००२२ सरल संस्कृत अनुवाद अभ्यास पाठ ३५१ से ४११ December 25, 2019 By Arun Aryaveer ओ३म् संस्कृत वाक्याभ्यासः कांची भगिनी प्रतिदिनं मिलति।= कांची बहन प्रतिदिन मिलती है। यदा मां पश्यति तदा स्वं कार्यं स्थगयति।= जब मुझे देखती है तब अपना काम रोक देती है। स्वं कार्यं स्थगयित्वा मां “नमस्ते” इति वदति।= अपना काम छोड़ के मुझे नमस्ते बोलती है। मां नमस्करोति।= मुझे नमस्कार करती है। कांची नगरसेविका अस्ति।= कांची नगरसेविका है। सा मार्गे स्वच्छतां करोति।= वह रास्ते में स्वच्छता करती है। तस्याः हस्ते सम्मार्जकं भवति।= उसके हाथ में झाड़ू होती है। सा मार्गं मार्जयति।= वह रास्ता साफ करती है। अवकरं पात्रे स्थापयति।= कचरा डब्बे में डालती है। यदाकदा अहं तां चायं पाययामि।= कभी कभी मैं उसे चाय पिलाता हूँ। वर्षे एकवारं तस्यै शाटिकां ददामि।= वर्ष में एकबार साड़ी देता हूँ। सा प्रसन्ना भवति।= वह प्रसन्न होती है। ओ३म् संस्कृत वाक्याभ्यासः ह्यः जसवंतस्य जन्मदिनम् आसीत्।= कल जसवंत का जन्मदिन था। सः सर्वेभ्यः मिष्ठान्नं अखादयत्।= उसने सबको मिठाई खिलाई। सर्वे स्वल्पम् एव खादितवन्तः।= सभी ने थोड़ी ही खाई। जयदीपाय मिष्ठान्नं दत्तवान्।= जयदीप को मिठाई दी। जयदीपः अवदत् – न मम शरीरे मेदसारः अवर्धत।= जयदीप बोला – नहीं मेरे शरीर में कोलेस्ट्रॉल बढ़ गया है। जसवन्तः हिमायै मिष्ठान्नं दत्तवान्।= जसवंत ने हिमा को मिठाई दी। हिमा अवदत् – अहम् अपथ्ये अस्मि।= हिमा बोली – मैं डाइटिंग में हूँ। जोसेफ उक्तवान् – मम तु मधुप्रमेहः अस्ति।= जोसेफ बोला – मुझे तो मधुमेह है। नम्या उक्तवती – अहम् अधिकं मिष्ठान्नं न खादामि।= नम्या बोली – मैं अधिक मीठा नहीं खाती हूँ। अन्यथा अम्लं वर्धते।= नहीं तो अम्ल बढ़ता है। जसवन्तः श्रमिकाय मिष्टान्नं दत्तवान् ।= जसवंत ने मजदूर को मिठाई दी । श्रमिकः प्रेम्णा खादितवान्।= मजदूर प्रेम से खा गया। श्रमिकः पृष्टवान् – इतोsपि अस्ति वा ?= मजदूर ने पूछा – और है क्या ? ओ३म् संस्कृत वाक्याभ्यासः रेलमार्गस्य उपरि सेतुः निर्मीयते स्म।= रेल लाइन के ऊपर पुल बन रहा था। सर्वेषां सुखार्थं सेतुः निर्मीयते स्म।= सबके सुख के लिये पुल बन रहा था। निर्माता अर्धमेव निर्माणं कृतवान्।= निर्माता ने आधा ही निर्माण किया। सः अर्धमेव त्यक्त्वा गतवान्।= वो आधा ही छोड़ कर चला गया। सर्वे श्रमिकाः अपि गतवन्तः।= सारे श्रमिक भी चले गए। सर्वे अभियन्तारः अपि अन्यत्र गतवन्तः।= सारे इंजीनियर भी कहीं और चले गए। अधुना सेतुना विना जनाः कष्टम् अनुभवन्ति।= अब पुल के बिना लोग कष्ट अनुभव कर रहे हैं। यदा रेलयानम् आगच्छति तदा द्वारं पिधीयते।= जब रेल आती है तब द्वार बंद किया जाता है। सर्वाणि यानानि रेलमार्गम् उभयतः तिष्ठन्ति।= सभी वाहन रेल लाइन के दोनों ओर खड़े हो जाते हैं। सर्वेषां यानेभ्यः धूम्रः निस्सरति।= सभी के वाहन से धुँआ निकलता है। कोsपि यानयन्त्रं न पिधायति।= कोई भी इंजिन बन्द नहीं करता है। तेन वायुप्रदूषणम् अपि भवति।= उससे वायुप्रदूषण भी होता है। ओ३म् संस्कृत वाक्याभ्यासः * तत्र सम्मर्दः किमर्थम् अस्ति ?= वहाँ भीड़ क्यों है ? ** न जानामि ।= नहीं जानता / जानती हूँ। * चलतु , पश्यावः ।= चलिये , देखते हैं। ** ओह … अत्र तु द्वन्द्वं भवति।= ओह … यहाँ तो झगड़ा हो रहा है। * परस्परं मारयतः ।= एकदूसरे को मार रहे हैं। ** अहं द्वौ मोचयामि।= मैं दोनों को छुड़ाता हूँ। विरमताम्= आप दोनों रुकिये। किमर्थं कलहं कुरुतः ?= क्यों लड़ रहे हैं दोनों ? शान्तौ भवताम्= दोनों शान्त हो जाइये। द्वन्द्वेन द्वयोः हानिः भविष्यति।= लड़ाई से दोनों की हानि होगी। * अहं जलं पाययामि।= मैं पानी पीलता / पिलाती हूँ। अधुना द्वन्द्वं समाप्तं जातम् ।= अब लड़ाई बन्द हो गई। ओ३म् संस्कृत वाक्याभ्यासः अद्य रविवासरे स्वामी शान्तानन्दः मिलितवान्।= आज रविवार को स्वामी शान्तानन्द जी मिले। ह्यः प्रभाकरः मिलितवान्।= कल प्रभाकर जी मिले। परह्यः सुवर्णा भगिनी मिलितवती।= परसों सुवर्णा बहन मिली थीं। सर्वे ध्यानस्य विषये एव उक्तवन्तः ।= सभी ध्यान के विषय पर बोले । श्वः दीपांशु: मेलिष्यति।= कल दीपांशु जी मिलेंगे परश्वः प्रियंवदा मेलिष्यति।= परसों प्रियंवदा जी मिलेंगी। प्रपरश्वः ब्रह्मचारी अरुणः मेलिष्यति।= परसों ब्रह्मचारी अरुण जी मिलेंगे। सभी ध्यानस्य विषये एव वदिष्यन्ति।= सभी ध्यान के विषय पर बोलेंगे। अद्य ध्यानम् ।ह्यः , परह्यः , प्रपरह्यः ध्यानम् ।श्वः ध्यानम्परश्वः ध्यानम् ,प्रपरश्वः ध्यानम् ओ३म् संस्कृत वाक्याभ्यासः विद्यालये प्रार्थना अभवत् ।= विद्यालय में प्रार्थना हो गई। अनन्तरं व्यायामः भवति ।= बाद में व्यायाम हो रहा है। कुलदीपः अग्रे स्थित्वा व्यायामं कारयति।= कुलदीप आगे खड़ा होकर व्यायाम करा रहा है। कुलदीपं दृष्ट्वा सर्वे छात्राः तथैव व्यायामं कुर्वन्ति।= कुलदीप को देखकर सभी छात्र वैसे ही करते हैं। कुलदीपः संख्यां वदति।=कुलदीप संख्या बोलता है। एकम् , द्वे , त्रीणि , चत्वारि , पञ्च , षड् , सप्त , अष्ट अधुना विपरीतं वदति।= अब उल्टा बोलता है। अष्ट , सप्त , षड् , पञ्च , चत्वारि , त्रीणि , द्वे , एकम् कुलदीपः अधुना सूर्यनमस्कारं करोति कारयति च।= कुलदीप अब सूर्यनमस्कार करता है , कराता है। दश पर्यन्तं संख्याः वदति। ओ३म् संस्कृत वाक्याभ्यासः लोकयान-स्थानके सर्वे यानस्य प्रतीक्षां कुर्वन्ति। ( कुर्वन्तः सन्ति) यदा यानम् आगच्छति तदा सर्वे नामपट्टिकां पठन्ति। गन्तव्यस्य स्थलस्य पट्टिकां पठित्वा ते यानम् आरोहन्ति। केचन उपविश्य गच्छन्ति। केचन उत्थाय गच्छन्ति। दिव्याङ्गः कोsपि आरोहति तदा जनाः तस्मै स्थानं ददति। महिलानां पृथक् आसन्दाः सन्ति। महिलानां कृते चत्वारः आसन्दाः सन्ति। यदा कस्यापि नगरम् आगच्छति तदा सः अवतरति। यदा एकः अवतरति तदा स्थानं रिक्तं भवति। रिक्तं स्थानं दृष्ट्वा अन्यः तत्र उपविशति। ओ३म् संस्कृत वाक्याभ्यासः क्रीडनकम् …. क्रीडनकानि ….= खिलौना ….. खिलौने …. क्रीणन्तु …. क्रीणन्तु ….= खरीदिये …. खरीदिये …. पू…ऊँ… ऊँ …ऊँ मधुरा ध्वनिनादं नदति।= मधुर ध्वनिनादं होता है। पश्यन्तु एषा चक्री परिभ्रमति।= देखिये ये चकरी घूमती है। क्रीणन्तु …. क्रीणन्तु ….= खरीदिये …. खरीदिये …. बालकाः प्रसन्नाः भविष्यन्ति।= बच्चे प्रसन्न होंगे। क्रीणन्तु …. फेनपात्रं क्रीणन्तु ….= खरीदिये …. फेनपात्र खरीदिये … पश्यन्तु … फूत्कारेण फेनः उड्डयते।= देखिये … फूँकने से फेन उड़ती है। पुत्तलिका अस्ति …= गुड़िया है … पुत्तलिका गीतं गायति।= गुड़िया गाना गाती है। क्रीणन्तु …. क्रीणन्तु ….= खरीदिये …. खरीदिये …. ओ३म् 359. संस्कृत वाक्याभ्यासः अद्य रोदिमि अहम् ।= आज मैं रो रहा हूँ। ** किमर्थम् ?= क्यों ? प्रातः अहं विद्याभारती-विद्यालयं गच्छामि स्म।= सुबह मैं विद्याभारती विद्यालय जा रहा था। बहु मन्दम् एव स्कूटरयानं चालयामि स्म।= बहुत धीमे स्कूटर चला रहा था। एकः चिक्रोडः मार्गे आगतः।= एक गिलहरी रास्ते में आ गई। चिक्रोडः बहु वेगेन धावति स्म।= गिलहरी बहुत तेज भाग रही थी। चिक्रोडः इतस्ततः धावति स्म।= गिलहरी यहाँ वहाँ दौड़ रही थी। वारंवारं मार्गं पारयति स्म।= बार बार रास्ता पार कर रही थी। मम यानस्य अग्रे अपि धावति स्म।= मेरे वाहन के आगे भी दौड़ रही थी। अहं तां रक्षितुं प्रयत्नं कृतवान्।= मैंने उसे बचाने की कोशिश की। न जानामि , चिक्रोडः कदा मम यानस्य चक्रस्य अधः आगतः।= नहीं पता , गिलहरी कब मेरे वाहन के व्हील के नीचे आ गई। यदा अहं पृष्ठे दृष्टवान् तदा बहु दुखितः अभवम् ।= जब मैंने पीछे देखा तब मैं बहुत दुखी हुआ। ओह … ओ३म् 360. संस्कृत वाक्याभ्यासः दश दिनेभ्यः मम प्रतिवेशी गृहे नास्ति।= दस दिन से मेरा पड़ोसी घर में नहीं है। सः सूचनां विना एव गतवान्।= वह बिना सूचना के चला गया। तस्य अङ्गणे मृत्तिकास्थाले जलं नास्ति।= उसके आँगन में मिट्टी के थाल में पानी नहीं है। चटकाः चूं चूं … कूजन्ति।= चिड़ियाएँ चूं चूं … कूजन करती हैं। मार्जार्याः दुग्धपात्रं रिक्तम् अस्ति।= बिल्ली का दूध का पात्र खाली है। प्रातः कोsपि न पूरयति।= सुबह कोई नहीं भरता है। मार्जारी सीवति।= बिल्ली म्याऊँ म्याऊँ करती है। धेनुः द्वारे रम्भते।= गाय दरवाजे पर रंभाती है। शुने रोटिकां कोsपि न ददाति।= कुत्ते को कोई भी रोटी नही देता है। अतः श्वानः बुक्कति।= इसलिये कुत्ता भौंकता है। ओ३म् 361. संस्कृत वाक्याभ्यासः राजीवः – नमो नमः । नीरजः – नमस्ते , नमो नमः। कथम् असि ?= नमस्ते , नमो नमः । कैसे हो तुम ? राजीवः – अहं कुशली अस्मि।= मैं कुशल हूँ। नीरजः – अत्र आश्रमे किं करोषि त्वम् ?= यहाँ आश्रम में क्या कर रहे हो ? राजीवः – अयम् आश्रमः नास्ति। एषा मम क्षेत्रवाटिका अस्ति।= यह आश्रम नहीं है। यह मेरा फार्म हाउस है। नीरजः – तव क्षेत्रवाटिका ??= तुम्हारा फार्म हाउस ?? राजीवः – आम् । नगरे तु अध्ययनार्थं निवसामि।= हाँ , नगर में तो मैं पढ़ने के लिये रहता हूँ। – प्रति शनिवासरे अत्र आगच्छामि।= हर शनिवार को यहाँ आ जाता हूँ। – रविवासर पर्यन्तम् अत्रैव तिष्ठामि।= रविवार तक यहाँ ही रहता हूँ। नीरजः – अन्येषु दिनेषु अत्र कः निवसति?= अन्य दिनों में यहाँ कौन रहता है ? राजीवः – पितामहः निवसति। सः धेनूनां पालनं करोति।= दादाजी रहते हैं। वे गायों का पालन करते हैं। – मम पितामही निवसति। सा दुग्धं दोग्धि ।= मेरी दादीजी रहती हैं। वे दूध दुहति हैं। – आदिनं वृक्षाणां रक्षणं कुरुतः ।= पूरे दिन वृक्षों की रक्षा करते हैं। नीरजः – तव माता-पितरौ कुत्र स्तः ?= तुम्हारे माता पिता कहाँ है ? राजीवः – पश्य … ओ … तत्र दृश्येते ।= देखो … ओ … वहाँ दिख रहे हैं । नीरजः – तौ किं कुरुतः ?= वे दोनों क्या कर रहे हैं ? राजीवः – तौ तत्र बीजवपनं कुरुतः ।= वे दोनों बीज बो रहे हैं। नीरजः – तव भगिनी न दृश्यते।= तुम्हारी बहन नहीं दिख रही है। राजीवः – पश्य ताम् ….. सा तु दोलायां दोलायते ।= उसको देखो…. वह तो झूले में झूल रही है। नीरजः – तव कृषिवाटिकायां तु बहु मोदः अस्ति।= तुम्हारे फार्म हॉउस में तो बहुत मजा है। ओ३म् 362. संस्कृत वाक्याभ्यासः रात्रौ तस्य उदरे पीड़ा भवति स्म।= रात में उसके पेट में पीड़ा हो रही थी। उदरशूलेन सः पीडितः आसीत् ।= पेट दर्द से वह पीडित था। रात्रौ सः एरण्डतैलं पीतवान्।= रात में उसने अंडी का तेल पिया। प्रातः त्रिवादने तस्य उदरं स्वच्छं जातम् ।= सुबह तीन बजे उसका पेट साफ हो गया। भोजनसमारोहे सः पित्तकं खादितवान् ।= भोजन समारोह में उसने पीज़ा खाया था। तस्य शरीरे पित्तम् अवर्धत।= उसके शरीर में पित्त बढ़ गया। वायुविकारः अपि अवर्धत।= वायुविकार भी बढ़ गया। अधुना सः स्वस्थः अस्ति।= अब वह स्वस्थ है। प्राणायामं करोति ।= प्राणायाम कर रहा है। पीज़ा खादनेन पित्तम् अवर्धत अतः तस्य नाम पित्तकम् ।= पीज़ा खाने से पित्त बढ़ गया अतः उसका नाम पित्तकम् ओ३म् 363. संस्कृत वाक्याभ्यासः ह्यः अनन्त कुलकर्णी महोदयस्य दूरवाणी आसीत्।= कल अनंत कुलकर्णी जी का फोन था। पूनातः सः वदति स्म।= वे पूना से बोल रहे थे। ते सर्वेषां विषये पृच्छन्ति स्म।= वे सबके लिये पूछ रहे थे। भवतः भार्या कथम् अस्ति ?= आपकी श्रीमती जी कैसी हैं ? पुत्रः किं करोति ?= बेटा क्या कर रहा है ? पङ्कजः किं करोति ?= पंकज क्या करता है ? तम् अहं स्मरामि इति सूचयतु।= उसको मैं याद करता यह बताना । तत्र संस्कृतकार्यं कथं चलति ?= वहाँ संस्कृत कार्य कैसा चल रहा है ? अहं पुनः भवतः नगरम् आगन्तुम् इच्छामि।= मैं पुनः तुम्हारे नगर आना चाहता हूँ। यदा आगमिष्यामि तदा सूचयिष्यामि।= जब आऊँगा तब सूचित करूँगा। ओ३म् 364. संस्कृत वाक्याभ्यासः पुत्रः – अम्ब ! किं फलम् आनयानि ?= माँ ! कौनसा फल लाऊँ ? एकं फलम् आनयानि वा अनेकानि ?= एक फल लाऊँ या अनेक ? माता – अद्य सेवफलमेव आनय ।= आज सेव ही लाओ । पुत्रः – नैव , भवती आदिनम् एकमेव फलं खादति।= नहीं , आप सारा दिन एक ही फल खाती हैं। – अहं विविधानि फलानि आनेष्यामि।= मैं विविध फल लाऊँगा। माता – कदलीफलं बहु गलितं भवति।= केला बहुत गला हुआ होता है। – मा आनय ।= मत लाना । पुत्रः – अम्ब ! अहं स्वादुफलं आनेष्यामि।= माँ , मैं चीकू लाऊँगा। सीताफलम् , अमृतफलं च आनेष्यामि।= सीताफल और नासपाती लाऊँगा। माता – तुभ्यं यथा रोचते पुत्र != तुम्हें जैसा ठीक लगे बेटा ! ओ३म् 365. संस्कृत वाक्याभ्यासः लाली !! बहिः आगच्छ ।= लाली ! बाहर आओ । प्रकोष्ठात् बहिः आगच्छ ।= कमरे से बाहर आओ । लाली – आगच्छामि।= आती हूँ। ( लाली प्रकोष्ठात् बहिः आगच्छतिलाली कमरे से बाहर आती है ) माता – ओ…हो .. लाली …. – त्वं तु भारतमातुः सदृशी दृश्यसे।= तुम तो भारत माता जैसी लग रही हो। युवराजः कुत्र अस्ति ?= युवराज कहाँ है ? लाली – पश्यतु सः आगच्छति ।= देखिये वह आ रहा है। माता – ओ … हो … त्वं तु वीरसैनिकस्य वस्त्राणि धारितवान्।= ओ हो , तुमने तो वीर सैनिक के वस्त्र पहने हैं। युवराजः – अद्य विद्यालये लाली भारतमातुः अभिनयं करिष्यति।= आज विद्यालये लाली भारतमाता का अभिनय करेगी। – अहं तस्याः सैनिकः भविष्यामि।= मैं उसका सैनिक बनूँगा। माता – भारतस्य वीरः सुपुत्रः युवराजः। – भारतस्य वीरांगना सुपुत्री लाली। अस्माकं देशः सशक्त: भवेत् इति वयं प्रार्थयामहे।= हमारा देश सशक्त बने यही हम प्रार्थना करते हैं। सर्वेभ्यः स्वाधीनतापर्वणः मङ्गलकामनाः। ओ३म् 366. संस्कृत वाक्याभ्यासः प्रातःकाले सर्वप्रथमं किं दृष्टवान् / दृष्टवती ? प्रातःकाले सर्वप्रथमं सूर्यं दृष्टवान्/ दृष्टवती । प्रातःकाले सर्वप्रथमं किं श्रुतवान् / श्रुतवती ?= प्रातःकाले सर्वप्रथमं वेदमन्त्रान् श्रुतवान् / श्रुतवती प्रातःकाले सर्वप्रथमं किं पठितवान् / पठितवती ? प्रातःकाले सर्वप्रथमं न्यायदर्शनं पठितवान् / पठितवती प्रातःकाले सर्वप्रथमं किं पीतवान् / पीतवती ? प्रातःकाले सर्वप्रथमं ऊष्णं जलं पीतवान् / पीतवती प्रातःकाले सर्वप्रथमं कुत्र गतवान् / गतवती ? प्रातःकाले सर्वप्रथमं गोशालां गतवान् / गतवती ओ३म् 367. संस्कृत वाक्याभ्यासः सप्तसप्ततितमे वर्षे तस्य नाम श्रुतवान् अहम् ।= वर्ष 1977 में उनका नाम मैंने सुना था। सः तदानीं भारतस्य विदेशमन्त्री अभवत्।= वे तब भारत के विदेशमन्त्री बने थे। संसदि यदा सः सदनं संबोधयति स्म तदा सर्वे सांसदाः निरुत्तराः भवन्ति स्म।= संसद में जब वे सदन को संबोधित करते थे तब सभी निरुत्तर हो जाते थे। अशीतितमे वर्षे यदा भाजपा दलस्य स्थापना कृता ….= 1980 में जब भाजपा की स्थापना हुई …. तदा सः भाजपा दलस्य अध्यक्षः नियुक्तः जातः।= …. तब वे भाजपा दल के अध्यक्ष नियुक्त हुए। अष्टनवतितमे वर्षे यदा सः पुनः प्रधानमन्त्री अभवत् ….= 1998 के वर्ष में जब वे पुनः प्रधानमंत्री बने … ….. तदा सर्वे हृष्टा: अभवन्।= तब सभी खुश हुए। अष्टनवतितमे वर्षे पोखरणे परमाणु-परीक्षणं कृतम् ।= 1998 में पोखरण में परमाणु परीक्षण किया। समग्रे विश्वे अटलबिहारी महोदयः सम्मानितः जनः आसीत्।= सारे विश्व में अटलबिहारी जी सम्मानित व्यक्ति थे। कुशलः राजनीतिज्ञ:, श्रेष्ठः कवि: अटलबिहारी महाभागः दिवंगतः जातः।= कुशल राजनीतिज्ञ , श्रेठ कवि अटलबिहारी जी दिवंगत हो गए। दिवंगताय पुण्यात्मने वयं भावपूर्णां श्रद्धाञ्जलिं दद्मः।= दिवंगत पुण्यात्मा को हम भावपूर्ण श्रद्धांजलि देते हैं। ओ३म् 368. संस्कृत वाक्याभ्यासः भारत-विकास-परिषदा आयोजितं कार्यक्रमम् अहं गतवान्।= भारत विकास परिषद् द्वारा आयोजित कार्यक्रम में मैं गया था। “भारतं जानातु” विषयाधारिता प्रश्नस्पर्धा आसीत्।= भारत को जानिये विषय पर आधारित प्रश्नस्पर्धा थी। प्रारम्भे सर्वे जनाः भारतरत्नाय अटलबिहारी महाभागाय श्रद्धांजलिम् अर्पितवन्तः।= प्रारम्भ में सभी लोगों ने भारतरत्न अटलबिहारी जी को श्रद्धाञ्जलि दी। षोडशविद्यालयानां छात्राः आगतवन्तः ।= सोलह विद्यालयों के छात्र आए थे। षोडशविद्यालयेभ्यः छात्राः आगतवन्तः ।= सोलह विद्यालयों से छात्र आए थे। स्पर्धायाः संचालकः प्राचीनभारतस्य विषये प्रश्नान् पृच्छति स्म।= स्पर्धा का संचालक प्राचीन भारत के बारे में प्रश्न पूछता था। सर्वे तेजस्विनः छात्राः उत्तराणि ददति स्म।= सभी तेजस्वी छात्र उत्तर देते थे। शास्त्रीय-सङ्गीतस्य विषये प्रश्नाः आसन्।= शास्त्रीय संगीत विषय पर प्रश्न थे। महापुरुषाणां विषये प्रश्नाः आसन्।= महापुरुषों के विषय पर प्रश्न थे। भारतस्य विविधानां स्थलानां विषये अपि प्रश्नाः आसन्।= भारत के विविध स्थलों के बारे में प्रश्न थे। कार्यक्रमः बहु ज्ञानवर्धकः आसीत्।= कार्यक्रम बहुत ज्ञानवर्धक था। ओ३म् 369. संस्कृत वाक्याभ्यासः सूर्योदयः अभवत् = सूर्योदय हो गया । योगासनम् अभवत् = योगासन हो गया। स्नानम् अभवत् = स्नान हो गया । यज्ञः अभवत् = यज्ञ हो गया। अल्पाहारः अभवत् वा ?= अल्पाहार हो गया क्या ? न अल्पाहारः न अभवत्।= नहीं अल्पाहार नहीं हुआ । अधुना स्वाध्यायः न अभवत्।= अभी स्वाध्याय नहीं हुआ है। अत्र वर्षा अभवत्।= यहाँ वर्षा हुई। तेन सह वार्तालापः अभवत्।= उसके साथ बात हो गई। कार्यक्रमः समाप्तः अभवत्।= कार्यक्रम समाप्त हो गया। लिखन्तु किं किम् अभवत् ? ओ३म् 370. संस्कृत वाक्याभ्यासः केरलराज्ये जलौघः समागतः ।= केरल राज्य में बाढ़ आई हुई है। अतिवृष्टेः कारणाद् सर्वे जलबन्धाः पूरिताः जाताः ।= अतिवृष्टि के कारण सभी डैम भर गए। पेरियार नद्याम् इडुकि नामकः जलबन्धः अस्ति।= पेरियार नदी पर इडुकि नाम का बांध है। तस्य जलबन्धस्य पञ्च द्वाराणि एकसाकम् एव उद्घाटितानि।= उस बाँध के पाँच दरवाजे एक साथ ही खोल दिये गए। यथा एकेन मित्रेण सूचितं , केरले द्वात्रिंशत जलबन्धाः सन्ति।= जैसा एक मित्र ने बताया , केरल में बत्तीस डैम हैं। सर्वे जलबन्धाः जलपूर्णाः अभवन्।= सभी डैम जल से भर गए। अतएव सर्वे ग्रामाः जलमग्नाः जाताः ।= इस कारण सभी गाँव जलमग्न हो गए। जलप्लावनस्य कारणाद् कोच्चि विमानपत्तनम् अपि अवरुद्धम् ।= बाढ़ के कारण कोच्चि एयरपोर्ट भी बंद है। रेलमार्ग: अपि अवरुद्ध: अस्ति।= रेलमार्ग भी अवरुद्ध है। अनेके सेवाभाविनः जनाः जनानां सेवां कुर्वन्ति।= अनेक सेवाभावी लोग लोगों की सेवा कर रहे हैं। ओ३म् 371. संस्कृत वाक्याभ्यासः दीपककुमारः गुरुकुले अधीतवान्।= दीपककुमार ने गुरुकुल में अध्ययन किया। देहरादून-गुरुकुले सः वैदिकशिक्षां प्राप्तवान्।= देहरादून गुरुकुल में उसने वैदिक शिक्षा पाई। जकार्ता (यज्ञकर्ता) यज्ञकर्तरि अधुना एशियन खेलोत्सवः चलति।= जकार्ता में इस समय एशियन खेल चल रहे हैं दीपककुमार आर्यः भुशुण्डिप्रहारे ( भुशुण्डिवधे ) रजतपदकं लब्धवान्।= दीपककुमार आर्य ने राइफल शूटिंग में रजतपदक प्राप्त किया। दीपकः आर्यः संस्कृतं जानाति।= दीपक आर्य संस्कृत जानता है। सः धाराप्रवाहेण संस्कृते वदति।= वह धाराप्रवाह संस्कृत में बोलता है। सत्यार्थप्रकाश-ग्रन्थेन सः प्रेरितः जातः।= सत्यार्थप्रकाश ग्रन्थ से वह प्रेरित हुआ। वयं सर्वे संस्कृतनुरागिणः दीपकाय कोटिशः अभिनन्दनानि दद्मः।= हम सभी संस्कृतनुरागी दीपक को कोटि कोटि अभिनन्दन देते हैं। दीपकेन प्रतिपादितम् यत् ……दीपक ने प्रतिपादित किया कि ….. ….संस्कृतज्ञः सर्वेषु कार्येषु निपुणः भवितुं शक्नोति।= …..संस्कृतज्ञ सभी कामों में निपुण बन सकता है। जयतु संस्कृतम्जयतु भारतम् । ओ३म् 372. संस्कृत वाक्याभ्यासः सः युवकः लोकयाने अस्ति।= वह युवक बस में है। अनेके जनाः अपि लोकयाने सन्ति।= अनेक लोग भी बस में हैं। सः युवकः सङ्गीतं श्रृणोति।= वह युवक सङ्गीत सुन रहा है। तस्य चलभाषयन्त्रे गीतानि संरक्षितानि सन्ति।= उसके मोबाइल में गाने सेव किये हुए हैं। सः बहु उच्चैः गीतानि वादयति।= वह बहुत ज़ोर से गाने बजाता है। तस्य पार्श्वे कर्णवादित्रं नास्ति।= उसके पास ईयरफोन नहीं है। तस्य पुरतः एका वृद्धा उपविष्टा अस्ति।= उसके आगे एक वृद्धा बैठी है। तस्य पृष्ठे चत्वारः छात्राः सन्ति।= उसके पीछे चार छात्र हैं। तस्य वामतः एका युवती अस्ति।= उसके बाएँ एक युवती है। तस्य दक्षिणतः द्वौ बालकौ स्तः।= उसके दाहिने दो बालक हैं। सर्वे तं निषेधयन्ति , अवरोधयन्ति।= सब उसे मना करते हैं , रोकते हैं। सः न मन्यते।= वह नहीं मानता है। परिचालकः तं तर्जयति।= कंडक्टर उसे डाँटता है। तदा सः युवकः मन्यते।= तब वह युवक मानता है। अधुना लोकयाने शान्तिः वर्तते।= अभी बस में शान्ति है। ओ३म् 373. संस्कृत वाक्याभ्यासः अद्य स्वातिः शीघ्रमेव विद्यालयं गच्छति।= आज स्वाति शीघ्र ही विद्यालय जाती है। सा आम्रपत्रैः तोरणं निर्माति।= वह आम के पत्तों से तोरण बनाती है। विद्यालयस्य द्वारे तोरणं लम्बयति।= विद्यालय के द्वार पर तोरण लटकाती है। सा द्वारे सुशोभनं करोति।= वह द्वार पर सुशोभन करती है। स्वातिः प्रतिप्रकोष्ठं गच्छति।= स्वाति हर कमरे में जाती है। फलके सूचनां लिखति।= बोर्ड पर सूचना लिखती है। अद्य आरभ्य संस्कृत सप्ताहः आरभते।= आज से संस्कृत सप्ताह शुरू हो रहा है। सर्वे संस्कृतभाषायाम् एव वदन्तु।= सभी संस्कृत भाषा में बोलें। विद्यालयस्य प्रार्थनासत्रे सा संस्कृतगीतं गायति।= विद्यालय के प्रार्थना सत्र में वह संस्कृत गीत गाती है। तस्याः (स्वात्याः) उत्साहं दृष्ट्वा प्रधानाचार्यः मोदते।= उसका ( स्वाति का) उत्साह देखकर प्रधानाचार्य खुश होते हैं। प्रधानाचार्यः स्वात्या संस्कृते जयघोषं कारयति।= प्रधानाचार्य स्वाति से संस्कृत में जयघोष करवाते हैं। सर्वेभ्यः संस्कृत सप्ताहस्य कोटिशः मङ्गलकामनाः। जयतु संस्कृतम् । जयतु भारतम् । ओ३म् 374. संस्कृत वाक्याभ्यासः मुम्बय्यां जुहू चौपाटी अस्ति।= मुंबई में जुहू चौपाटी है। समुद्रतटे वालुका एव अस्ति।= सागर किनारे रेती ही है। वालुकामयं तटं बहु दूर पर्यन्तं विस्तृतम् अस्ति।= रेती वाला तट बहुत दूर तक फैला है। प्रातःसायम् अत्र जनाः भ्रमणार्थम् आगच्छन्ति।= सुबह शाम लोग यहाँ घूमने आते हैं। समुद्रे जनाः स्नानम् अपि कुर्वन्ति।= समुद्र में लोग नहाते भी हैं। बालकाः वालुकायां क्रीडन्ति।= बच्चे रेती में खेलते हैं । जलतरङ्गाः उपरि उपरि उत्प्लवन्ते।= पानी की लहरें ऊपर ऊपर उछलती हैं। अद्य प्रातः नीरजा भगिनी जुहूतटं गतवती।= आज सुबह नीरजा बहन जुहू चौपाटी गई। तत्र सा संस्कृतगीतानि गीतवती।= वहाँ उसने संस्कृत गीत गाए। सुमधुरेण स्वरेण सा गीतानि गीतवती।= सुमधुर स्वर में उसने गाने गाए। जनाः संस्कृतगीतानि श्रुत्वा प्रसन्नाः अभवन्।= लोग संस्कृत गाने सुनकर खुश हुए। ओ३म् 375. संस्कृत वाक्याभ्यासः सुजाता – आशे ! दर्शने ! अंकिते ! हर्षे ! – कुत्र सन्ति सर्वाः ?= कहाँ हैं सभी ? आशा – अहम् अत्र फलकं लम्बयामि।= मैं यहाँ बैनर लटका रही हूँ। – तोरणम् अपि लम्बयिष्यामि।= तोरण भी लटकाऊँगी। दर्शना – अहम् अंकिता च अत्र मञ्चस्य व्यवस्थां कुर्वः।= मैं और अंकिता यहाँ मंच की व्यवस्था कर रहे हैं। सुजाता – हर्षा कुत्र अस्ति ?= हर्षा कहाँ है ? अंकिता – सा पारितोषिकानि आनेतुं गतवती।= वह पारितोषिक लेने गई है। – पश्यतु , सा आगच्छति।= देखिये वह आ रही है। सुजाता – आगच्छ हर्षे != आओ हर्षा ! हर्षा – पारितोषिकानि कुत्र स्थापयामि ?= पारितोषिक कहाँ रखूँ ? अंकिता – मञ्चे …= मंच पर … सुजाता – अधुना वयं श्लोकगान स्पर्धाम् आरभामहे।= अब हम श्लोकगान स्पर्धा शुरू करते हैं। जयतु संस्कृतम् । जयतु भारतम् । ओ३म् 376. संस्कृत वाक्याभ्यासः श्रुतिः सैन्यनिवासं गच्छति।= श्रुति सैन्य छावनी जाती है। सा तत्र रक्षासूत्राणि नयति।= वह वहाँ रक्षासूत्र ले जाती है। सर्वेषां सैनिकानां हस्ते रक्षासूत्रं बध्नाति।= सभी सैनिकों के हाथ में राखी बाँधती है। सा वदति – ” भवन्तः देशस्य रक्षां कुर्वन्तु ”= वह बोलती है – ” आप देश की रक्षा करिये ” ” अहं संस्कृत्याः रक्षां करिष्यामि ”= मैं संस्कृति की रक्षा करूँगी सैनिकाः सर्वे देशभक्तिगीतानि गायन्ति।= सभी सैनिक देशभक्ति का गीत गाते हैं। श्रुतिः संस्कृतगीतानि गायति।= श्रुति संस्कृत गाने गाती है। अद्य संस्कृतदिनम् अस्ति।= आज संस्कृत दिन है। सा संस्कृतस्य महत्वम् अपि कथयति।= वह संस्कृत का महत्व भी कहती है। संस्कृतभाषायां देशभक्तिगीतं गायति।= संस्कृत में देशभक्ति गीत गाती है। सर्वे सैनिकाः उत्थाय उच्चै: वदन्ति= सभी सैनिक खड़े होकर बोलते हैं “” जयतु जयतु संस्कृतभाषा ” ” जयतु जयतु भारतदेशः ” संस्कृतदिनस्य कोटिशः मङ्गलकामनाः । ओ३म् 377. संस्कृत वाक्याभ्यासः सुहासिनी – आगच्छतु , मंजुला भगिनि != आईये , मंजुला बहन ! मंजुला – न , अत्र संस्कृत-सम्भाषणं भवति खलु ?= ना , यहाँ संस्कृत सम्भाषण होता है न ? सुहासिनी – आं भवति … अत्र कः दोषः ??= हाँ होता है … इसमें क्या बुराई है ?? मंजुला – महिलाभिः संस्कृतसम्भाषणं न करणीयम् ।= महिलाओं को संस्कृत में बातचीत नहीं करनी चाहिये। सुहासिनी – एवं केन उक्तम् ?= ऐसा किसने कहा ? – श्रेष्ठं कार्यं तु महिलाभिः अवश्यमेव करणीयम् ।= अच्छा काम तो महिलाओं को अवश्य करना चाहिये। – भाषा सर्वेषां कृते भवति।= भाषा सबके लिये होती है। महिला संस्कृते वदति चेत् गृहे शीघ्रमेव संस्कृतमयं वातावरणं भवति।= महिला संस्कृत में बोलती है तो घर में जल्दी ही संस्कृतमय वातावरण बनता है। – पश्यतु , अहं प्रतिदिनं वदामि।= देखिये, मैं प्रतिदिन बोलती हूँ। – अतः मम गृहे सर्वे संस्कृते सम्भाषणं कुर्वन्ति।= इसलिये मेरे घर में सभी संस्कृत में बातचीत करते हैं। – मम पुत्री , मम श्वश्रू: , मम ननांदृ= मेरी बेटी , मेरी सासजी , मेरी ननंद … मंजुला – शोभनम् … अहमपि अभ्यासं करिष्यामि।= बढ़िया … मैं भी अभ्यास करूँगी। ओ३म् 378. संस्कृत वाक्याभ्यासः सुलेखायाः गृहे अद्य संस्कृतभोजनम् अस्ति।= सुलेखा के घर आज संस्कृत भोजन है। प्राची पायसं निर्माति।= प्राची खीर बना रही है। गोविन्दः विपणितः मोदकानि आनयति।= गोविन्द बाजार से लड्डू लाता है। अमरीशः मकोयस्य रोटिकाः आनयति।= अमरीश मकई की रोटियाँ लाता है। दीप्तिः वृन्ताकस्य शाकम् आनयति।= दीप्ति बैंगन की सब्जी लाती है। सुलेखा केवलम् ओदनं सुपं च पचति।= सुलेखा केवल दाल चावल पकाती है। किशोरः पातव्यानि पात्राणि आनयति।= किशोर डिस्पोज़ेबल बर्तन लाता है। भोजने पञ्चविंशतिः जनाः आगच्छन्ति।= भोजन में पच्चीस लोग आते हैं। अनुरागः कटं प्रसारयति।= अनुराग दरी बिछाता है। सर्वे उपविशन्ति।= सभी बैठते हैं। सर्वे संस्कृतक्रीड़ां क्रीड़न्ति।= सभी संस्कृत खेल खेलते हैं। संस्कृतगीतानि गायन्ति।= संस्कृत गीत गाते हैं। स्वपरिचयम् अपि संस्कृतभाषायां ददति।= अपना परिचय भी संस्कृत में देते हैं। अनन्तरं सर्वे भोजनमन्त्रं वदन्ति।= बाद में सभी भोजन मंत्र बोलते हैं । सर्वे एकसाकं भोजनं कुर्वन्ति।= सभी एक साथ भोजन करते हैं। ओ३म् 379. संस्कृत वाक्याभ्यासः दृष्टम् !! ?= देखा !! ? सः अद्य पुनः विस्मृतवान् ।= वो आज फिर भूल गया । जलस्य कूपीं विस्मृतवान् सः ।= पानी की बोतल भूल गया। अनेकवारम् उक्तवती अस्मि= मैंने अनेक बार कहा है। विद्यालयात् यदा आगच्छति …= विद्यालय से जब आते हो … तदा कूपीं मा विस्मर …= तब बोतल मत भूलो … अधुनैव चल विद्यालयम् ….= अभी ही स्कूल चलो …. श्वः जलं कथं नेष्यति ?= कल पानी कैसे ले जाओगे ? श्वः जलं कस्मिन् नेष्यति ?= कल पानी किसमें ले जाओगे ? सा माता पुत्रं तर्जयति।= वह माँ बेटे को डाँट रही है। पुत्रेण सह विद्यालयं गच्छति।= बेटे के साथ विद्यालय जाती है। विद्यालयस्य प्रहरीं निवेदयति।= विद्यालय के चौकीदार को निवेदन करती है। कूपीम् आनयति।= बोतल लाती है। अनन्तरं सा पुत्राय भोजनं ददाति।= बाद में वह बेटे को भोजन देती है। ओ३म् 380. संस्कृत वाक्याभ्यासः श्वश्रू: – वधु ! पश्य सः अग्रे वर्धते।= बहू ! देखो वह आगे बढ़ रहा है। ओह , सः सर्वाणि वस्तूनि स्पृशति।= ओह , वह सभी वस्तुएँ छू रहा है। वधू: – आम् अम्ब ! पश्यामि ।= हाँ माँ , देखती हूँ। इदानीं दुग्धं क्वथ्यते।= अभी दूध उबल रहा है। श्वश्रू: – तन्नु … तन्नू … – विरम … अग्रे मा वर्धस्व= रुक जाओ … आगे मत बढ़ो – अग्रे सोपानम् अस्ति।= आगे सीढ़ी है। – सोपानात् पतिष्यसि।= सीढ़ी से गिर जाओगे। – आगच्छ … मम अङ्के आगच्छ।= आओ …. मेरी गोदी में आओ । – क्रीडनकं ददामि ।= खिलौना देती हूँ। वधू: – आगच्छामि ….= आई ….. ( वधू: शीघ्रम् आगच्छति। शिशुम् अङ्के उन्नयति।= बहू जल्दी से आती है। बालक को गोदी में उठाती है ।) वधू: – त्वं बहु चपलः जातः ।= तुम बहुत चपल हो गए हो । ओ३म् 381. संस्कृत वाक्याभ्यासः गमनागमनं करोमि।= आना जाना करता हूँ / करती हूँ। सः / सा अपि गमनागमनं करोति।= वह भी आना जाना करता है / करती है। सः सूरततः मुम्बई पर्यन्तं गमनागमनं करोति।= वह सूरत से मुम्बई तक आना जाना करता है। सा मेरठतः देहली पर्यन्तं गमनागमनं करोति।= वह मेरठ से दिल्ली तक आना जाना करती है। सर्वेषां गमनागमने एव अधिकः समयः व्यतीयते= सबका आने जाने में ही अधिक समय व्यतीत होता है। केचन जनाः शिक्षार्थं गमनागमनं कुर्वन्ति।= कुछ लोग शिक्षा के लिये गमनागमनं करते हैं। केचन जनाः व्यवसायार्थं गमनागमनं कुर्वन्ति।= कुछ लोग व्यवसाय के लिये गमनागमनं करते हैं। केचन जनेभ्यः गमनागमनं बहु रोचते।= कुछ लोगों को आना जाना बहुत पसंद आता है। केचन तु वारं वारं विदेशं गच्छन्ति आगच्छन्ति।= कुछ लोग तो बार बार विदेश जाते हैं आते हैं। ओ३म् 382. संस्कृत वाक्याभ्यासः गमनागमनं करोमि।= आना जाना करता हूँ / करती हूँ। सः / सा अपि गमनागमनं करोति।= वह भी आना जाना करता है / करती है। सः सूरततः मुम्बई पर्यन्तं गमनागमनं करोति।= वह सूरत से मुम्बई तक आना जाना करता है। सा मेरठतः देहली पर्यन्तं गमनागमनं करोति।= वह मेरठ से दिल्ली तक आना जाना करती है। सर्वेषां गमनागमने एव अधिकः समयः व्यतीयते= सबका आने जाने में ही अधिक समय व्यतीत होता है। केचन जनाः शिक्षार्थं गमनागमनं कुर्वन्ति।= कुछ लोग शिक्षा के लिये गमनागमनं करते हैं। केचन जनाः व्यवसायार्थं गमनागमनं कुर्वन्ति।= कुछ लोग व्यवसाय के लिये गमनागमनं करते हैं। केचन जनेभ्यः गमनागमनं बहु रोचते।= कुछ लोगों को आना जाना बहुत पसंद आता है। केचन तु वारं वारं विदेशं गच्छन्ति आगच्छन्ति।= कुछ लोग तो बार बार विदेश जाते हैं आते हैं। ओ३म् 383. संस्कृत वाक्याभ्यासः * दृश्यते ??= दिख रहा है ?? ** आम् ।हाँ । ** गवाक्षतः सम्पूर्णं नगरं दृश्यते ।= झरोखे से सारा नगर दिख रहा है। ** अत्र तु कति गवाक्षाः सन्ति !!= यहाँ तो कितने झरोखे हैं !! * आम् , वायुप्रासादे बहवः गवाक्षाः सन्ति।= हाँ , हवामहल में बहुत से झरोखे हैं। * सर्वे जनाः गवाक्षात् बहिः पश्यन्ति।= सभी लोग झरोखे से बाहर देख रहे हैं। ** वायुप्रासादतः कुत्र चलिष्यावः ?= हवामहल से कहाँ चलेंगे ? * इतः आमेरदुर्गं चलिष्यावः ।= यहाँ से आमेर किला चलेंगे। * ततः वयं सम्पूर्णं जयपुरं द्रक्ष्यावः ।= वहाँ से हम सारा जयपुर देखेंगे। ** हवामहल बहु अरोचत ।= हवामहल बहुत पसंद आया। ** विशेषतः गावक्षाः अरोचन्त।= विशेष रूप से झरोखे पसंद आए। ओ३म् 384. संस्कृत वाक्याभ्यासः वर्षायाः कारणात् सा बालिका स्खलितवती।= वर्षा के कारण वह बच्ची फिसल गई। बालिका रोदिति।= बच्ची रो रही है। बालिका क्लिन्ना जाता।= बच्ची गीली हो गई । माता धावित्वा ताम् उन्नयति।= माँ दौड़कर उसे उठाती है। माता स्वशाटिकया बालिकां प्रौञ्छति।= माता अपनी साड़ी से बच्ची को पोंछती है। बालिकां नूतनानि वस्त्राणि धारयति।= बच्ची को नए वस्त्र पहनाती है। माता बालिकां निर्दिशति।= माँ बच्ची को निर्देश देती है। वर्षासमये वेगेन न धावनीयम्।= वर्षा के समय तेज नहीं दौड़ना चाहिये। अङ्गणे भूमिः चिक्कणा भवति।= आँगन में भूमि चिकनी होती है। शनैःशनैः चलनीयम् ।= धीरे धीरे चलना चाहिये। वर्षां दृष्ट्वा त्वं तु नृत्यसि स्म।= वर्षा देखकर तुम तो नाच रहीं थीं। बालिका – अम्ब ! पुनः स्नानार्थं गच्छानि वा ?= माँ ! फिर से नहाने जाऊँ ? – अधुना न पतिष्यामि।= अब नहीं गिरूँगी। माता – तर्हि पुनः क्लिन्नानि वस्त्राणि धारय ।= तो फिर से गीले कपड़े पहन लो। ओ३म् 385. संस्कृत वाक्याभ्यासः वयं सर्वे श्रीकृष्णं जानीमः।= हम सब श्रीकृष्ण को जानते हैं। वयं सर्वे श्रीकृष्णं वन्दामहे।= हम सब श्रीकृष्ण को वन्दन करते हैं। श्रीकृष्णः संस्कृतभाषायाम् एव वदति स्म।= श्रीकृष्ण संस्कृत भाषा में ही बोलते थे। संस्कृते एव अर्जुनाय उपदेशम् अयच्छत्।= संस्कृत में ही अर्जुन को उपदेश दिया। वयं संस्कृतभाषायां किमर्थं न वदामः ?= हम संस्कृत भाषा में क्यों नहीं बोलते हैं ? श्रीकृष्णभक्ताः स्मः वयम् ।= हम श्रीकृष्ण भक्त हैं । अस्माभिः संस्कृतभाषायां वक्तव्यम् ।= हमें संस्कृत में बोलना चाहिये। श्रीकृष्णः गोपालकः आसीत्।= श्रीकृष्ण गौ पालक थे। वयं गां न पालयामः।= हम गाय को नहीं पालते हैं। वयं गोदुग्धम् अपि न पिबामः।= हम गाय का दूध भी नहीं पीते हैं। अस्माभिः गोदुग्धं पेयम् ।= हमें गाय का दूध पीना चाहिये। गोशालां गत्वा गोपालनम् अपि करणीयम्।= गौशाला जाकर गौपालन भी करना चाहिये। योगिराजस्य श्रीकृष्णस्य जन्मजयन्ति निमित्तं सर्वेभ्यः मङ्गलकामनाः । ओ३म् 386. संस्कृत वाक्याभ्यासः तस्य ओष्ठौ रक्तवर्णीयौ स्तः।= उसके दोनों होंठ लाल हैं। किमर्थम् ?= क्यों ? सः ताम्बूलं खादति।= वह पान खाता है। तस्य ताम्बूले तमाखू न भवति।= उसके पान में तम्बाकू नहीं होती है। ( ताम्रचूडः न भवति।= तम्बाकू नहीं होती है। ) सः ताम्बूले चूर्णकं , कत्थां च लिम्पति।= वह पान पर चूना और कत्था लीपता है। पुगीफलम् एलां च स्थापयति।= सुपारी और इलायची डालता है। यदाकदा सः लवंगम् अपि स्थापयति।= कभी कभी लौंग भी डालता है। ( देवकुसुमम् = लौंग ) भोजनान्तरं सः एकं ताम्बूलं खादति।= भोजन के बाद वह एक पान खाता है। सः कुत्रापि निष्ठीवनं न करोति।= वह कहीं भी थूकता नहीं है। सः औषधरूपेण एव ताम्बूलं खादति।= वह औषधि के रूप में ही पान खाता है। ओ३म् 387. संस्कृत वाक्याभ्यासः सः शिक्षकः अस्ति।= वह शिक्षक है। सा शिक्षिका अस्ति।= वह शिक्षिका है। अद्य पर्यन्तम् अनेकान् छात्रान् सः पाठितवान्। ( सा पाठितवती )= आज तक उसने अनेक छात्रों को पढ़ाया है। त्रिंशत्वर्षेभ्यः सः / सा पाठयति।= तीस वर्षों से पढ़ा रहा है / रही है । सः / सा बहु प्रेम्णा पाठयति।= वह बहुत प्रेम से पढ़ाता है / पढ़ाती है। तस्य / तस्याः छात्राः अधुना बहुषु क्षेत्रेषु वृत्तिं प्राप्तवन्तः।= उसके छात्र अब बहुत से क्षेत्रों में नौकरी पा चुके हैं। तेन / तया पाठिताः छात्राः अद्य तस्य / तस्याः गृहम् आगतवन्तः ।= उसके द्वारा पढ़ाए हुए छात्र आज उसके घर आए। तिलकं कृत्वा तस्य / तस्याः सम्मानं कृतवन्तः ।= तिलक करके उसका सम्मान किया। तस्मै / तस्यै मिष्ठान्नं दत्तवन्तः ।= उसको मिठाई दी । सः / सा छात्रेभ्यः आशीर्वादम् अयच्छत्।=उसने छात्रों को आशीर्वाद दिया। सः / सा छात्रान् पृष्टवान् / पृष्टवती।= उसने छात्रों से पूछा। भवन्तः / भवत्यः स्वाध्यायं कुर्वन्ति खलु ?= आप सभी स्वाध्याय करते हैं न ? छात्राः अवदन् – ” आम् ”छात्र बोले – ” हाँ ” सर्वे छात्राः स्वस्तिवाचनं कृतवन्तः।= सभी छात्रों ने स्वस्तिवाचन किया। सर्वान् शिक्षकान् शिक्षकदिवसे अहं सादरं वन्दे । सर्वाः शिक्षिकाः शिक्षकदिवसे अहं सादरं वन्दे। ओ३म् 388. संस्कृत वाक्याभ्यासः इदानीम् अहं केरले अस्मि।= अभी मैं केरल में हूँ। एकस्मिन् विवाहसमारोहे अस्मि।= एक विवाह समारोह में हूँ। प्रातः दशवादने सर्वे एकं मन्दिरं गतवन्तः।= सुबह दस बजे सभी एक मंदिर गए। तत्र वरः वधूश्च आगत्य एकं पात्रं शालिना पूरितवन्तौ।= वहाँ वर वधू ने एक पात्र को धान से भर दिया। मन्दिरस्य अर्चकः तुलसीमाले आनीतवान्।= मंदिर का पुजारी दो तुलसी मालाएँ लाया। मन्दिरस्य द्वारे बृहद्दीपम् आसीत्।= मंदिर के पास बड़ा दीप था। तत्रैव वरवधू: परस्परं तुलसीमाल्यार्पणं कृतवन्तौ।= वहीं वर वधू ने एकदूसरे को तुलसी माला पहनाई। मृदङ्गवादकः मृदङ्गं वादयति स्म।= मृदङ्गवादक मृदङ्ग बजा रहा था। श्रृङ्गीवादकः श्रृङ्गीं वादयति स्म।= शहनाई बजाने वाला शहनाई बजा रहा था। नादस्वरं श्रुत्वा बहु आनन्दः आगतः।= नादस्वर सुनकर बहुत आनंद आया। अधुना सर्वे सध्यां खादन्ति।= अभी सब सध्या खा रहे हैं। ( केरले विवाहस्य भोजनस्य नाम सध्या अस्ति।= केरल में विवाह के भोजन का नाम सध्या है। ) ओ३म् 389. संस्कृत वाक्याभ्यासः सर्वे समाचारपत्रं पठन्ति।= सभी समाचारपत्र पढ़ रहे हैं। एकः उत्थाय पठति।= एक खड़ा होकर पढ़ रहा है। अन्यः उपविश्य पठति।= दूसरा बैठकर पढ़ रहा है। केचन जनाः याचित्वा पठन्ति।= कुछ लोग माँगकर पढ़ते हैं। यदा कोsपि समाचारपत्रं याचते …= जब कोई समाचार पत्र माँगता है … तदा वाचकः एकं पृष्ठं तस्मै ददाति ।= तब पढ़ने वाला व्यक्ति एक पृष्ठ उसे देता है। एकः वृद्धः काचेन समाचारपत्रं पठति।= एक वृद्ध ग्लास द्वारा समाचार पत्र पढ़ रहा है। एकः छात्रः केवलं मुख्यं समाचारम् एव पठति।= एक छात्र केवल मुख्य समाचार ही पढ़ता है। अपरः छात्रः सम्पूर्णं समाचारपत्रं पठति।= दूसरा छात्र पूरा समाचारपत्र पढ़ता है। एकः तु केवलं खेलसमाचारम् एव पठति।= एक तो केवल खेल समाचार ही पढ़ता है। एका युवती समाचारपत्रे स्वचित्रं दृष्ट्वा मोदते।= एक युवती समाचारपत्र में अपना चित्र देखकर खुश होती है। सा युवती श्लोकस्पर्धायां प्रथमं पुरस्कारं प्राप्तवती।= उस युवती ने श्लोक स्पर्धा में प्रथम पुरस्कार पाया। बहवः जनाः “सम्भाषण सन्देशम्” पठन्ति।= बहुत से लोग “सम्भाषण सन्देशम्” पढ़ते हैं। ओ३म् संस्कृत वाक्याभ्यासः अधुना सर्वत्र अवकरपात्रं दृश्यते।= अब सब जगह कूड़ादान दिखता है। आपणिकाः आपणात् बहिः अवकरपात्रं स्थापयन्ति।= दुकानदार दूकान से बाहर कूड़ेदान को रखते हैं। गृहस्वामिनः अपि गृहेषु अवकरपात्रं स्थापयन्ति।= घरों के मालिक घरों में कूड़ादान रखते हैं। उच्छिष्टम् अन्नं पशूनां कृते पृथक स्थापयन्ति।= जूठा भोजन पशुओं के लिये अलग रखते हैं। अवशिष्टम् अवकरम् अवकरपात्रे क्षिपन्ति।= बाकी बचा कचरा कूड़ेदान में फेंकते हैं। कर्गदानि क्षिपन्ति।= कागज फेंकते हैं। कूपीः क्षिपन्ति।= बोतलें फेंकते हैं। बालकाः अपि ज्येष्ठानाम् अनुकरणं कुर्वन्ति।= बच्चे भी बड़ों का अनुकरण करते हैं। प्रातःसायं अवकरपात्रं रिक्तं क्रियते।= सुबह शाम कूड़ादान खाली किया जाता है। स्वच्छता सर्वेभ्यः रोचते।= स्वच्छता सबको पसन्द है। ओ३म् 391. संस्कृत वाक्याभ्यासः माता – हस्तौ प्रक्षालय वत्स != हाथ धो लो बेटा ! पुत्रः – किमर्थम् अम्ब ?= क्यों माँ ? माता – तव पादौ अपि प्रक्षालय ।= तुम्हारे पैर भी धो लो। पुत्रः – अम्ब ! बहु बुभुक्षा अस्ति।= माँ ! बहुत भूख लगी है। – भोजनं ददातु।= भोजन दीजिये। माता – नैव , पूर्वं हस्तौ पादौ च प्रक्षालय।= नहीं पहले हाथ पैर धो लो। भोजनात् पूर्वं हस्तपाद-प्रक्षालनम् आवश्यकं भवति।= भोजन से पहले हाथ पैर धोना आवश्यक होता है। पुत्रः – आम् , अम्ब ! प्रक्षालयामि।= हाँ माँ ! धोता हूँ। माता – शोभनम् ।= बढ़िया । – यथा शुद्धं , स्वादिष्टं भोजनम् आवश्यकम् अस्ति।= जैसे शुद्ध , स्वादिष्ट भोजन आवश्यक है। – तथैव देहशुद्धि: मनःशुद्धि: अपि आवश्यकी भवति।= उसी प्रकार देहशुद्धि , मनःशुद्धि आवश्यक होती है। ओ३म् 392. संस्कृत वाक्याभ्यासः अद्य रजकः न आगतवान्।= आज धोबी नहीं आया। सः स्वं पुत्रं प्रेषितवान्।= उसने अपने पुत्र को भेजा। मम प्रक्षालितानि वस्त्राणि तेन सह प्रेषितवान्।= मेरे साफ किये हुए वस्त्र उसके साथ भेज दिये। रजकस्य पुत्रः मम वस्त्राणि आनयति स्म।= धोबी का पुत्र मेरे वस्त्र ला रहा था। रजकस्य पुत्रः द्विचक्रिकया आगच्छति स्म।= धोबी का पुत्र साइकिल से आ रहा था। मार्गे गर्तः आसीत् ।= रास्ते में गड्ढा था। सः बालकः पतितवान्।= वह बालक गिर गया। मम वस्त्राणि अपि पतितानि।= मेरे कपड़े भी गिर गए। तस्य जानौ व्रणः अभवत्।= उसकी जांघ पर घाव हो गया। रक्तम् अपि प्रवहति स्म।= खून भी बह रहा था। सः तत्रैव उपविश्य रोदनम् आरब्धवान्।= उसने वहीं बैठकर रोना शुरू कर दिया। मम पुत्रः मार्गे तं दृष्टवान्।= मेरे पुत्र ने रास्ते में उसे देख लिया। मम पुत्रः तम् उत्थापितवान्।= मेरे पुत्र ने उसे उठाया। तस्य चिकित्सां कारितवान्।= उसकी चिकित्सा करवाई। मम वस्त्राणि गृहे आनीतवान्।= मेरे वस्त्र घर ले आया। केवलं द्वे वस्त्रे एव मलिने जाते।= केवल दो ही वस्त्र मैले हुए। ओ३म् 393. संस्कृत वाक्याभ्यासः शीतलभगिनी यात्रां कृत्वा प्रत्यागतवती।= शीतल बहन यात्रा करके लौट आई। सा विवृणोति।= वह वर्णन करती है। सर्वप्रथमम् अहम् अमृतसरं गतवती।= सबसे पहले मैं अमृतसर गई। तत्र अहं स्वर्णमन्दिरं दृष्टवती।= वहाँ मैंने स्वर्णमंदिर देखा। अहं जलियांवाला उद्यानम् अपि गतवती।= मैं जलियांवाला बाग भी गई। तत्र अहं प्राणत्यागिभ्यः श्रद्धाञ्जलिम् अर्पितवती।= वहाँ मैंने शहीदों को श्रद्धांजलि दी। अमृतसरतः अहं बाघां गतवती।= अमृतसर से मैं बाघा गई। तत्र अहं बाघासीमां दृष्टवती।= वहाँ मैंने बाघा सीमा देखी। तत्रत्यानां सैनिकानाम् अभिवादनं कृतवती।= वहाँ के सैनिकों को मैंने अभिवादन किया। पंजाबराज्ये अहं सतलज , झेलम , रावी नदीषु स्नानं कृतवती।= पंजाब राज्य में मैंने सतलज , झेलम , रावी नदियों में स्नान किया। पंजाबतः अद्य अहं गृहम् आगतवती।= पंजाब से मैं आज घर आ गई। ओ३म् 394. संस्कृत वाक्याभ्यासः पौत्री आगत्य पश्यति।= पोती आकर देखती है। पौत्री – पितामही शेते ।= दादीजी सो रही हैं। कथम् एतस्यै औषधं ददानि।= इनको औषधि कैसे दूँ ? माता उक्तवती नववादने पितामह्यै औषधं देहि।= माँ ने कहा था नौ बजे दादीजी को औषधि देना। अहं सपाद नववादने दास्यामि।= मैं सवा नौ बजे दूँगी। ( सपाद नववादने पुनः पौत्री पश्यति ) पौत्री – पितामही गाढनिद्रायां स्वपिति।= दादीजी तो गहरी नींद में सो रही हैं। सा शयनं करोतु नाम।= इनको सोने दो । रात्रौ मां कथां श्रावितवती।= रात को मुझे कथा सुनाई। रात्रौ पितामही बहु कासते स्म।= रात में दादीजी बहुत खाँस रही थीं। औषधं दशवादने दास्यामि।= औषधि दस बजे दूँगी। अधुना तु सुखेन निद्राति।= अभी तो सुख से सो रही हैं। माता विद्यालयतः द्वादशवादने आगमिष्यति।= माँ विद्यालय से बारह बजे आएँगी। तावद् दास्यामि।= तब तक दे दूँगी। ओ३म् 395. संस्कृत वाक्याभ्यासः एका बालिका गणेशमण्डपं गच्छति।= एक बच्ची गणेशमंडप जाती है। तत्र सा जनान् पूजनं कुर्वतः पश्यति।= वहाँ वह लोगों को पूजा करते हुए देखती है। सा अपश्यत् ।= उसने देखा। सर्वे किमपि न किमपि याचन्ते।= सभी कुछ न कुछ माँग रहे हैं। सा अपि तत्र गत्वा तिष्ठति।= वह भी वहाँ जाकर खड़ी हो जाती है। सा प्रार्थयते।= वह प्रार्थना करती है। ” भवान् तु गणनायकः अस्ति।”= आप तो गणनायक हैं। ” मम पितरं जानाति स्यात्।”= मेरे पिता को जानते होंगे। “सः मद्यपानं करोति।”= वो शराब पीते हैं। ” गृहम् आगत्य मम मातरं ताड़यति।”= घर आकर मेरी माँ को मारते हैं। “गृहे धनाभावः अस्ति।”= घर में धन का अभाव है। “अतः अहं विद्यालयात् आगत्य गृहेषु कार्यं करोमि।”= इसलिये मैं विद्यालय से आकर घरों में काम करती हूँ। “अहं पठितुम् इच्छामि।”= मैं पढ़ना चाहती हूँ। “मम गृहे शान्तिम् इच्छामि।”= मेरे घर में शान्ति चाहती हूँ। “मम पिता मद्यपानं त्यजेत् इति अहम् इच्छामि।”= मेरे पिता मद्यपान छोड़ दें यह मैं चाहती हूँ। “मम इच्छापूर्तिः भवति तदा अहं बालकेभ्यः मोदकानि दास्यामि।”= मेरी इच्छापूर्ति होगी तो मैं बच्चों को लड्डू दूँगी। “बालकेषु अपि भवान् अस्ति एव।”= बच्चों में भी आप हैं ही। सा बालिका बहु श्रद्धया प्रार्थनां कृतवती।= उस बच्ची ने बहुत श्रद्धा से प्रार्थना की। ओ३म् 396. संस्कृत वाक्याभ्यासः कथं गच्छानि ?= कैसे जाऊँ ? यानं तु सः नीतवान्।= वाहन तो वह ले गया। पदभ्यां गच्छामि।= पैदल जाता हूँ। न…न…मम पार्श्वे भारः अपि अस्ति।= नहीं …नहीं … मेरे पास भार भी है। कथं नेष्यामि ?= कैसे ले जाऊँगा ? प्रतिवेशी अपि गृहे नास्ति।= पड़ोसी भी घर में नहीं है। अस्तु, मुख्य मार्गं गच्छामि।= ठीक है, मेन रोड पर जाता हूँ। कमपि हस्तं दर्शयामि।= किसी को भी हाथ दिखाता हूँ। कदाचित् कोsपि तिष्ठेत् ।= शायद कोई रुक जाए। कदाचित् कोsपि नयेत् ।= शायद कोई ले चले। ओ३म् 397. संस्कृत वाक्याभ्यासः सः कदा विरंस्यति= वह कब रुकेगा। द्विहोरातः सः व्यायामं करोति।= दो घंटे से व्यायाम कर रहा है। पञ्चदश निमेष पर्यन्तं सः अकूर्दत।= पंद्रह मिनट तक वह कूदा। अर्धहोरा पर्यन्तं सः अधावत्।= आधा घंटे तक वह दौड़ा। पञ्चदश निमेष पर्यन्तं सः दण्डम् अकरोत्।= पन्द्रह मिनट तक उसने दण्ड किये। पञ्चदश निमेष पर्यन्तं सः हस्तौ चालितवान्।= पन्द्रह मिनट तक उसने दोनों हाथ चलाए। पञ्चदश निमेष पर्यन्तं सः मुद्गरम् अधुनोत्= पन्द्रह मिनट तक उसने मुद्गर घुमाया। अधुना सः आसनानि करोति।= अभी वह आसन कर रहा है। अर्धहोरा अभवत्।= आधा घंटा हो गया। विविधानि आसनानि कुर्वन् अस्ति सः।= वह विविध आसन कर रहा है। तस्य शरीरात् प्रस्वेदः निर्गच्छति।= उसके शरीर से पसीना निकल रहा है। अधुना कदाचित् विरमेत्।= अब शायद रुक जाए। अधुना सः शवासनं करोति।= अभी वह शवासन कर रहा है। ओ३म् 398. संस्कृत वाक्याभ्यासः वयं सर्वे लाहौर-नगरस्य नाम श्रुतवन्तः।= हम सबने लाहौर नगर का नाम सुना है। लवकुशाभ्यां तस्य निर्माणं कृतम्।= लवकुश द्वारा उसका निर्माण किया गया। आधुनिकस्य लाहौरस्य निर्माणं केन कृतं तद् वयं न जानीमः।= आधुनिक लाहौर का निर्माण किसने किया वह हम नहीं जानते। सर गंगाराम नाम्नः एकः अभियन्ता आसीत्।= सर गंगाराम नाम के एक इंजीनियर थे। तस्य जन्म 1851 तमे वर्षे अभवत्।= उनका जन्म 1851 के वर्ष में हुआ था।( एक सहस्र अष्ट शतं एक पञ्चाशत् ) सः मरुभूमौ कृषिकार्यम् आरब्धवान्।= उन्होंने मरुभूमि पर खेती शुरू की। सः यत्किमपि धनम् अर्जयति स्म तस्य सदुपयोगं लाहौरस्य विकासाय एव करोति स्म।= वह जो कुछ भी धन कमाते थे उसका सदुपयोग लाहौर के विकास के लिये ही करते थे। लाहौर नगरे मुख्य पत्रालयः, लाहौर संग्रहालयः , मेयो महाविद्यालयः , गंगाराम चिकित्सालयः इत्यादीनां भवनानां निर्माणं तेनैव कृतम्।= लाहौर नगर में मुख्य डाकघर , लाहौर संग्रहालय, मेयो कॉलेज गंगाराम चिकित्सालय, आदि भवनों का निर्माण उन्होंने ही किया। विद्युत्उत्पादन केन्द्रस्य निर्माणम् अपि तेनैव कृतम्।= बिजली उत्पन्न करने के केंद्र का भी निर्माण उन्होंने किया। पठानकोटतः अमृतसर पर्यन्तं रेलमार्गस्य निर्माणम् अपि सः एव कृतवान् आसीत्।= पठानकोट से अमृतसर तक रेलमार्ग का निर्माण भी उन्होंने ही किया था। दिल्ही-नगरे अपि सर गंगाराम चिकित्सालयः वर्तते।= दिल्ली में भी सर गंगाराम अस्पताल है। लाहौर नगरे अधुना अपि सर गंगारामस्य समाधिः विद्यते।= लाहौर में आज भी सर गंगाराम की समाधि है। वयं सर गंगारामं वन्दामहे।= हम सर गंगाराम को वन्दन करते हैं। दुःखस्य विषयः लाहौर अधुना पाकिस्थाने अस्ति।= दुख का विषय है लाहौर अब पाकिस्तान में है। ओ३म् 399. संस्कृत वाक्याभ्यासः मातुलानी – संजय ! उत्तिष्ठ ।= संजय , उठो । – संजयः तु अत्र नास्ति।= संजय तो यहाँ नहीं है। – शीघ्रमेव उत्थितवान् ।= जल्दी उठ गया वह। – एषः तु अत्र ध्यानं करोति।= ये तो यहाँ ध्यान कर रहा है। – संजयः ध्यानं करोति !!! आश्चर्यम्= संजय ध्यान कर रहा है , आश्चर्य । ( संजयः यदा उत्थास्यति तदा प्रक्ष्यामि।= संजय जब उठता है तब पूछती हूँ। ) मातुलानी – त्वं कदा आरभ्य ध्यानं करोषि ?= तुम कब से ध्यान करने लगे। संजयः – गतमासे अहं संस्कारशिबिरं गतवान्।= पिछले महीने मैं संस्कार शिबिर गया था। तत्र ते योगध्यानस्य अभ्यासं कारितवन्तः ।= वहाँ उन्होंने योग ध्यान का अभ्यास कराया। मातुलानी – संजय !! त्वं तु श्रेष्ठः जातः।= तुम तो सुधर गए। ओ३म् 400. संस्कृत वाक्याभ्यासः पत्नी – सेविका तु न आगतवती।= सेविका तो नहीं आई। – पात्राणि कः प्रक्षालयिष्यति ?= बर्तन कौन धोएगा ? – अद्य मम विद्यालयं शिक्षणाधिकारी आगामिष्यति।= आज मेरे विद्यालय में शिक्षणाधिकारी आएँगे। पतिः – कति सन्ति पात्राणि ?= कितने बर्तन हैं ? – ओह , केवलं विंशतिः खलु।= ओह , केवल बीस न । – अष्ट तु चमसाः सन्ति।= आठ तो चम्मच हैं। – चत्वारः चषकाः ।= चार गिलास। – तिस्रः स्थालिकाः सन्ति।= तीन थालियाँ हैं। – अन्यानि पात्राणि लघूनि एव।= अन्य पात्र छोटे ही हैं। – आवां द्वौ प्रक्षालयितुं शक्नुवः।= हम दोनों धो सकते हैं। पत्नी – सेविका कदा आगमिष्यति ?= सेविका कब आएगी ? पतिः – अधुना तु सेवकः आगतः ।= अभी तो सेवक आ गया है। – आगच्छ , पात्राणि प्रक्षालयावः।= आओ , बर्तन धोते हैं । ओ३म् 401. संस्कृत वाक्याभ्यासः मित्राणि !!! भो: मित्राणि !!! श्रुतम् ??= सुना ?? प्रधानमन्त्री महोदयः अस्माकं छात्रावासम् आगच्छति।= प्रधानमंत्री महोदय हमारे छात्रावास आ रहे हैं। प्रधानमन्त्रिणे स्वच्छता बहु रोचते।= प्रधानमंत्री को स्वच्छता बहुत पसंद है। मेहुल ! त्वं दीर्घां स्वच्छां कुरु ।= मेहुल ! तुम गलिहारा साफ करो। तव गौतमगणस्य छात्राः सहयोगं करिष्यन्ति।= तुम्हारे गौतम गण के छात्र सहयोग करेंगे। किरीट ! अत्र पश्य , ऊर्णनाभस्य जालानि सन्ति।= किरीट ! यहाँ देखो , मकड़ी के जाले हैं। तव कणादगणस्य छात्राः एतद् कार्यं करिष्यन्ति।= तुम्हारे कणाद गण के छात्र ये काम करेंगे। नलिन ! त्वं छात्रावासात् बहिः आगच्छ ।= नलिन ! तुम छात्रावास से बाहर आओ। अत्र पश्य , जनाः अत्रैव निष्ठीवनं कुर्वन्ति।= यहाँ देखो , लोग यहीं पर थूकते हैं। तव कपिल गणस्य छात्राः भित्तिं स्वच्छां करिष्यन्ति।= तुम्हारे कपिल गण के छात्र दीवाल साफ करेंगे। मम वसिष्ठगणस्य छात्राः छात्रावासे सुशोभनं करिष्यन्ति।= मेरे वसिष्ठ गण के छात्र सुशोभन करेंगे। ओ३म् 402. संस्कृत वाक्याभ्यासः तस्य केशाः पतन्ति।= उसके बाल गिर रहे हैं। सः यदा स्नानं करोति तदा केशाः भ्रष्टाः भवन्ति।= वह जब नहाता है तब बाल झड़ते हैं। प्रतिदिनं केशाः क्षरन्ति।= हररोज़ बाल झड़ रहे हैं। भोजनसमये स्थालिकायां केशाः पतन्ति।= भोजन के समय थाली में बाल गिरते हैं। मार्गे तस्य युतके अपि केशाः आगच्छन्ति।= रास्ते में उसकी शर्ट पर भी बाल आ जाते हैं। अधुना सः शिरसि रिष्टकस्य लेपनं करोति।= अभी वह सिर पर रीठे का लेप कर रहा है। आमलकस्य अपि सेवनं करोति।= आँवले का भी सेवन करता है। यदाकदा दध्ना केशान् प्रक्षालयति।= कभी कभी दही से बाल धोता है। यथा वैद्येन उक्तं तथैव सः करोति।= जैसा वैद्य ने कहा वैसा वह कर रहा है। तस्य केशाः सुदृढ़ाः भविष्यन्ति इति अहं मन्ये।= उसके बाल मजबूत हो जाएँगे ऐसा मैं मानता हूँ। ओ३म् 403. संस्कृत वाक्याभ्यासः कदलीवृक्षे पुष्पम् अपि भवति।= केले के पेड़ पर फूल भी होते हैं। पुष्पं बहु दीर्घं भवति।= फूल बहुत बड़ा होता है। तद् पुष्पं यदा अपक्वं भवति तदा कर्त्यते।= वो फूल जब कच्चा होता है तब काटा जाता है। दक्षिणभारतीयाः जनाः तस्य शाकं प्रचुरं खादन्ति।= दक्षिण भारत के लोग उसकी सब्जी अधिक खाते हैं। तद् शाकम् अहं खादितवान्।= वो सब्जी मैंने खाई। बहु स्वादिष्टं भवति।= बहुत स्वादिष्ट होती है। लवणयुक्ते जले कदलीपुष्पं क्वथ्यते।= नमकीन पानी में केले का फूल उबाला जाता है। अनन्तरं तस्य शाकं निर्मीयते।= उसके बाद उसकी सब्जी बनाई जाती है। मधुमेहरोगिणः एतद् शाकं खादन्ति।= मधुमेह के रोगी इस सब्जी को खाते हैं। अपक्वं कदलीफलम् अपि आपणे मिलति।= कच्चा केला भी बाजार में मिलता है। तस्य अपि शाकं महिलाः पचन्ति।= उसकी भी सब्जी महिलाएँ बनाती हैं। ओ३म् 404. संस्कृत वाक्याभ्यासः अहं तं बीमाशुल्कम् सूचितवान्= मैंने उसे बीमा प्रीमियम बताया । सः त्वरितमेव धनगणनाम् आरब्धवान्।= उसने तुरन्त धन गिनना शुरू कर दिया। एकम् द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः सः तु सप्तविंशतिः पर्यन्तं गणनां कृतवान्।= उसने सत्ताईस तक गिन लिया। सः मह्यम् सप्तविंशतिः सहस्रं दत्तवान्।= उसने मुझे सत्ताईस हजार दिये। मया उक्तं ” न , केवलं एकविंशतिः सहस्रमेव भवति।”= मैंने कहा ” नहीं केवल इक्कीस हजार ही होते हैं।” अहं षड्सहस्रं तस्मै प्रत्यर्पितवान्।= मैंने उसे छः हजार वापस किये। सः अवदत् – ” भवति मम विश्वासः अस्ति।”= उसने कहा – “आप पर मुझे विश्वास है” अधुना सः पुनः गणयति।= अभी वह फिर से गिन रहा है। मह्यं केवलं एकविंशतिः सहस्रं दास्यति।= मुझे केवल इक्कीस हजार देगा। भवन्तः / भवत्यः अपि गणयन्तु।= आप भी गिनिये। ओ३म् 405. संस्कृत वाक्याभ्यासः सुभाषस्य गृहं गतवान् अहम् ।= सुभाष के घर मैं गया। सः मोदकम् अखादयत्।= उसने लड्डू खिलाया । अनन्तरं देवेशस्य गृहं गतवान् अहम् ।= उसके बाद देवेश के घर गया। सः नारिकेलम् अखादयत्।= उसने नारियल खिलाया। अनन्तरम् अर्चनायाः गृहं गतवान् अहम् ।= उसके बाद अर्चना के घर गया। सा मोमकम् अखादयत्।= उसने पेड़ा खिलाया। अनन्तरम् सुमित्रायाः गृहं गतवान् अहम् ।= उसके बाद सुमित्रा के घर गया। सा सैंयावम् अखादयत्।= उसने हलुआ खिलाया। अधुना किमपि खादितुं न इच्छामि।= अब कुछ नहीं खाना चाहता हूँ। अधुना गृहम् आगत्य तक्रं पिबामि।= अभी घर आकर छास पी रहा हूँ। ओ३म् 406. संस्कृत वाक्याभ्यासः ते के सन्ति ?= वे कौन हैं ? ते श्रमिकाः सन्ति।= वे श्रमिक हैं। कति श्रमिकाः सन्ति ?= कितने श्रमिक हैं ? चत्वारः श्रमिकाः सन्ति।= चार श्रमिक हैं। ते किं कुर्वन्ति ?= वे क्या कर रहे हैं ? ते भारवाहनात् इष्टिकाः अवतारयन्ति।= वे ट्रक से ईंटें उतारते हैं। अधुना बहु आतपः अस्ति।= अभी बहुत धूप है। अतएव द्वौ श्रमिकौ विश्रामं कुरुतः।= अतः दो श्रमिक विश्राम कर रहे हैं। द्वौ एव कार्यं कुरुतः ।= दो ही काम कर रहे हैं। एकः इष्टिकाः अवतारयति।= एक ईंटें उतार रहा है। द्वितीयः भूमौ स्थापयति।= दूसरा भूमि पर रख रहा है। कति इष्टिकाः सन्ति ?= कितनी ईंटें हैं ? दशसहस्र इष्टिकाः सन्ति।= दस हजार ईंटें हैं। ओ३म् 407. संस्कृत वाक्याभ्यासः सा करण्डकं रिक्तं करोति।= वह टोकरी खाली करती है। अनन्तरं करण्डकं स्वच्छं करोति।= उसके बाद टोकरी साफ करती है। करण्डके एकं स्वच्छं वस्त्रं प्रसारयति।= टोकरी में साफ कपड़ा बिछाती है। अनन्तरं करण्डके सेवफलानि स्थापयति।= उसके बाद टोकरी में सेव रखती है। करण्डकं शिरसि उन्नयति।= टोकरी सिर पर उठाती है। आपणं गच्छति।= बाजार जाती है। आपणे एकस्मिन् कोणे उपविशति।= बाजार में एक कोने में बैठती है। सा सेवफलं विक्रीणाति।= वह सेव बेचती है। सा यानि सेवफलानि विक्रीणाति तानि बहु मधुराणि सन्ति।= वह जो सेव बेचती है वो बहुत मीठे हैं। तस्याः स्वभावः अपि बहु मधुरः अस्ति।= उसका स्वभाव भी बहुत मीठा है। ओ३म् 408. संस्कृत वाक्याभ्यासः भोः मित्र ! अत्र अवकरं मा क्षिप ।= ओ मित्र ! यहाँ कूड़ा मत फेंको। यथा अस्ति तव गृहं स्वच्छम्= जैसे तुम्हारा घर स्वच्छ है। तथैव भवेत् मम गृहं स्वच्छम्= वैसे ही हो स्वच्छ घर मेरा। पश्य , तत्र अस्ति अवकरपात्रम् ।= देखो , वहाँ है कूड़ेदान । नगरपालिकायाः अस्ति अवकरपात्रम् ।= नगरपालिका का है कूड़ेदान। वीथिः अस्ति सर्वेषाम् ।= गली तो सबकी है। मा कुरु, मा कुरु मार्गम् अस्वच्छम्।= मत करो , मत करो रास्ते को अस्वच्छ। स्वच्छतायां नास्ति किमपि कष्टम्।= स्वच्छता में कोई कष्ट नहीं है। उत्थापय तव सर्वम् अवकरम्।= उठा लो सारा कूड़ा तुम्हारा। नय , नय इतः सर्वम् अवकरम्।= ले जाओ यहाँ से सारा कूड़ा। क्षिप क्षिप अवकरपात्रे अवकरम्।= फेंको कूड़ेदान में कूड़ा। ओ३म् 409. संस्कृत वाक्याभ्यासः सः अत्रिः अस्ति।= वह अत्रि है। अत्रिः संस्कृतशिक्षकः अस्ति।= अत्रि संस्कृत शिक्षक है। ह्यः अत्रिणा सह वार्तालापः अभवत्।= कल अत्रि के साथ बातचीत हुई। सः गढ़सीसा ग्रामे राजकीय-विद्यालये पाठयति।= वह गढ़सीसा गाँव में सरकारी स्कूल में पढ़ाता है। ( गढ़सीसा ग्रामः कच्छ जनपदे अस्ति= गढ़सीसा गाँव कच्छ जिले में है ) यदा अत्रिः बालकः आसीत् तदा अहं तं मिलितवान्।= जब अत्रि बालक था तब मैं उसे मिला था। तदानीं गागोदर ग्रामे मिलितवान् ।= तब गागोदर गाँव में मिला था। ( गागोदर ग्रामः कच्छ जनपदे अस्ति= गागोदर गाँव कच्छ जिले में है ) नवलशङ्करः राजगोरः तस्य पिता अस्ति।= नवलशंकर राजगोर उसके पिता हैं। नवलशङ्करः कथाकारः अस्ति।= नवलशंकर जी कथाकार हैं। नवलशङ्करः संस्कृतज्ञः अस्ति।= नवलशङ्कर जी संस्कृतज्ञ हैं। अत्रिः मया सह संस्कृतभाषायाम् एव वार्तालापं कृतवान्।= अत्रि ने मेरे साथ संस्कृत में ही बात की। ओ३म् 410. संस्कृत वाक्याभ्यासः सः दिनदर्शिकां दर्शयति।= वह कलेंडर दिखाता है। * पश्यतु , प्रथमतः पञ्चदशदिनाङ्क पर्यन्तम् अहं छात्रावासे न आसम् ।= देखिये , पहली से पंद्रह तारीख तक मैं छात्रावास में नहीं था। षोडशदिनाङ्के मम मित्रस्य जन्मदिनम् आसीत्।= सोलह तारीख को मेरे मित्र का जन्मदिन था। मम मित्रस्य गृहे भोजनं कृतवान् अहम् ।= मेरे मित्र के घर मैंने भोजन किया। अतः षोडशदिनाङ्क पर्यन्तम् अहं छात्रावासे भोजनं न कृतवान्।= अतः सोलह तारीख तक मैंने छात्रावास में खाना नहीं खाया। श्वः रविवासरः अस्ति।= कल रविवार है। रविवासरे अहं मम गृहं गच्छामि।= रविवार को मैं मेरे घर जा रहा हूँ। अतः त्रयोदश दिनानामेव भोजनशुल्कम् अहं ददामि।= इसलिये तेरह दिन का ही भोजनशुल्क मैं देता हूँ। स्वीकरोतु … ओ३म् 411. संस्कृत वाक्याभ्यासः दूरवाण्या सः वार्तालापं करोति।= फोन से वह बात करता है। * गणेश ! किं करोषि त्वम् ?= गणेश ! तुम क्या कर रहे हो ? * अद्य रविवासरः ।= आज रविवार है । * अधिकं शयनं मा कुरु।= अधिक मत सोना। * गृहे त्वम् एकाकी असि।= घर में तुम अकेले हो । * माता तव मातुलस्य गृहे अस्ति।= माँ तुम्हारे मामा के घर है। * अहम् उदयपुरे अस्मि।= मैं उदयपुर में हूँ। * तव भगिनी कोलकातायाम् अस्ति।= तुम्हारी बहन कोलकाता में है। * दूरदर्शनम् अधिकं मा पश्य।= टीवी अधिक मत देखना। * त्वं तु भोजनं पक्तुं जानासि।= तुम तो भोजन पकाना जानते हो। * प्रेम्णा भोजनं खाद ।= प्रेम से भोजन खा लेना। पुत्रः – आं तात ! अहं प्रवेशपरीक्षायाः अभ्यासं करोमि।= हाँ पिताजी ! मैं प्रवेश परीक्षा की तैयारी कर रहा हूँ। भवान् अपि जानाति।= आप भी जानते हैं। अहम् एकान्ते प्रेम्णा पठामि।= मैं एकान्त में प्रेम से पढ़ रहा हूँ। चिन्ता मास्तु।= चिंता मत करिये। Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.