हे विभो आनन्दसिन्धो August 22, 2019 By Arun Aryaveer Samarpan-PrarthanaDownload समर्पण प्रार्थना हे विभो आनन्दसिन्धो मे च मेधा दीयताम्। यच्च दुरितं दीनबन्धो तच्च दूरं नीयताम्।। टेक।। चंचलानि चेन्द्रियाणि मानसं मे पूयताम्। शरणं याचे तावकोऽहं सेवकोऽनुगृह्यताम्।। 1।। त्वयि च वीर्यं विद्यते यत् तच्च मयि निधीयताम्। या च दुर्गुण दीनता मयि सा तु शीघ्रं क्षीयताम्।। 2।। शौर्यं धैर्यं तैजसं च भारते चेक्रियताम्। हे दयामय अयि अनादे प्रार्थना मम श्रूयताम्।। 3।।