पितः पातु विमलां April 13, 2020 By Arun Aryaveer Download आर्ष-लता पितः पातु विमलां तामार्षलताम्।। टेक।। पाणिनिमुनिना व्याकृतिखनिना, अतिमतिधनिना हि पतंजलिना। मेधया मलया विहितातिसेवाम्।। 1।। व्याकरणारुणैर्भूतपोहरणैः, विरजानन्द चरणैरार्षत्वभरणैः। भुवि भूयो भूषितां सुहितां नितराम्।। 2।। देवदयानन्दैरानन्दकन्दैः, वेदविद्यावन्दैस्तद्रसस्यन्दैः। लालितां पालितां तामति सुफलाम्।। 3।। जगदेकधातः सर्वदापातः, विश्वज्ञानदातः समाशमत्रातः। पुष्पितां फलितां कुरु श्रुति वाटिकाम्।। 4।।