कौर ने वैशाखी के बारे में व्याख्यान दिया। सा एकं पंजाबीगीतम् अपि गीतवती। = उसने एक पंजाबी गाना भी गाया। अनन्तरं पूर्णा भगिनी उत्थितवती। = उसके बाद पूर्णा बहन खड़ी हुई । पूर्णा विशुपर्वणः माहात्म्यम् उक्तवती। = पूर्णा ने विशु पर्व का माहात्म्य कहा। सा एकं तमिळगीतं, एकं मलयालीगीतं च गीतवती। = उसने एक तमिळगीत और एक मलयाली गीत गाया। अनन्तरं हीरजीभ्राता उत्थितवान्। = बाद में हीरजीभाई खड़े हुए। हीरजीभ्राता बाबासाहेब अम्बेडकरस्य जीवनदर्शनं बोधितवान्। = हीरजीभाई ने बाबासाहेब अम्बेडकर का जीवनदर्शन समझाया। सर्वे संस्कृतकार्यकर्तारः एकस्मिन्नेव सभागारे सर्वाणि पर्वाणि आचरितवन्तः। = सभी संस्कृतकार्यकर्ताओं ने एक ही सभागार में सारे पर्व मना लिये। ओ३म् 663. संस्कृत वाक्याभ्यासः योगिता – अद्य सर्वे माम् आहूतवन्तः । = आज सबने मुझे बुलाया । दीपिका – आं मामपि सर्वे आहूतवन्तः। = हाँ मुझे भी सबने बुलाया। योगिता – किमर्थं भोः ? = क्यों जी ? दीपिका – अद्य चैत्र नवरात्र्याः *आठम* अस्ति। = आज चैत्र नवरात्रि की *आठम* है। योगिता – ओह …. आठम न , अष्टमी उच्च्यते। = ओह … आठम नहीं , अष्टमी कहते हैं। दीपिका – एवं वा ?? अद्य अष्टमी तिथिः अस्ति। = ऐसा क्या ?? आज अष्टमी तिथि है। योगिता – आम् , जनाः कन्याः आह्वयन्ति। = हाँ , लोग कन्याओं को बुलाते हैं। – कन्यानाम् सम्मानं कुर्वन्ति। = कन्याओं का सम्मान करते हैं । दीपिका – भोजनं खादयन्ति। = भोजन खिलाते हैं। योगिता – कन्याभ्यः पारितोषिकं यच्छन्ति। = कन्याओं को भेंट देते हैं। दीपिका – अस्माकं समाजे पुत्रीभ्यः बहु आदरः दीयते। = हमारे समाज में पुत्रियों को बहुत आदर दिया जाता है। योगिता – आं … वयमपि आदरोचितं कार्यं करिष्यामः। = हाँ … हम भी आदर के योग्य काम करेंगे। ओ३म् 664. संस्कृत वाक्याभ्यासः नीरवस्य भार्या मातृगृहं गतवती अस्ति। = नीरव की पत्नी मायके गई है। प्रातःकाले सः उद्याने पादपेभ्यः जलं ददाति। = प्रातःकाल वह उद्यान में पौधों को जल देता है। गोपालः दुग्धम् आनयति। = ग्वाला दूध लाता है। नीरवः दुग्धं स्वीकरोति। = नीरव दूध लेता है। नीरवः दुग्धम् ऊष्णं करोति। = नीरव दूध गरम करता है। दुग्धं पीत्वा सः कार्यालयं गच्छति। = दूध पीकर वह कार्यालय जाता है। सायंकाले सः गृहं प्रत्यागच्छति तदा गृहात् बहिः बालकाः बालिकाश्च आसन्। = शाम को वह घर लौटता है तब घर के बाहर बच्चे बच्चियाँ थे। बालकाः अपृच्छन् – “अस्माकं भगिनी कुत्र अस्ति ?” = बच्चों ने पूछा – “हमारी दीदी कहाँ है?” सा अस्मान् उद्याने क्रीडयति। = वह हमें बगीचे में खिलाती है। नीरवः – “अधुना ज्ञातम्” = अब पता चला – उद्याने जलं दातुं सा किमर्थं सूचितवती !!! = बगीचे में पानी देने के लिये उसने सूचना क्यों दी थी। नीरवः – भो: बालकाः! आगच्छन्तु सर्वे बालकाः नीरवस्य उद्याने क्रीडन्ति । = सभी बच्चे नीरव के बगीचे में खेलते हैं क्रीडासमापने ते गीतं गायन्ति। = खेल के समापन पर वे गीत गाते हैं “वयं बालकाः भारतभक्ताः……” नीरवः प्रसन्नः भवति , सर्वेभ्यः बालकेभ्यः शीतयष्टिं ददाति। = नीरव खुश होता है , सभी बच्चों को कुल्फी देता है। ओ३म् 665. संस्कृत वाक्याभ्यासः धनञ्जयः अधुना हरिद्वारे अस्ति। = धनंजय इस समय हरिद्वार में है। सः परिवारजनैः सह हरिद्वारं गतवान् अस्ति। = वह परिवारजनों के साथ हरिद्वार गया है। अद्य प्रातः सः गङ्गानद्यां स्नानं कृतवान्। = आज प्रातः उसने गङ्गा नदी में स्नान किया। परिवारस्य सर्वे जनाः स्नानं कृतवन्तः। = परिवार के सभी लोगों ने स्नान किया। अधुना सः ज्वालापुरं गच्छति। = अभी वह ज्वालापुर जा रहा है। ( ते गच्छन्ति – वे जा रहे हैं ) जवालापुरे सः यज्ञं करिष्यति। = जवालापुर में वह यज्ञ करेगा। ( ते करिष्यन्ति – वे करेंगे ) जवालापुरतः सः ऋषिकेशं गमिष्यति। = जवालापुर से वह ऋषिकेश जाएगा। ( ते गमिष्यन्ति – वे जाएँगे ) धनञ्जयः ऋषिकेशे स्वामिनः प्रवचनं श्रोष्यति। = धनंजय ऋषिकेश में स्वामी जी का प्रवचन सुनेगा। परिवारस्य सर्वे जनाः प्रवचनं श्रोष्यन्ति। = परिवार के सभी लोग प्रवचन सुनेंगे। सः त्रीणि दिनानि पर्यन्तं हरिद्वारे स्थास्यति। = वह तीन दिन तक हरिद्वार में रुकेगा। ( ते स्थास्यन्ति – वे रुकेंगे ) ओ३म् 666. संस्कृत वाक्याभ्यासः मार्गे शिवाभगिनी मिलितवती। = रास्ते में शिवा बहन मिली। सा द्विचक्रीयानं चालयति स्म। = वह स्कूटर चला रही थी। * सा केन सह आसीत् ? = वह किसके साथ थी ? सा पुत्रेण सह आसीत्। = वह पुत्र के साथ थी। * शिवाभगिनी कुतः आगच्छति स्म ? = शिवा बहन कहाँ से आ रही थी ? सा पुत्रं नेतुं विद्यालयं गतवती आसीत्। = वह पुत्र को लेने विद्यालय गई थी। शिवाभगिनी कुत्र गच्छति स्म ? = शिवा बहन कहाँ जा रही थी ? शिवाभगिनी स्वगृहं गच्छति स्म। = शिवा बहन अपने घर जा रही थी। शिवाभगिनी मां दृष्ट्वा अवदत् – “नमो नमः” = शिवा बहन मुझे देखकर बोली -नमो नमः। ” कथम् अस्ति भवान् ?” = कैसे हैं आप ? अहम् उत्तरं दत्तवान् “अहं कुशली अस्मि” = मैंने उत्तर दिया “मैं ठीक हूँ” मार्गे अपि संस्कृतसम्वादः भवति। = रास्ते में भी संस्कृत सम्वाद होता है। ओ३म् 667. संस्कृत वाक्याभ्यासः अहम् – चिकित्सकः पीड़ा पीड़ाहरम् औषधं दत्तवान्। = चिकित्सक ने पीड़ा हरने वाली औषधि दी। मम भार्या – किं नाम औषधस्य ? = औषधि का नाम क्या है ? अहम् – कॉम्बिफ्लेम …. मम भार्या – ओह न … मा स्वीकरोतु। = ओह नहीं … मत लीजिये। एषा तु एलोपैथिक गुलिका अस्ति। = ये तो एलोपैथिक गोली है। अहम् – तर्हि किम् अभवत् ? = तो क्या हो गया ? मम भार्या – नैव , अहं होम्योपैथी औषधं ददामि। = नहीं मैं होम्योपैथिक औषधि देती हूँ। – तेन बहु लाभः भविष्यति। = उससे बहुत लाभ होगा। – औषधस्य दुष्प्रभावः अपि न भविष्यति। = औषधि की साइड इफेक्ट भी नहीं होगी। अहम् – एवं खलु ? तर्हि देहि । = ऐसा है क्या ? तो दे दो । मम भार्यायै होम्योपैथी औषधं बहु रोचते। = मेरी पत्नी को होम्योपैथी दवा बहुत पसंद है। ओ३म् 668. संस्कृत वाक्याभ्यासः ह्यः अहं गोशालायां सेवां कुर्वन् आसम्। = कल मैं गौशाला में सेवा कर रहा था। यानात् तृणानि अवतारयामि स्म। = वाहन से घास उतार रहा था। अहम् अधिकम् उत्साहे आसम् । = मैं अधिक उत्साह में था। अहं तृणगुच्छं बलेन कर्षितवान्। = मैंने घास का गुच्छा बल से खींचा। गुच्छं तु बहिः आगतम् । = गुच्छा तो बाहर आ गया। अहं भूमौ पतितवान्। = मैं भूमि पर गिर गया। तदानीमेव चिकित्सालयं गतवान्। = उसी समय चिकित्सालय गया। ह्यः आदिनम् आरात्रिः विश्रामं कृतवान्। = कल पूरा दिन , पूरी रात विश्राम किया। अधुना पीड़ा काचित् न्यूना अस्ति। = अभी पीड़ा कुछ कम है। दक्षिणे हस्ते पीड़ा भवति। दाहिने हाथ में पीड़ा है। संस्कृतसम्वादः न भवति चेत् सुखं न अनुभवामि। = संस्कृत सम्वाद नहीं होता है तो सुख अनुभव नहीं करता हूँ।ओ३म् ह्यः अहं गोशालायां सेवां कुर्वन् आसम्। = कल मैं गौशाला में सेवा कर रहा था। यानात् तृणानि अवतारयामि स्म। = वाहन से घास उतार रहा था। अहम् अधिकम् उत्साहे आसम् । = मैं अधिक उत्साह में था। अहं तृणगुच्छं बलेन कर्षितवान्। = मैंने घास का गुच्छा बल से खींचा। गुच्छं तु बहिः आगतम् । = गुच्छा तो बाहर आ गया। अहं भूमौ पतितवान्। = मैं भूमि पर गिर गया। तदानीमेव चिकित्सालयं गतवान्। = उसी समय चिकित्सालय गया। ह्यः आदिनम् आरात्रिः विश्रामं कृतवान्। = कल पूरा दिन , पूरी रात विश्राम किया। अधुना पीड़ा काचित् न्यूना अस्ति। = अभी पीड़ा कुछ कम है। दक्षिणे हस्ते पीड़ा भवति। दाहिने हाथ में पीड़ा है। संस्कृतसम्वादः न भवति चेत् सुखं न अनुभवामि। = संस्कृत सम्वाद नहीं होता है तो सुख अनुभव नहीं करता हूँ। ओ३म् 669. संस्कृत वाक्याभ्यासः नवसम्वत्सरे भवेत् नूतनं चिन्तनम् । नवसम्वत्सरे भवेत् नूतनम् अध्ययनम् । प्राप्नुवन्तु सर्वे नवउल्लासम् । प्राप्नुवन्तु सर्वे नवचैतन्यम् । हर्षमयं विषादरहितं भवतु सर्वेषां जीवनम्। सुसंस्कारः सुविचारः भवेत् सर्वेषां लक्ष्यम् । नवसम्वत्सरस्य कोटिशः शुभाशयाः। ओ३म् 670. संस्कृत वाक्याभ्यासः कच्छ जनपदे वर्षा न अभवत्। = कच्छ जिले में वर्षा नहीं हुई। सर्वत्र जलं कुञ्चति। सब जगह पानी कम हो रहा है। सरोवरेषु जलं नास्ति। = डैमों में जल नहीं है। तड़ागेषु जलं नास्ति। = तालाबों में पानी नहीं है। कूपेषु अपि जलं कुञ्चति। = कुओं में भी पानी कम हो रहा है। तथापि केचन जनाः जलस्य अपव्ययं कुर्वन्ति। = फिर भी कुछ लोग जल का अपव्यय करते हैं। व्यर्थमेव जलं प्रवाहयन्ति। = व्यर्थ में जल बहाते हैं। जलं तु संरक्षणीयम् । = जल की तो रक्षा करनी चाहिये। आषाढ़मासे वर्षा भविष्यति इति वयम् आशास्महे। = आषाढ़ महीने में वर्षा होगी ऐसी हम आशा करते हैं। सर्वे सरोवराः जलमग्नाः भवन्तु। = सभी सरोवर जल से भर जाएँ। ओ३म् 671. संस्कृत वाक्याभ्यासः विनयः विद्यालययानं चालयति। = विनय स्कूल बस चलाता है। याने पञ्चविंशतिः छात्राः उपवेष्टुं शक्नुवन्ति। = बस में पच्चीस छात्र बैठ सकते हैं। विनयः छात्रैः सह संस्कृते वार्तालापं करोति। = विनय छात्रों के साथ संस्कृत में बात करता है। “आगच्छ … दीपक !” “लोकेश ! हस्तम् अन्तः कुरु” “तव हस्तः वातायनात् बहिः अस्ति” का अपि माता पृच्छति तर्हि सः संस्कृते एव उत्तरं ददाति। = कोई भी माँ पूछती है तो वह संस्कृत में उत्तर देता है। “आं भगिनि ! मध्याह्ने आनेष्यामि” “आं मम याने जलम् अस्ति।” यदा सः विद्यालयं प्राप्नोति तदा…. = जब वह विद्यालय पहुँचता है तब …. “विद्यालयः आगतः” “अवतरन्तु सर्वे” ओ३म् 672. संस्कृत वाक्याभ्यासः सपादअष्टवादने गृहात् निर्गन्तव्यम् आसीत्। = सवा आठ बजे घर से निकलना था। पञ्चदश निमेषाणां विलम्बः अभवत्। = पंद्रह मिनट की देरी हो गई। अहं सार्ध अष्टवादने गृहात् निर्गतवान् । = मैं साढ़े आठ बजे घर से निकला। पूर्वनिर्धारितं स्थानं समये न प्राप्तवान्। = पहले से निश्चित स्थान पर समय पर नहीं पहुँचा। अतः यानं तु गतम्। = अतः वाहन तो गया। अहं किं करवाणि ? = मैं क्या करूँ ? ओह … मम मित्राणि तु अत्रैव सन्ति। = ओह … मेरे मित्र तो यहीं हैं। तर्हि यानं कुत्र अस्ति ? = तो फिर वाहन कहाँ है ? मम एकेन मित्रेण सूचितं – “यानम् ईंधनं पूरयितुं गतम्।” = मेरे एक मित्र ने सूचित किया – “वाहन ईंधन भराने गया है।” चिन्ता मास्तु। = चिंता मत करिये। भवन्तं विना वयं न गमिष्यामः। = आपके बिना हम नहीं जाएंगे। ओ३म् 673. संस्कृत वाक्याभ्यासः सुरेशः कारयानं गृहात् बहिः स्थापयति। = सुरेश कार को घर के बाहर खड़ी करता है। गृहाङ्गणे स्थानं नास्ति। = घर के आँगन में स्थान नहीं है। रात्रौ कारयानस्य काच भग्नं जातम्। = रात में कार का काँच टूट गया। कथं भग्नं जातम् ? कोsपि न जानाति। = कैसे टूट गया ? कोई नहीं जानता है। कः भग्नं कृतवान् ? कोsपि न जानाति। = किसने तोड़ा ? कोई नहीं जानता है। सुरेशः सर्वान् पृच्छति। = सुरेश सबको पूछता है। भवान् दृष्टवान् वा ? (पुलिङ्ग) = आपने देखा क्या ? भवती दृष्टवती वा ? (स्त्रीलिंग) = आपने देखा क्या ? सर्वे वदन्ति – “अहं न जानामि।” = सब बोलते हैं – मैं नहीं जानता हूँ। (वयं न जानीमः – हम नहीं जानते हैं ) सुरेशः समाधातुं कारयानं नयति। = सुरेश रिपेरिंग के लिये कार ले जाता है। सः यानं यानालयं नयति। = वह गाड़ी को गैरेज में ले जाता है। ओ३म् 674. संस्कृत वाक्याभ्यासः अन्तरिक्षवैज्ञानिकाः प्रतिदिनं कार्यरताः सन्ति। = अंतरिक्ष वैज्ञानिक प्रतिदिन कार्यरत हैं। ते प्रतिदिनं नूतनम् अन्वेषणं कुर्वन्ति। = वे प्रतिदिन नई खोज करते हैं। वातावरणस्य अध्ययनार्थम् उपग्रहं प्रेषयन्ति। = वातावरण के अध्ययन के लिये उपग्रह छोड़ते हैं। दूरसंचारार्थम् उपग्रहं प्रेषयन्ति। = दूरसंचार के लिये उपग्रह भेजते हैं। यातायातस्य नियंत्रणार्थम् उपग्रहं प्रेषयन्ति। = यातायात के नियंत्रण के लिये उपग्रह भेजते हैं। केचन उपग्रहाः गुप्तचररूपेण अपि कार्यं कुर्वन्ति। = कुछ उपग्रह जासूस के रूप में भी काम करते हैं। अन्तरिक्षे उपग्रहं प्रेषयितुं प्रक्षेपकं भवति। = अंतरिक्ष में उपग्रह भेजने के लिये प्रक्षेपक होता है। प्रक्षेपके ते उपग्रहान् स्थापयन्ति। = लॉन्चर पर उपग्रहों को रखते हैं। प्रक्षेपकं उपग्रहान् नीत्वा उड्डयते। = लॉन्चर उपग्रहों को लेकर उड़ता है। यदा प्रक्षेपकम् अन्तरिक्षकक्षायां प्राप्नोति तदा उपग्रहम् अग्रे नुदति। = जब लॉन्चर ऑर्बिट में पहुँचता है तब उपग्रह को आगे फेंकता है। अनन्तरम् उपग्रहः परिक्रमापथि परिभ्रमति। = बाद में उपग्रह परिक्रमा पथ पर घूमता है। इसरो वैज्ञानिकेभ्यः कोटिशः अभिनन्दनानि। ओ३म् 675. संस्कृत वाक्याभ्यासः किमर्थम् ?? किमर्थम् अभ्यासं न करोति ? सः किमर्थं हसति ? सा किमर्थं वस्त्राणि न प्रक्षालयति ? सः आँग्लगीतं किमर्थं श्रृणोति ? शास्त्रीयगीतं किमर्थं न श्रृणोति ? सः किमर्थं विलम्बेन शयनं करोति ? सा किमर्थं क्रुद्धा भवति ? एषः किमर्थं वारं वारं धनं गणयति ? एषा बालिका किमर्थं रोदिति ? भवान् किमर्थं विलम्बेन पाठं लिखति ? ओ३म् 676. संस्कृत वाक्याभ्यासः पिता – प्रत्यागच्छ …. = वापस आ जाओ। ( लौट आओ) * अग्रे मा गच्छ … = आगे मत जाओ .. * ओ … बालक ! न श्रूयते वा ?? = ओ … बालक ! नहीं सुनाई दे रहा है क्या ? * माता दुग्धम् ऊष्णं कृतवती। = माँ ने दूध गरम कर दिया है। * दुग्धं पीत्वा गच्छ। = दूध पीकर जाओ। पुत्रः – नैव तात ! अद्य मार्च मासस्य अन्तिमं दिनम् अस्ति। = नहीं पिताजी ! आज मार्च महीने का अंतिम दिन है। ** शीघ्रमेव गन्तव्यम् अस्ति। = जल्दी से जाना है। पिता – अधिकः विलम्बः न भविष्यति। = अधिक देर नहीं होगी। मातुः संतोषाय दुग्धं पिब। = माँ के संतोष के लिये दूध पी लो । – अन्यथा सायंकाल प्रयन्तं सा भोजनं न करिष्यति। = अन्यथा शाम तक वो भोजन नहीं करेगी। पुत्रः द्वारात् प्रत्यागच्छति … = बेटा दरवाजे से वापस आता है। दुग्धं पिबति। = दूध पीता है। अनन्तरं कार्यालयं गच्छति। = बाद में कार्यालय जाता है। ओ३म् 677. संस्कृत वाक्याभ्यासः * महोदयः आगतवान् । * चायम् आनयतु * शीघ्रम् ** आम् , आनयामि । * किमर्थं विलम्बः ? ** दुग्धं नास्ति। * तर्हि हरितचायं आनयतु। ** आम् आनयामि ** महोदयाय हरितचायं रोचते। * मम कृते अपि हरितचायम् आनयतु। ओ३म् 678. संस्कृत वाक्याभ्यासः कार्यालयस्य सेविका प्रातः सप्तवादने कार्यालयम् आगतवती। = कार्यालय की सेविका प्रातः सात बजे कार्यालय आ गई। सा कार्यालयम् उद्घाटितवती। = उसने कार्यालय खोला। सा सर्वत्र स्वच्छतां कृतवती। = उसने सब जगह स्वच्छता की। सा सर्वाणि पात्राणि प्रक्षालितवती। = उसने सारे पात्र साफ किये। सा घटे जलम् अपि पूरितवती। = उसने घड़े में पानी भी भर दिया। अनन्तरं सा कार्यालयं पिहितवती। = उसके बाद उसने कार्यालय बन्द कर दिया। सा गृहं गतवती। = वह घर गई। प्रबंधकं दूरवाणीं कृतवती। = प्रबंधक को फोन किया। सा सूचितवती। = उसने सूचित किया। महोदय ! मम पुत्रस्य स्वास्थ्यं सम्यक् नास्ति। = सर , मेरे पुत्र का स्वास्थ्य ठीक नहीं है। अहं कार्यालये स्वच्छतां कृतवती। = मैंने ऑफिस में सफाई कर दी है। दशवादने मम पुत्रं चिकित्सालयं नेष्यामि। = दस बजे मेरे बेटे को चिकित्सालय ले जाउँगी। अतः अद्य शीघ्रमेव कार्यालयस्य कार्यं कृतवती अहम्। = अतः आज मैंने जल्दी से कार्यालय की सफाई कर दी है। सायं चतुर्वादने पुनः आगमिष्यामि। = शाम चार बजे पुनः आ जाउँगी। प्रबंधकः तस्याः कार्यनिष्ठां श्रुत्वा ( दृष्ट्वा) प्रसन्नः अभवत्। = प्रबंधक उसकी कार्यनिष्ठा को सुनकर ( देखकर) खुश हुआ। ओ३म् 679. संस्कृत वाक्याभ्यासः मार्गे गुणजी भ्राता मिलितवान्। = मार्ग में गुणजीभाई मिले। गुणजीभ्राता अजापालकः अस्ति। = गुणजी भाई बकरी पालक है। सः अजान् चारयति । = वह बकरियों को चराता है। स्कन्धे दण्डं स्थापयित्वा सः अजान् चारयति। = कंधे पर डंडा रखकर वह बकरियाँ चराता है। अजाः अग्रे अग्रे चलन्ति। = बकरियाँ आगे आगे चलती हैं। गुणजी पृष्ठे पृष्ठे चलति। = गुणजी पीछे पीछे चलता है। अजाः विविधानां वृक्षाणां पर्णानि खादन्ति। = बकरियाँ विविध वृक्षों के पत्ते खाती हैं। गुणजी एकाम् अजां दोग्धि। = गुणजी एक बकरी को दुहता है। सः अजायाः दुग्धं माम् अपाययत्। = उसने मुझे बकरी का दूध पिलाया । अजायाः दुग्धं मधुरम् आसीत्। =बकरी का दूध मीठा था। अस्तु , गुणजी धन्यवादः । पुनः मिलामः। ओ३म् 680. संस्कृत वाक्याभ्यासः समाचारपत्रेषु आक्षेपयुक्तान् समाचारान् वयं पठामः। = समाचारपत्रों में आक्षेप वाले समाचार हम पढ़ते हैं। सर्वे नेतारः परस्परं निन्दन्ति । = सभी नेता आपस में निंदा करते हैं। सः कार्यं न अकरोत्। = उसने काम नहीं किया। सः भ्रष्टाचारं कृतवान्। = उसने भ्रष्टाचार किया। सः जनानां मध्ये कलहं कारितवान्। = उसने लोगों के बीच झगड़े करवाए। सः किमपि न जानाति। = वह कुछ नहीं जानता है। सः निर्धनानां कार्यं न करोति। = वह निर्धनों का काम नहीं करता है। निर्वाचनसमये बहुविधानि वचनानि वदति। = चुनाव के समय वह बहुत प्रकार के वचन देता है। सत्तायाम् आगत्य सः वचनपालनं न करोति। = सत्ता में आकर वह वचनपालन नहीं करता है। केवलं निन्दागानमेव भवति समाचारेषु। = समाचारों में केवल निंदागान ही होता है। अतएव समाचारपत्रं पठितुं मनः न भवति। = इसलिये समाचारपत्र पढ़ने का मन नहीं करता है। ओ३म् 681. संस्कृत वाक्याभ्यासः धनविषये प्रवचनं श्रुतवान् अहम्। = मैंने धन के बारे में प्रवचन सुना । प्रवचनकारः प्रश्नान् पृष्टवान्। = प्रवचनकार ने प्रश्न पूछे। दिवसे कति घण्टा-पर्यन्तं कार्यं करोति ? = दिन में धन कमाने के लिये कितने घंटे काम करते हो ? स्वस्थ्याय कियत् समयं ददाति ? = स्वास्थ्य को कितना समय देते हो ? परिवाराय कियत् समयं ददाति ? = परिवार को कितना समय देते हो ? समाजाय कियत् समयं ददाति ? = समाज को कितना समय देते हो ? स्वाध्यायं करोति खलु ? = स्वाध्याय करते हो न ? प्रकृत्याः दर्शनं कदा करोति ? = प्रकृति का दर्शन कब करते हो ? सर्वदा धनस्य चिन्तनं न करणीयम् । = हमेशा धन का ही चिन्तन नहीं करना चाहिये। राष्ट्रस्य चिन्तनम् आवश्यकं भवति। = राष्ट्र का भी चिन्तन आवश्यक होता है। ओ३म् 682. संस्कृत वाक्याभ्यासः वायनाडस्य विषये पठामि स्म। = वायनाड के बारे में पढ़ रहा था। वायनाडस्य चित्राणि अपि दृष्टवान् अहम्। = मैंने वायनाड के चित्र भी देखे। राहुल गाँधी वायनाडतः प्रत्याशी भवितुम् इच्छति। = राहुल गाँधी वायनाड से उम्मीदवार बनना चाहते हैं। वायनाडस्य विषये बहु दीर्घं विवरणं मया पठितम्। = वायनाड के बारे में बहुत लम्बा विवरण मैंने पढ़ा। दर्शनीयानि स्थलानि कानि सन्ति ? = दर्शनीय स्थल कौनसे हैं ? एडक्कल गुहा एकम् ऐतिहासिकं स्थलम् अस्ति । = एडक्कल गुफा एक ऐतिहासिक स्थल है। बेगुर अभ्यारण्ये वयं विविधान् खगान् , पशून् च द्रष्टुं शक्नुमः। = बेगुर अभ्यारण में हम विविध पशुओं पक्षियों को देख सकते हैं। तत्र मीलमुट्टी जलप्रपातः अपि अस्ति। = वहाँ मीलमुट्टी जलप्रापत भी है। तथैव सूचिपारा जलप्रपातः अपि अस्ति। = उसी प्रकार से सूचिपारा जलप्रपात भी है। पर्वतात् जलं वेगेन पतति। = पर्वत से बहुत तेजी से जल गिरता है। बानासुरासागर नामकः विशालः सरोवरः अस्ति । = बानासुरा सागर नाम का विशाल सरोवर है। थिरुनेल्ली मन्दिरम् अपि दर्शनीयं स्थलम् अस्ति। = थिरुनेल्ली मंदिर भी दर्शनीय स्थल है। चेम्बरा शिखरं जनाः आरोहन्ति। = चेम्बरा शिखर पर लोग चढ़ते हैं। केरलस्य वायनाड जनपदे अनेकानि दर्शनीयानि स्थलानि सन्ति। = केरल के वायनाड जिले में अनेक दर्शनीय स्थल हैं। किं किं लिखानि ? = क्या क्या लिखूँ ? वायनाड विषये बहुविधं पठितं , बहुविधं दृष्टम् अद्य । = आज वायनाड के बारे में बहुत कुछ पढ़ा , बहुत कुछ देखा। ओ३म् 683. संस्कृत वाक्याभ्यासः दक्षिण-अमेरिका-महाद्वीपे सूरीनाम नामकः देशः अस्ति। = दक्षिण अमेरिका महाद्वीप में सूरीनाम नामक देश है। द्विशतं वर्षेभ्यः पूर्वं भारतीयाः जनाः तत्र प्रेषिताः। = दो सौ वर्ष पहले भारतीयों को वहाँ भेजा गया था। विशेषतः बिहारस्य जनाः तत्र नीताः । = विशेषरूप से बिहार के लोग वहाँ ले जाए गए। सूरीनाम्नि अनेके भारतीयाः निवसन्ति। = सूरीनाम में अनेक भारतीय रहते हैं। ते भोजपुरीभाषायां वदन्ति। = वे भोजपुरी भाषा में बोलते हैं। विदेशीयाः जनाः अपि भोजपुरीभाषां जानन्ति। = विदेशी लोग भी भोजपुरी जानते हैं। सूरीनाम्नः राजधानी पारामारिबो नगरे अस्ति। = सूरीनाम की राजधानी पारामारिबो शहर में है। अत्र अनेकानि मन्दिराणि सन्ति। = यहाँ अनेक मन्दिर हैं। आर्यसमाजस्य मन्दिरम् अपि अस्ति। = आर्यसमाज का मंदिर भी है। अत्र प्रतिदिनं यज्ञं क्रियते । = यहाँ प्रतिदिनं यज्ञ किया जाता है। अत्र संस्कृतम् अपि पाठ्यते। = यहाँ संस्कृत भी पढ़ाई जाती है। ओ३म् 684. संस्कृत वाक्याभ्यासः ह्यः एकः निर्धनः बालकः वीथ्यां भ्रमति स्म। = कल एक निर्धन बालक गली में घूम रहा था। सर्वे होली खेलन्ति स्म। = सब होली खेल रहे थे। खेलन्तः बालकाः तस्य उपरि वर्णं क्षिप्तवन्तः। = खेलते हुए बच्चों ने उस पर रंग फेंका। सः निर्धनः बालकः प्रसन्नः अभवत्। = वह निर्धन बच्चा खुश हो गया। सः अवदत् – मम पार्श्वे वर्णः नास्ति। = वह बोला – मेरे पास रङ्ग नहीं है। बालकाः अवदन् – आगच्छ वयं दद्मः। = बच्चे बोले – आओ हम देते हैं। बालकाः तम् अङ्गणे आनीतवन्तः। = बच्चे उसको आँगन में ले आए। सः निर्धनः बालकः सर्वैः सह होली खेलितवान्। = उस निर्धन बच्चे ने सबके साथ होली खेली। होलीखेलन अनन्तरं बालकानां माता वस्त्राणि आनीतवती। = होली खेलने के बाद बच्चों की माता वस्त्र लाई। सा निर्धनाय बालकाय वस्त्राणि दत्तवती। = उसने निर्धन बालक को वस्त्र दिये। सः निर्धनः बालकः वस्त्राणि अधारयत्। = उस बच्चे ने वस्त्र पहन लिये। सा माता तस्मै भोजनम् अपि दत्तवती। = उस माँ ने उसे भोजन भी दिया। सः निर्धनः बालकः हसन् स्वगृहं गतवान्। = वह निर्धन बालक हँसते हुए घर गया। ओ३म् 685. संस्कृत वाक्याभ्यासः संजयः वर्णलेपनात् बिभेति। = संजय रंग लगाने से डरता है। सः गृहात् बहिः न आगच्छति। = वह घर से बाहर नहीं आ रहा है। चलन्तु संजयस्य गृहं चलामः। = चलिये संजय के घर चलते हैं। सर्वे संजयस्य गृहं गच्छन्ति। = सभी संजय के घर जाते हैं। तस्य गृहस्य बहिः स्थित्वा सर्वे संस्कृतगीतानि गायन्ति। = उसके घर के बाहर खड़े होकर सभी संस्कृत गीत गाते हैं। संजयः वातायनात् बहिः पश्यति। = संजय खिड़की से बाहर देखता है। सर्वेषां मुखे किञ्चिदेव वर्णः आसीत्। = सबके मुख पर थोड़ा ही रंग था। संजयः गृहात् बहिः आगच्छति। = संजय घर से बाहर आता है। सर्वे तस्य मुखे अङ्गुलिद्वयं परिमितं वर्णं लिमपन्ति। = सभी उसके मुख पर दो उँगली जितना ही रंग लगाते हैं। संजयः अपि तथैव करोति। = संजय भी वैसा ही करता है। सर्वे संस्कृतगीतानि गायन्तः सर्वे अग्रे वर्धन्ते। = सभी संस्कृत गीत गाते हुए आगे बढ़ते हैं। ” रे रे मित्र बहिरागच्छ , संस्कृतहोली खेलेम “ ओ३म् 686. संस्कृत वाक्याभ्यासः संजयः वर्णलेपनात् बिभेति। = संजय रंग लगाने से डरता है। सः गृहात् बहिः न आगच्छति। = वह घर से बाहर नहीं आ रहा है। चलन्तु संजयस्य गृहं चलामः। = चलिये संजय के घर चलते हैं। सर्वे संजयस्य गृहं गच्छन्ति। = सभी संजय के घर जाते हैं। तस्य गृहस्य बहिः स्थित्वा सर्वे संस्कृतगीतानि गायन्ति। = उसके घर के बाहर खड़े होकर सभी संस्कृत गीत गाते हैं। संजयः वातायनात् बहिः पश्यति। = संजय खिड़की से बाहर देखता है। सर्वेषां मुखे किञ्चिदेव वर्णः आसीत्। = सबके मुख पर थोड़ा ही रंग था। संजयः गृहात् बहिः आगच्छति। = संजय घर से बाहर आता है। सर्वे तस्य मुखे अङ्गुलिद्वयं परिमितं वर्णं लिमपन्ति। = सभी उसके मुख पर दो उँगली जितना ही रंग लगाते हैं। संजयः अपि तथैव करोति। = संजय भी वैसा ही करता है। सर्वे संस्कृतगीतानि गायन्तः सर्वे अग्रे वर्धन्ते। = सभी संस्कृत गीत गाते हुए आगे बढ़ते हैं। ” रे रे मित्र बहिरागच्छ , संस्कृतहोली खेलेम सर्वे मिलित्वा गीतं गीत्वा संस्कृत होली खेलेम” ओ३म् 687. संस्कृत वाक्याभ्यासः ईश्वरभक्तः कदापि न बिभेति। = ईश्वर भक्त कभी नहीं डरता है। ईश्वरभक्तः सर्वदा सत्यानुग्रही भवति। = ईश्वर भक्त हमेशा सत्य का अनुग्रही होता है। प्रह्लादः ईश्वरभक्तः आसीत्। = प्रह्लाद ईश्वर भक्त थे। सन्त-तुकारामः ईश्वरभक्तः आसीत्। = संत तुकाराम ईश्वर भक्त थे। सन्त ज्ञानेश्वरः ईश्वरभक्तः आसीत्। = संत ज्ञानेश्वर ईश्वर भक्त थे। स्वामी दयानन्दः ईश्वरभक्तः आसीत्। = स्वामी दयानन्द ईश्वर भक्त थे। ईश्वरभक्तः कष्टात् न बिभेति। = ईश्वर भक्त कष्ट से नहीं डरता है। ईश्वरभक्तः न्यायात् पथः विचलितः न भवति। = ईश्वर भक्त न्याय के रास्ते से विचलित नहीं होता है। अद्य होलिकोत्सवः अस्ति। = आज होलिकोत्सव है। परमेश्वरः सर्वेषां कल्याणं करिष्यति। = परमेश्वर सबका कल्याण करेंगे। सर्वेभ्यः होलिकोत्सवस्य मङ्गलकामनाः। ओ३म् 688. संस्कृत वाक्याभ्यासः तस्याः गृहं प्रतिदिनं सेविका आगच्छति। = उसके घर प्रतिदिन सेविका आती है। सा प्रतिदिनं पात्राणि मार्जयति। = वह हररोज़ बर्तन माँजती है। मार्जनात् पूर्वं सा उच्छिष्टम् अन्नं धेनुपात्रे स्थापयति। = माँजने से पहले वह बचा हुआ भोजन गौपात्र में रखती है। सा अद्य स्वामिनीम् उक्तवती। = वह आज मालकिन से बोली। सेविका – भगिनि ! प्रतिदिनं भोजनं त्यज्यते। = दीदी ! हररोज़ खाना छोड़ा जाता है। किमर्थं सम्पूर्णं भोजनं न खादन्ति सर्वे ? = सभी लोग पूरा भोजन क्यों नहीं खाते ? * बुभुक्षानुसारं भोजनं स्वीकरणीयम् । = भूख के अनुसार।भोजन लेना चाहिये। * अधिकं भोजनं न स्वीकरणीयम् । = अधिक भोजन नहीं लेना चाहिये। स्वामिनी – सेविके ! त्वं सत्यं वदसि। = सेविका ! तुम सही कह रही हो। – अधुना कोsपि भोजनं न त्यक्ष्यति। = अब कोई भी भोजन नहीं छोड़ेगा। सेविका – धन्यवादः महोदया ! ओ३म् 689. संस्कृत वाक्याभ्यासः अस्माकं प्रियः मनोहरः नेता दिवंगतः जातः। = हमारा प्रिय मनोहर नेता दिवंगत हो गया। मनोहरः परिक्करः गोवाराज्यस्य मुख्यमन्त्री आसीत्। = मनोहर परिक्कर जी गोवा राज्य के मुख्यमंत्री थे। सः द्विवर्षपर्यन्तं रक्षामन्त्री अपि आसीत्। = वह दो वर्ष तक रक्षामंत्री भी थे। सः बहु आर्जवं जीवनं जीवति स्म। = वह बहुत ही सादा जीवन जीते थे। त्रिषष्ठिवर्षीयः मनोहरः अभियांत्रिकीं शिक्षाम् अधीतवान् आसीत्। = त्रेंसठ वर्षीय मनोहर जी ने इंजीनियरिंग शिक्षा पाई थी। सः राष्ट्रीयस्वयंसेवकसंघस्य कार्यकर्ता अपि आसीत्। = वह राष्ट्रीय स्वयंसेवक संघ के कार्यकर्ता भी थे। जनसामान्यैः सह तस्य सुमधुरः सम्बन्धः आसीत्। = जन सामान्य के साथ उनका सुमधुर सम्बन्ध था। यदा सः रक्षामन्त्री आसीत् तदा राफेल युद्धविमानस्य क्रयणानुबन्धः अभवत्। = जब वह रक्षामंत्री थे तब राफेल युद्धक विमानों का खरीद सौदा हुआ था विगत एकवर्षतः सः कर्करोगेण पीडितः आसीत्। = पिछले एक वर्ष से वे कैंसर से पीडित थे। तथापि सः कार्यरतः आसीत्। = फिर भी वो कार्यरत थे। ह्यः सायंकाले श्री मनोहरः परिक्करः प्राणत्यागं कृतवान्। = कल शाम को श्री मनोहर परिक्कर जी ने प्राण त्याग दिये। वयं दिवंगतस्य आत्मनः शान्त्यर्थं प्रार्थयामहे। = हम दिवंगत आत्मा की शान्ति के लिये प्रार्थना करते हैं। ओ३म् 690. संस्कृत वाक्याभ्यासः सङ्गीतम् अवरुद्धं तदनन्तरम् अपि सः नृत्यति । = संगीत रुक गया उसके बाद भी वह नाच रहा है। पर्याप्तं धनं लब्धं तथापि सः याचते। = पर्याप्त धन प्राप्त हुआ फिर भी वह माँग रहा है। शीतकालः समाप्तः जातः तदनन्तरम् अपि सः स्वेदकं धारयति। = जाड़ा समाप्त हो गया है उसके बाद भी वह स्वेटर पहन रहा है। द्रोण्यां जलं पूरितं तथापि सः स्नानं न करोति। = बाल्टी में पानी भर गया है फिर भी वह स्नान नहीं कर रहा है। तस्य पार्श्वे प्रचुरं धनम् अस्ति तथापि सः दानं न ददाति। = उसके पास बहुत धन है फिर भी दान नहीं देता है। रेलयानं तु गतं तदनन्तरम् अपि द्वारपालः द्वारं न उद्घाटयति। = रेल तो गई उसके बाद भी द्वारपाल फाटक नहीं खोलता है। तस्य नगरम् आगतं तथापि सः न अवतरति। = उसका शहर आ गया फिर भी वह नहीं उतर रहा है। सः संस्कृतं जानाति तथापि संस्कृते न वदति। = वह संस्कृत जानता है फिर भी संस्कृत में नहीं बोलता है। Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.