दयाकर भक्तिविज्ञानम् August 22, 2019 By Arun Aryaveer Isha-PrarthanaDownload ईश प्रार्थना दयाकर भक्तिविज्ञानं पितः परमात्मनं देयम्। दया देया दयालुरसि चितौ संशोधनं धेयम्।। टेक।। प्रभो आगच्छ ध्याने मे वश शीघ्रं च नेत्रे मे। तमश्छन्ने मनस्येत्य परमज्योतिर्न आनेयम्।। 1।। प्रवाहय प्रेम-गंगां त्वं मनस्सु प्रीति-पीयूषम्। मिथः संवासो हे नाथ वर्तनं च मया ज्ञेयम्।। 2।। राष्ट्रहेतोर्भवेन्मरणं प्राणत्राणं च राष्ट्राय। स्वदेशे प्राण बलिदानं प्रदेया सद्यः शिक्षेयम्।। 3।। सेवनं धर्ममस्माकं सेवनं कृत्यमस्माकं। प्राणदानं च धर्मार्थं करोमीति बलं धेयम्।। 4।।