228 Ishopanishad 06 December 16, 2019 By Arun Aryaveer Download ईशा वास्यमिद सर्वं यत्किञ्च जगत्यां जगत्।तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्।। १।।कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः।एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।। २।।असुर्य्या नाम ते लोकाऽअन्धेन तमसावृताः।ताँस्ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः।। ३।।अनेजदेकं मनसो जवीयो नैनद्देवाऽआप्नुवन् पूर्वमर्शत्।तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति।। ४।।तदेजति तन्नैजति तद्दूरे तद्वन्तिके।तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः।। ५।।यस्तु सर्वाणि भूतान्यात्मन्नेवानुपश्यति।सर्वभूतेषु चात्मानं ततो न वि चिकित्सति।। ६।।यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः।तत्र को मोहः कः शोकऽएकत्वमनुपश्यतः।। ७।।स पर्य्यगाच्छुक्रमकायमव्रणमस्नाविर शुद्धमपापविद्धम्। कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः।। ८।।अन्धन्तमः प्रविशन्ति येऽसम्भूतिमुपासते।ततो भूयऽइव ते तमो यऽउ सम्भूत्याद्भञ रताः।। ९।।अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे।। १०।।सम्भूतिं च विनाशं च यस्तद्वेदोभय सह।विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते।। ११।।अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते।ततो भूयऽइव ते तमो यऽउ विद्यायाद्भञ रताः।। १२।।अन्यदेवाहुर्विद्यायाऽअन्यदाहुरविद्यायाः।इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे।। १३।।विद्यां चाविद्यां च यस्तद्वेदोभय सह।अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते।। १४।।हिरण्यमेन पात्रेण सत्यस्यापिहितं मुखम्।तत्वं पूषन्नपावृणु सत्य धर्माय दृष्टये।।१५।।पुषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह।तेजो यन्ते रूपं कल्याणतमं तन्ते पश्यामि,योऽसावादित्ये पुरुषः सोऽहमस्मि।।१६।।वायुरनिलममृतमथेदं भस्मान्त शरीरम्।ओ३म् क्रतो स्मर। क्लिबे स्मर। कृत स्मर।। ।। १७।।अग्ने नय सुपथा रायेऽअस्मान्विश्वानि देव वयुनानि विद्वान्।युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमऽउक्तिं विधेम।। १८।।हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।योऽसावादित्ये पुरुषः सो ऽसावहम्। ओ३म् खं ब्रह्म।। १९।।