164 Diewlok Aarohan 02 January 7, 2020 By Arun Aryaveer Download पुनर्योगिगुणा उपदिश्यन्ते पृथिव्याऽअहमुदन्तरिक्षमारुहमन्तरिक्षाद् दिवमारुहम्।दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहम्।। (यजुर्वेद १७/६७) पदपाठः पृथिव्याः। अहम्। उत्। अन्तरिक्षम्। आ। अरुहम्। अन्तरिक्षाद्। दिवम्। आ। अरुहम्। दिवः। नाकस्य। पृष्ठात्। स्वः। र्ज्योतिः। अगाम्। अहम्।। पदार्थः पृथिव्याः भूमेर्मध्ये अहम् उत् अन्तरिक्षम् आकाशम् आ अरुहम् रोहेयम् आकाशाद् दिवम् प्रकाशमानं सूर्यम् आ अरुहम् समन्ताद् रोहेयम् दिवः द्योतमानस्य नाकस्य सुखनिमित्तस्य पृष्ठात् समीपात् स्वः सुखं ज्योतिः ज्ञानप्रकाशम् आगाम् प्राप्नुयाम् अहम्। अन्वयः हे मनुष्याः यथा कृतयोगाङ्गानुष्ठानसंयमसिद्धोऽहं पृथिव्या अन्तरिक्षमुदारुहम्, अन्तरिक्षाद् दिवमारुहम्, नाकस्य दिवः पृष्ठात् स्वर्ज्योतिश्चाहमगाम् तथा यूयमप्याचरत।।भावार्थः यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदा अणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा।। पदार्थ : हे मनुष्यों जैसे किए हुए योग के अङ्गों के अनुष्ठान संयमसिद्ध अर्थात् धारणा ध्यान और समाधि में परिपूर्ण अहम् मैं पृथिव्याः पृथिवी के बीच अन्तरिक्षम् आकाश को उद् आ अरुहम् उठ जाऊँ वा नाकस्य सुख कराने हारे दिवः प्रकाशमान उस सूर्यलोक के पृष्ठात् समीप से स्वः अत्यन्त सुख और ज्योतिः ज्ञान के प्रकाश को अहम् मैं अगाम् प्राप्त होऊँ वैसा तुम भी आचरण करो। भावार्थ : जब मनुष्य अपने आत्मा के साथ परमात्मा के योग को प्राप्त होता हैतब अणिमादि सिद्धियाँ उत्पन्न होती हैं, उसके पीछे कहीं से न रुकनेवाली गति से अभीष्ट स्थानों को जा सकता है, अन्यथा नहीं। ~ महर्षि दयानन्द सरस्वति